कदाचित्स्वगृहं प्राप्तं कश्यपं द्विपदां वरम्
सनत्कुमार उवाच
कदाचित्स्वगृहं प्राप्तं कश्यपं द्विपदां वरम् ।
अपृच्छद्धिमवान्प्रश्नं लोके ख्यातिकरं नु किम्
॥१॥केनाक्षयाश्च लोकाः स्युः ख्यातिश्च परमा मुने ।
तथैव चार्चनीयत्वं सत्सु तं कथयस्व मे
॥२॥कश्यप उवाच
अपत्येन महाबाहो सर्वमेतदवाप्यते ।
मम ख्यातिरपत्येन ब्रह्मणो ऋषिभिश्च ह
॥३॥किं न पश्यसि शैलेन्द्र यतो मां परिपृच्छसि ।
वर्तयिष्यामि तच्चापि यन्मे दृष्टं पुराचल
॥४॥वाराणसीमहं गच्छन्नपश्यं संस्थितं दिवि ।
विमानं स्वनवद्दिव्यमनौपम्यमनिन्दितम्
॥५॥तस्याधस्तादार्तनादं गर्तास्थाने शृणोम्यहम् ।
तानहं तपसा ज्ञात्वा तत्रैवान्तर्हितः स्थितः
॥६॥अथागात्तत्र शैलेन्द्र विप्रो नियमवाञ्छुचिः ।
तीर्थाभिषेकपूतात्मा परे तपसि संस्थितः
॥७॥अथ स व्रजमानस्तु व्याघ्रेणाभीषितो द्विजः ।
विवेश तं तदा देशं सा गर्ता यत्र भूधर
॥८॥गर्तायां वीरणस्तम्बे लम्बमानांस्तदा मुनीन् ।
अपश्यदार्तो दुःखार्तानपृच्छत्तांश्च स द्विजः
॥९॥के यूयं वीरणस्तम्बे लम्बमाना ह्यधोमुखाः ।
दुःखिताः केन मोक्षश्च युष्माकं भवितानघाः
॥१०॥पितर ऊचुः
वयं तेऽकृतपुण्यस्य पितरः सपितामहाः ।
प्रपितामहाश्च क्लिश्यामस्तव दुष्टेन कर्मणा
॥११॥नरकोऽयं महाभाग गर्तारूपं समास्थितः ।
त्वं चापि वीरणस्तम्बस्त्वयि लम्बामहे वयम्
॥१२॥यावत्त्वं जीवसे विप्र तावदेव वयं स्थिताः ।
मृते त्वयि गमिष्यामो नरकं पापचेतसः
॥१३॥यदि त्वं दारसंयोगं कृत्वापत्यं गुणोत्तरम् ।
उत्पादयसि तेनास्मान्मुच्येम वयमेकशः
॥१४॥नान्येन तपसा पुत्र न तीर्थानां फलेन च ।
तत्कुरुष्व महाबुद्धे तारयस्व पितॄन्भयात्
॥१५॥स तथेति प्रतिज्ञाय आराध्य च वृषध्वजम् ।
पितॄन्गर्तात्समुद्धृत्य गणपान्प्रचकार ह
॥१६॥स्वयं च रुद्रदयितः सुकेशो नाम नामतः ।
सम्मतो बलवांश्चैव रुद्रस्य गणपोऽभवत्
॥१७॥तस्मात्कृत्वा तपो घोरमपत्यं गुणवत्तरम् ।
उत्पादयस्व शैलेन्द्र ततः कीर्तिमवाप्स्यसि
॥१८॥सनत्कुमार उवाच
स एवमुक्तो ऋषिणा शैलेन्द्रो नियमे स्थितः ।
तपश्चकार विपुलं येन ब्रह्मा तुतोष ह
॥१९॥तमागत्य तदा ब्रह्मा वरदोऽस्मीत्यभाषत ।
ब्रूहि तुष्टोऽस्मि ते शैल तपसानेन सुव्रत
॥२०॥हिमवानुवाच
भगवन्पुत्रमिच्छामि गुणैः सर्वैरलंकृतम् ।
एतद्वरं प्रयच्छस्व यदि तुष्टोऽसि नः प्रभो
॥२१॥ब्रह्मोवाच
कन्या भवित्री शैलेन्द्र सुता ते वरवर्णिनी ।
यस्याः प्रभावात्सर्वत्र कीर्तिमाप्स्यसि पुष्कलाम्
