मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — अम्बिकाखण्डः, अध्याय ५

3
अम्बिकाखण्डः · 5

तन्नैमिशं समासाद्य ऋषयो दीप्ततेजसः

सनत्कुमार उवाच

तन्नैमिशं समासाद्य ऋषयो दीप्ततेजसः ।

दिव्यं सत्त्रं समासन्त महद्वर्षसहस्रिकम्

॥१॥

एकाग्रमनसः सर्वे निर्ममा ह्यनहंकृताः ।

ध्यायन्तो नित्यमीशेशं सदारतनयाग्नयः

॥२॥

तन्निष्ठास्तत्पराः सर्वे तद्युक्तास्तदपाश्रयाः ।

सर्वक्रियाः प्रकुर्वाणास्तमेव मनसा गताः

॥३॥

तेषां तं भावमालक्ष्य मातरिश्वा महातपाः ।

सर्वप्राणिचरः श्रीमान्सर्वभूतप्रवर्तकः ।

ददौ स रूपी भगवान्दर्शनं सत्त्रिणां शुभः

॥४॥

तं ते दृष्ट्वार्चयित्वा च मातरिश्वानमव्ययम् ।

आसीनमासने पुण्ये ऋषयः संशितव्रताः ।

पप्रच्छुरुद्भवं कृत्स्नं जगतः प्रलयं तथा

॥५॥

स्थितिं च कृत्स्नां वंशांश्च युगमन्वन्तराणि च ।

वंशानुचरितं कृत्स्नं दिव्यमानं तथैव च

॥६॥

अष्टानां देवयोनीनामुत्पत्तिं प्रलयं तथा ।

पितृसर्गं तथाशेषं ब्रह्मणो मानमेव च

॥७॥

चन्द्रादित्यगतिं सर्वां ताराग्रहगतिं तथा ।

स्थितिं सर्वेश्वराणां च द्वीपधर्ममशेषतः ।

वर्णाश्रमव्यवस्थानं यज्ञानां च प्रवर्तनम्

॥८॥

एतत्सर्वमशेषेण कथयामास स प्रभुः ।

दिव्यं वर्षसहस्रं च तेषां तदभियात्तथा

॥९॥

अथ दिव्येन रूपेण सामवाग्दिश्ण्निरीक्षणा ।

यजुर्घ्राणाथर्वशिराः शब्दजिह्वा शुभा सती

॥१०॥

न्यायश्रोत्रा निरुक्तत्वगृक्पादपदगामिनी ।

कालबाहूर्वर्षकरा दिवसाङ्गुलिधारिणी

॥११॥

कलादिभिः पर्वभिश्च मासैः कररुहैस्तथा ।

कल्पसाधारणा दिव्या शिक्षाविद्योन्नतस्तनी

॥१२॥

छन्दोविचितिमध्या च मीमांसानाभिरेव च ।

पुराणविस्तीर्णकटिर्धर्मशास्त्रमनोरथा

॥१३॥

आश्रमोरूर्वर्णजानुर्यज्ञगुल्फा फलाङ्गुलिः ।

लोकवेदशरीरा च रोमभिश्छान्दसैः शुभैः

॥१४॥

श्रद्धाशुभाचारवस्त्रा योगधर्माभिभाषिणी ।

वेदीमध्याद्विनिःसृत्य प्रवृत्ता परमाम्भसा

॥१५॥

तस्यान्तेऽवभृथे प्लुत्य वायुना सह संगताः ।

तामपृच्छन्त का न्वेषा वायुं देवं महाधियम्

॥१६॥

उवाच स महातेजा ऋषीन्धर्मानुभावितान् ।

शुद्धाः स्थ तपसा सर्वे महान्धर्मश्च वः कृतः

॥१७॥

यस्मादियं नदी पुण्या ब्रह्मलोकादिहागता ।

इयं सरस्वती नाम ब्रह्मलोकविभूषणा

॥१८॥

प्रथमं मर्त्यलोकेऽस्मिन्युष्मत्सिद्ध्यर्थमागता ।

नास्याः पुण्यतमा काचित्त्रिषु लोकेषु विद्यते

॥१९॥

ऋषय ऊचुः

कथमेषा महापुण्या प्रवृत्ता ब्रह्मलोकगा ।

कारणं किं च तत्रासीदेतदिच्छाम वेदितुम्

॥२०॥

वायुरुवाच

अत्र वो वर्तयिष्यामि इतिहासं पुरातनम् ।

ब्रह्मणश्चैव संवादं पुरा यज्ञस्य चैव ह

॥२१॥

यज्ञैरिष्ट्वा पुरा देवो ब्रह्मा दीप्तेन तेजसा ।

असृजत्सर्वभूतानि स्थावराणि चराणि च

॥२२॥

स दृष्ट्वा दीप्तिमान्देवो दीप्त्या परमया युतः ।

अवेक्षमाणः स्वा/ल्लोकांश्चतुर्भिर्मुखपङ्कजैः

