पूजयेद्गणनाथं तं रुक्मिणं रुक्मभूषितम्
श्रीप्रह्लाद उवाच
पूजयेद्गणनाथं तं रुक्मिणं रुक्मभूषितम् ॥
दुर्वाससं च कृष्णं च बलभद्रं च भक्तितः
॥१॥यजत्येको महायज्ञैः संपूर्णवरदक्षिणैः ॥
एकः पश्यति देवेशं कृष्णं तुल्यफलौ हि तौ
॥२॥वापीकूपतडागानि करोत्येकः समाहितः ॥
एकः पश्यति देवेशं कृष्णं तुल्यफलौ हि तौ
॥३॥गोभूतिलहिरण्यादि ददात्येको दिनेदिने ॥
एकः पश्यति देवेशं कृष्णं तुल्यफलौ हि तौ
॥४॥प्राणायामादिसंयुक्तो जपध्यानपरायणः ॥
एकः पश्यति देवेशं कृष्णं तुल्यफलौ हि तौ
॥५॥जाह्नव्यादिषु तीर्थेषु सुस्नात्वैकः समाहितः ॥
एकः पश्यति देवेशं कृष्णं तुल्यफलौ हि तौ
॥६॥त्रिभिर्विक्रमणैर्येन विक्रांतं भुवनत्रयम् ॥
त्रिविक्रमं च तं दृष्ट्वा मुच्यते पातकत्रयात्
॥७॥ऋषय ऊचुः
कथं त्रैविक्रमी मृर्त्तिरागतेयं धरातले ॥
कलान्यासाच्च कृष्णत्वं कदेयं प्राप्तवत्यथ
॥८॥दैत्य संशयमस्माकं छेत्तुमर्हस्यशेषतः ॥
दुर्वाससश्च कृष्णस्य संभवः कथ्यतामिति
॥९॥प्रह्लाद उवाच
तच्छ्रूयतां द्विजश्रेष्ठा यथा मूर्त्तिस्त्रिविक्रमी ॥
दुर्वाससा समायुक्ता संभूता धरणीतले
॥१०॥पूर्वं कृतयुगस्यांते बलिना च पुरंदरः ॥
निर्जित्य भ्रंशितः स्थानात्तदर्थं मधुसूदनः
॥११॥कश्यपाद्वामनो जज्ञे ततोऽभूच्च त्रिविक्रमः ॥
त्रिभिः क्रमैर्मिताँल्लोकानाक्रम्य मधुहा हरिः
॥१२॥बलिं चकार भगवान्पातालतलवासि नम् ॥
भक्त्या त्वनन्यया कृष्णो दैत्येन परितोषितः
॥१३॥स्वयं चैवाऽवसत्तत्र भक्त्या क्रीतो हरिस्तदा ॥
अनुग्रहाय भगवान्द्वारपालो बभूव ह
॥१४॥दुर्वासाश्चापि भगवानात्रेयो मुनिसत्तमः ॥
अटंस्तीर्थानि मोक्षार्थं मुक्तिक्षेत्रमचिंतयत्
॥१५॥एवं चितयमानः स ज्ञानदृष्ट्या महामुनिः ॥
गोमत्या संगमो यत्र चक्रतीर्थेन भो द्विजाः
॥१६॥तन्मुक्तिक्षेत्रमाज्ञाय गमनाय मतिं दधे ॥
सोतीत्य नगरग्रामानुद्यानानि वनानि च
॥१७॥आनर्त्तविषयं प्राप्य दैत्यभूमिं विवेश ह ॥
निःस्वाध्यायवषट्कारां वेदध्वनिविवर्ज्जिताम्
॥१८॥कुशेन दैत्यराजेन सेवितां पालितां तथा ॥
बहुम्लेच्छ समाकीर्णामधर्मोपार्जकैर्जनैः
॥१९॥प्रत्यासन्नामिति ज्ञात्वा चक्रतीर्थमगाद्द्विजः ॥
स्नात्वा च संगमे पुण्ये मोक्ष्येऽहं च कृताह्निकः
॥२०॥इति कृत्वा स नियमं ययौ शीघ्रं मुनिस्तदा ॥
स्नात्वा शीघ्रं प्रयास्यामि दैत्यभूमिं विहाय च
॥२१॥इत्येवं चिंतयन्मार्गे शीघ्रमेव जगाम सः ॥
दृष्ट्वा च संगमं पुण्यं गोमत्या सागरस्य च
॥२२॥निधाय वाससी तत्र मृदमालभ्य गोमयम् ॥