॥२२॥अर्चितः सर्वदेवानां तीर्थकोटीसमावृतः ।
पावनश्चैव पुण्यश्च देवानामपि सर्वतः ।
ज्येष्ठा च सा भवित्री ते अन्ये चानु ततः शुभे
॥२३॥सनत्कुमार उवाच
एवमुक्त्वा ततो ब्रह्मा तत्रैवान्तरधीयत ।
सोऽपि कालेन शैलेन्द्रो मेनायामुपपादयत् ।
अपर्णामेकपर्णां च तथा चाप्येकपाटलाम्
॥२४॥न्यग्रोधमेकपर्णा तु पाटलं चैकपाटला ।
आश्रिते द्वे अपर्णा तु अनिकेता तपोऽचरत् ।
शतं वर्षसहस्राणां दुश्चरं देवदानवैः
॥२५॥आहारमेकपर्णेन सैकपर्णा समाचरत् ।
पाटलेन तथैकेन विदधात्येकपाटला
॥२६॥पूर्णे पूर्णे सहस्रे तु आहारं तेन चक्रतुः ।
अपर्णा तु निराहारा तां माता प्रत्यभाषत ।
निषेधयन्ती ह्यु मेति मातृस्नेहेन दुःखिता
॥२७॥सा तथोक्ता तदा मात्रा देवी दुश्चरचारिणी ।
तेनैव नाम्ना लोकेषु विख्याता सुरपूजिता
॥२८॥एतत्तत्त्रिकुमारीणां जगत्स्थावरजङ्गमम् ।
एतासां तपसा लब्धं यावद्भूमिर्धरिष्यति
॥२९॥तपःशरीरास्ताः सर्वास्तिस्रो योगबलान्विताः ।
सर्वाश्चैव महाभागाः सर्वाश्च स्थिरयौवनाः
॥३०॥ता लोकमातरश्चैव ब्रह्मचारिण्य एव च ।
अनुगृह्णन्ति लोकांश्च तपसा स्वेन सर्वदा
॥३१॥उमा तासां वरिष्ठा च श्रेष्ठा च वरवर्णिनी ।
महायोगबलोपेता महादेवमुपस्थिता
॥३२॥दत्तकश्चोशना तस्याः पुत्रः स भृगुनन्दनः ।
असितस्यैकपर्णा तु देवलं सुषुवे सुतम्
॥३३॥या तु तासां कुमारीणां तृतीया ह्येकपाटला ।
पुत्रं शतशलाकस्य जैगीषव्यमुपस्थिता ।
तस्यापि शङ्खलिखितौ स्मृतौ पुत्रावयोनिजौ
॥३४॥उमा तु या मया तुभ्यं कीर्तिता वरवर्णिनी ।
अथ तस्यास्तपोयोगात्त्रैलोक्यमखिलं तदा ।
प्रधूपितं समालक्ष्य ब्रह्मा वचनमब्रवीत्
॥३५॥ब्रह्मोवाच
देवि किं तपसा लोकांस्तापयस्यतिशोभने ।
त्वया सृष्टमिदं विश्वं मा कृत्वा तद्विनाशय
॥३६॥त्वं हि धारयसे लोकानिमान्सर्वान्स्वतेजसा ।
ब्रूहि किं ते जगन्मातः प्रार्थितं सम्प्रसीद नः
॥३७॥देव्युवाच
यदर्थं तपसो ह्यस्य चरणं मे पितामह ।
जानीषे तत्त्वमेतन्मे ततः पृच्छसि किं पुनः
॥३८॥ब्रह्मोवाच
यदर्थं देवि तपसा श्राम्यसे लोकभावनि ।
स त्वां स्वयं समागम्य इहैव वरयिष्यति
॥३९॥सर्वदेवपतिः श्रेष्ठः सर्वलोकेश्वरेश्वरः ।
वयं सदेवा यस्येशे वश्याः किंकरवादिनः
॥४०॥स देवदेवः परमेश्वरेश्वरः स्वयं तवायास्यति लोकपोऽन्तिकम् ।
उदाररूपो विकृताभिरूपवान्समानरूपो न हि यस्य कस्यचित्
॥४१॥महेश्वरः पर्वतलोकवासी चराचरेशः प्रथमोऽप्रमेयः ।
विनेन्दुना इन्दुसमानवक्त्रो विभीषणं रूपमिहास्थितोऽग्रम्
॥४२॥इति स्कन्दपुराणे एकादशोऽध्यायः ॥