॥२३॥

देवादीन्मनुष्यादींश्च दृष्ट्वा दृष्ट्वा महामनाः ।

अमन्यत न मेऽन्योऽस्ति समो लोके न चाधिकः

॥२४॥

योऽहमेताः प्रजाः सर्वाः सप्तलोकप्रतिष्ठिताः ।

देवमानुषतिर्यक्षु ग्रसामि विसृजामि च

॥२५॥

अहं स्रष्टा हि भूतानां नान्यः कश्चन विद्यते ।

नियन्ता लोककर्ता च न मयास्ति समः क्वचित्

॥२६॥

तस्यैवं मन्यमानस्य यज्ञ आगान्महामनाः ।

उवाच चैनं दीप्तात्मा मैवं मंस्था महामते ।

अयं हि तव सम्मोहो विनाशाय भविष्यति

॥२७॥

न युक्तमीदृशं तेऽद्य सत्त्वस्थस्यात्मयोनिनः ।

स्रष्टा त्वं चैव नान्योऽस्ति तथापि न यशस्करम्

॥२८॥

अहं कर्ता हि भूतानां भुवनस्य तथैव च ।

करोमि न च सम्मोहं यथा त्वं देव कत्थसे

॥२९॥

तमुवाच तदा ब्रह्मा न त्वं धारयिता विभो ।

अहमेव हि भूतानां धर्ता भर्ता तथैव च ।

मया सृष्टानि भूतानि त्वमेवात्र विमुह्यसे

॥३०॥

अथागात्तत्र संविग्नो वेदः परमदीप्तिमान् ।

उवाच चैव तौ वेदो नैतदेवमिति प्रभुः

॥३१॥

अहं श्रेष्ठो महाभागौ न वदाम्यनृतं क्वचित् ।

शृणुध्वं मम यः कर्ता भूतानां युवयोश्च ह

॥३२॥

परमेशो महादेवो रुद्रः सर्वगतः प्रभुः ।

येनाहं तव दत्तश्च कृतस्त्वं च प्रजापतिः

॥३३॥

यज्ञोऽयं यत्प्रसूतिश्च अण्डं यत्रास्ति संस्थितम् ।

सर्वं तस्मात्प्रसूतं वै नान्यः कर्तास्ति नः क्वचित्

॥३४॥

तमेवंवादिनं देवो ब्रह्मा वेदमभाषत ।

अहं श्रुतीनां सर्वासां नेता स्रष्टा तथैव च

॥३५॥

मत्प्रसादाद्धि वेदस्त्वं यज्ञश्चायं न संशयः ।

मूढौ युवामधर्मो वा भवद्भ्यामन्यथा कृतः ।

प्रायश्चित्तं चरध्वं वः किल्बिषान्मोक्ष्यथस्ततः

॥३६॥

एवमुक्ते तदा तेन महाञ्छब्दो बभूव ह ।

आदित्यमण्डलाकारमदृश्यत च मण्डलम् ।

महच्छब्देन महता उपरिष्टाद्वियत्स्थितम्

॥३७॥

स चापि तस्माद्विभ्रष्टो भूतलं समुपाश्रितः ।

हिमवत्कुञ्जमासाद्य नानाविहगनादितम् ।

व्योमगश्च चिरं भूत्वा भूमिगः सम्बभूव ह

॥३८॥

ततो ब्रह्मा दिशः सर्वा निरीक्ष्य मुखपङ्कजैः ।

चतुर्भिर्न वियत्स्थं तमपश्यत्स पितामहः

॥३९॥

स मुखं पञ्चमं दीप्तमसृजन्मूर्ध्नि संस्थितम् ।

तेनापश्यद्वियत्स्थं तं सूर्यायुतसमप्रभम् ।

आदित्यमण्डलाकारं शब्दवद्घोरदर्शनम्

॥४०॥

तं दृष्ट्वा पञ्चमं तस्य शिरो वै क्रोधजं महत् ।

संवर्तकाग्निसदृशं ग्रसिष्यत्तमवर्धत

॥४१॥

वर्धमानं तदा तत्तु वडवामुखसंनिभम् ।

दीप्तिमच्छब्दवच्चैव देवोऽसौ दीप्तमण्डलः

॥४२॥

हस्ताङ्गुष्ठनखेनाशु वामेनावज्ञयैव हि ।

चकर्त तन्महद्घोरं ब्रह्मणः पञ्चमं शिरः

॥४३॥

दीप्तिकृत्तशिराः सोऽथ दुःखेनोस्रेण चार्दितः ।

पपात मूढचेता वै योगधर्मविवर्जितः

॥४४॥

ततः सुप्तोत्थित इव संज्ञां लब्ध्वा महातपाः ।

मण्डलस्थं महादेवमस्तौषीद्दीनया गिरा

॥४५॥

ब्रह्मोवाच

नमः सहस्रनेत्राय शतनेत्राय वै नमः ।

नमो विवृतवक्त्राय शतवक्त्राय वै नमः

