द्वारकादर्शनगोमतीसरित्स्नानविधिमाहात्म्यवर्णनम्
सूत उवाच
प्रह्लादस्य वचः श्रुत्वा स्थितस्तत्र सभास्थले ॥
पप्रच्छात्युत्सुकमना बलिस्तत्क्षेत्रवैभवम्
॥१॥प्रह्लादस्तद्वचः श्रुत्वा भक्तिभावपुरस्कृतम् ॥
अभिनन्द्य च तं प्रेम्णा प्रवक्तुमुपचक्रमे
॥२॥प्रह्लाद उवाच
एकैकस्मिन्पदे दत्ते पुरीं द्वारवतीं प्रति ॥
पुण्यं क्रतुसहस्राणां फलं भवति देहिनाम्
॥३॥येऽपीच्छंति मनोवृत्त्या गमनं द्वारकां प्रति ॥
तेषां प्रलीयते पापं पूर्वजन्मायुतार्जितम्
॥४॥अत्युग्राण्यपि पापानि तावत्तिष्ठंति विग्रहे ॥
यावन्न गच्छते जंतुः कलौ द्वारवतीं प्रति
॥५॥लोभेनाऽप्युपरोधेन दंभेन कपटेन वा ॥
चक्रतीर्थे तु यो गच्छेन्न पुनर्विशते भुवि ॥
हीनवर्णोऽपि पापात्मा मृतः कृष्णुपुरीं प्रति ॥
कलि कालकृतैर्दोषैरत्युग्रैरपि मानवः ॥
भक्त्या कृष्णमुखं दृष्ट्वा न लिप्यति कदाचन
॥७॥तावद्विराजते काशी ह्यवंती मथुरापुरी ॥
यावन्न पश्यते जंतुः पुरीं कृष्णेन पालिताम्
॥८॥येषां कृष्णालये प्राणा गता दानवनायक ॥
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि
॥९॥दुर्लभो द्वारकावासो दुर्लभं कृष्णदर्शनम् ॥
दुर्लभं गोमतीस्नानं रुक्मिणीदर्शनं कलौ
॥१०॥नित्यं कृष्णपुरीं रम्यां ये स्मरंति गृहे स्थिताः ॥
न तेषां पातकं किंचिद्देहमाश्रित्य तिष्ठति
॥११॥केशवार्चा गृहे यस्य न तिष्ठति महीपते ॥
तस्यान्नं न च भोक्तव्यमभक्ष्येण समं स्मृतम्
॥१२॥नोष्णत्वं द्विज राजे वै न शीतत्वं हुताशने ॥
वैष्णवानां न पापत्वमेकादश्युपवासिनाम्
॥१३॥नास्ति नास्ति महाभागाः कलिकालसमं युगम् ॥
स्मरणात्कीर्त्तनाद्विष्णोः प्राप्यते परमव्ययम्
॥१४॥सत्यभामापतिर्यत्र यत्र पुण्या च गोमती ॥
नरा मुक्तिं प्रयास्यंति तत्र स्नात्वा कलौ युगे
॥१५॥माधवे शुक्लपक्षे तु त्रिस्पृशां द्वादशीं यदि ॥
लभते द्वारकायां तु नास्ति धन्यतरस्ततः
॥१६॥त्रिस्पृशां द्वादशीं प्राप्य गत्वा कृष्णपुरीं नरः ॥
यः करोति हरेर्भक्त्या सोऽश्वमेधफलं लभेत्
॥१७॥नंदायां तु जयायां वै भद्रा चैव भवेद्यदि ॥
उपवासार्चने गीते दुर्ल्लभा कृष्णसन्निधौ
॥१८॥उदयैकादशी स्वल्पा अंते चैव त्रयोदशी ॥
संपूर्णा द्वादशी मध्ये त्रिस्पृशा च हरेः प्रिया
॥१९॥एकेन चोपवासेन उपवासाऽयुतं फलम् ॥
जागरे शतसाहस्रं नृत्ये कोटिगुणं कलौ
॥२०॥तत्फलं लभते मर्त्त्यो द्वारकायां दिनेदिने ॥
गृहेषु वसतामेतत्किं पुनः कृष्णसंनिधौ
॥२१॥वाङ्मनःकायजैर्दोषैर्हता ये पापबुद्धयः ॥
द्वारवत्यां विमुच्यंते दृष्ट्वा कृष्णमुखं शुभम्
॥२२॥दैत्येश्वर नराः श्लाघ्या द्वारवत्यां गताश्च ये
॥२३॥दुर्ल्लभानीह तीर्थानि दुर्लभाः पर्वतोत्तमाः ॥
दुर्ल्लभा वैष्णवा लोके द्वारकावसतिः कलौ
॥२४॥गवां कोटिसहस्राणि रत्नको टिशतानि च ॥
दत्त्वा यत्फलमाप्नोति तत्फलं कृष्णसन्निधौ
॥२५॥यस्याः सीमां प्रविष्टस्य ब्रह्महत्यादिपातकम् ॥
नश्यते दर्शनादेव तां पुरीं को न सेवते
॥२६॥चक्रांकिता शिला यत्र गोमत्युदधिसंगमे ॥
यच्छति पूजिता मोक्षं तां पुरीं को न सेवते
॥२७॥सिंहस्थे च गुरौ विप्रा गोदावर्य्यां तु यत्फलम् ॥
तत्फलं स्नानमात्रेण गोमत्यां कृष्णसन्निधौ
॥२८॥द्वारकाऽवस्थितं तोयं षण्मासं पिबते नरः ॥
तस्य चक्रांकितो देहो भवते नात्र संशयः
॥२९॥मन्वन्तरसहस्राणि काशीवासेन यत्फलम् ॥
तत्फलं द्वारकायां च वसतः पंचभिर्द्दिनैः
॥३०॥तावन्मृतप्रजा नारी दुर्भगा दैत्यपुंगव ॥
यावन्न पश्यते भक्त्या कलौ कृष्णप्रियां पुरीम्
॥३१॥रुक्मिणीं सत्यभामां च देवीं जांबवतीं तथा ॥
मित्रविंदां च कालिंदीं भद्रां नाग्नजितीं तथा
॥३२॥संपूज्य लक्ष्मणां तत्र वैष्णवीः कृष्णवल्लभाः ॥
एताः संपूज्य विधिवच्छ्रेष्ठपुत्रश्च लभ्यते
॥३३॥तावद्भवभयं पुंसां गृहभंगश्च मूर्खता ॥
यावन्न पश्यते भक्त्या कलौ कृष्णपुरीं नरः
॥३४॥न सर्वत्र महापुण्यं संगमे सरितांपतेः ॥
जाह्नवीसंगमान्मुक्तिर्गोमतीनीरसंगमात् ॥
संपर्के गोमतीनीरपूतोऽहं कृष्णसन्निधौ
॥३५॥गोमतीनीरसंपृक्तं ये मां पश्यंति मानवाः ॥
न तेषां पुनरावृत्तिरित्याह सरितांपतिः
॥३६॥द्वारकां गच्छमानस्य विपत्तिश्च भवेद्यदि ॥
न तस्य पुनरावृत्तिः कल्पकोटिशतैरपि
॥३७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे चतुर्थे द्वारकामाहात्म्ये द्वारकादर्शनगोमतीसरित्स्नानविधिमाहात्म्यवर्णनंनाम षट्त्रिंशोऽध्यायः ॥ ३६ ॥