॥४६॥

नमः सहस्रवक्त्राय सर्ववक्त्राय वै नमः ।

नमः सहस्रपादाय सर्वपादाय वै नमः

॥४७॥

सहस्रपाणये चैव सर्वतःपाणये नमः ।

नमः सर्वस्य स्रष्ट्रे च द्रष्ट्रे सर्वस्य ते नमः

॥४८॥

आदित्यवर्णाय नमः शिरसश्छेदनाय च ।

सृष्टिप्रलयकर्त्रे च स्थितिकर्त्रे तथा नमः

॥४९॥

नमः सहस्रलिङ्गाय सहस्रचरणाय च ।

संहारलिङ्गिने चैव जललिङ्गाय वै नमः

॥५०॥

अन्तश्चराय सर्वाय प्रकृतेः प्रेरणाय च ।

व्यापिने सर्वसत्त्वानां पुरुषप्रेरकाय च

॥५१॥

इन्द्रियार्थविशेषाय तथा नियमकारिणे ।

भूतभव्याय शर्वाय नित्यं सत्त्ववदाय च

॥५२॥

त्वमेव स्रष्टा लोकानां मन्ता दाता तथा विभो ।

शरणागताय दान्ताय प्रसादं कर्तुमर्हसि

॥५३॥

तस्यैवं स्तुवतः सम्यग्भावेन परमेण ह ।

स तस्मै देवदेवेशो दिव्यं चक्षुरदात्तदा

॥५४॥

चक्षुषा तेन स तदा ब्रह्मा लोकपितामहः ।

विमाने सूर्यसंकाशे तेजोराशिमपश्यत

॥५५॥

तस्य मध्यात्ततो वाचं महतीं समशृण्वत ।

गम्भीरां मधुरां युक्तामथ सम्पन्नलक्षणाम् ।

विशदां पुत्र पुत्रेति पूर्वं देवेन चोदिताम्

॥५६॥

संस्वेदात्पुत्र उत्पन्नो यत्तुभ्यं नीललोहितः ।

यच्च पूर्वं मया प्रोक्तस्त्वं तदा सुतमार्गणे

॥५७॥

मदीयो गणपो यस्ते मन्मूर्तिश्च भविष्यति ।

स प्राप्य परमं ज्ञानं मूढ त्वा विनयिष्यति

॥५८॥

तस्येयं फलनिष्पत्तिः शिरसश्छेदनं तव ।

मयैव कारिता तेन निर्वृतश्चाधुना भव

॥५९॥

तस्य चैवोत्पथस्थस्य यज्ञस्य तु महामते ।

शिरश्छेत्स्यत्यसावेव कस्मिंश्चित्कारणान्तरे ।

स्तवेनानेन तुष्टोऽस्मि किं ददानि च तेऽनघ

॥६०॥

वायुरुवाच ।

ततः स भगवान्हृष्टः प्रणम्य शुभया गिरा ।

उवाच प्राञ्जलिर्भूत्वा लक्ष्यालक्ष्यं तमीश्वरम्

॥६१॥

भगवन्नैव मे दुःखं दर्शनात्ते प्रबाधते ।

इच्छामि शिरसो ह्यस्य धारणं सर्वदा त्वया ।

ननु स्मरेयमेतच्च शिरसश्छेदनं विभो

॥६२॥

भूयश्चाधर्मकार्येभ्यस्त्वयैवेच्छे निवारणम् ।

तथा च कृत्यमुद्दिश्य पश्येयं त्वा यथासुखम्

॥६३॥

विज्ञप्तिं ब्रह्मणः श्रुत्वा प्रोवाच भुवनेश्वरः ।

स एव सुतसंज्ञस्ते मन्मूर्तिर्नीललोहितः ।

शिरश्छेत्स्यति यज्ञस्य बिभर्त्स्यति शिरश्च ते

॥६४॥

इत्युक्त्वा देवदेवेशस्तत्रैवान्तरधीयत ।

गते तस्मिन्महादेवे ब्रह्मा लोकपितामहः ।

सयज्ञः सहवेदश्च स्वं लोकं प्रत्यपद्यत

॥६५॥

वायुरुवाच ।

य इमं शृणुयान्मर्त्यो गुह्यं वेदार्थसम्मितम् ।

स देहभेदमासाद्य सायुज्यं ब्रह्मणो व्रजेत्

॥६६॥

यश्चेमं पठते नित्यं ब्राह्मणानां समीपतः ।

स सर्वपापनिर्मुक्तो रुद्रलोके महीयते

॥६७॥

नापुत्रशिष्ययोगिभ्य इदमाख्यानमैश्वरम् ।

आख्येयं नापि चाज्ञाय न शठाय न मानिने

॥६८॥

इदं महद्दिव्यमधर्मशासनं पठेत्सदा ब्राह्मणवैद्यसंसदि ।

कृतावकाशो भवतीह मानवः शरीरभेदे प्रविशेत्पितामहम्

॥६९॥

इति स्कन्दपुराणे पञ्चमोऽध्यायः ॥