शिखां च बद्ध्वा करयोः कृत्वा च नियतः कुशान्
॥२३॥यावत्स्नाति च विप्रोऽसौ दृष्टो दैत्यैर्दुरात्मभिः ॥
ब्रुवंतः कोऽयमित्येवं हन्यतांहन्यतामिति
॥२४॥अस्माभिः पालिते देशे कः स्नाति मनुजाधमः ॥
ब्रुवंत इति जघ्नुस्ते जानुभिर्मुष्टिभिस्तथा
॥२५॥ब्राह्मणोऽहं न हंतव्यः श्रुत्वा चाऽतीव पीडितः ॥
तं दृष्ट्वा हन्यमानं तु ब्राह्मणं तैर्दुरात्मभिः
॥२६॥निवारयामास च तान्रुरुर्नाम महासुरः ॥
जगृहुस्तस्य वस्त्राणि कुशांस्ते चिक्षिपुर्जले
॥२७॥चकर्षुश्चरणौ गृह्य शपंतो दुष्टचेतसः ॥
पदे गृहीत्वा तमृषिं नीत्वा सीम्नि व्यसर्जयन्
॥२८॥तं तदा मूर्छितप्रायं दृष्ट्वोचुः कुपिताश्च ते ॥
अत्रागतो यदि पुनर्हनिष्यामो न संशयः ॥
आनर्त्तविषयांस्तान्वै दृष्ट्वा तत्र जलाशयम्
॥२९॥प्राणसंशयमापन्नस्ततश्चिंतापरोऽभवत् ॥
शप्येहं यदि दैतेयांस्तपसः किं व्ययेन मे
॥३०॥अथवा नियमभ्रष्टस्त्यक्ष्ये चेदं कलेवरम् ॥
मम पक्षं च कः कुर्य्यात्को मे दास्यति जीवितम्
॥३१॥चक्रतीर्थे च कः स्नानं कारयिष्यति मामिह ॥
को वा दैत्यगणानेताञ्छक्तो जेतुं महामृधे ॥
तं विना पुण्डरीकाक्षं भक्तानामभयप्रदम्
॥३२॥ब्रह्मादीनां च नेतारं शरणागतवत्सलम् ॥
चक्रहस्तं विना मेद्य कोन्यः शर्म्मप्रदो भवेत्
॥३३॥इति ध्यात्वा च सुचिरं ज्ञात्वा पातालवासि नम् ॥
आत्रेयो विष्णुशरणं जगाम धरणीतलम्
॥३४॥उपवासैः कृशो दीनो भूतलं प्रविवेश ह ॥
स दैत्त्यराजभवनं गन्धर्वाप्सरसावृतम्
॥३५॥शोभितं सुरमुख्येन विष्णुना प्रभविष्णुना ॥
दुर्वासाः प्रविवेशाथ प्रहृष्टेनांतरात्मना
॥३६॥दुर्वाससमथायांतं दृष्ट्वा दैत्यपतिस्तदा ॥
प्रत्युत्थायार्हयांचक्रे स्वासने संन्यवेशयत्
॥३७॥मधुपर्कं च गां चैव दत्त्वार्घ्यं पार्श्वतः स्थितः ॥
प्रोवाच प्रणतो ब्रह्मन्कथमत्रागतो भवान्
॥३८॥सुखोपविष्टः स ऋषिस्तत्रापश्यत्त्रिविक्रमम् ॥
दैत्येन्द्रद्वारदेशे तु तिष्ठन्तमकुतोभयम्
॥३९॥तं दृष्ट्वा देवदेवेशं श्रीवत्सांकं चतुर्भुजम् ॥
रुरोद स ऋषिश्रेष्ठस्त्राहित्राहीत्युवाच च
॥४०॥संसारभयभीतानां दुःखितानां जनार्दन ॥
शत्रुभिः परिभूतानां शरणं भव केशव
॥४१॥मम दुःखाभितप्तस्य शत्रुभिः कर्षितस्य च ॥
पराभूतस्य दीनस्य क्षुधया पीडितस्य च
॥४२॥अपूर्णनियमस्याऽथ क्लेशितत्य च दानवैः ॥
ब्रह्मण्यदेव विप्रस्य शरणं भव केशव
॥४३॥इत्युक्त्वा दर्शयामास शरीरं दैत्यताडितम् ॥
तद्ब्राह्मणावमानं च दृष्ट्वा चुक्रोध वामनः
॥४४॥केनापमानितो ब्रह्मन्नियमः केन खण्डितः ॥
कथयस्व महाभाग धर्मपाले मयि स्थिते
॥४५॥दुर्वासा उवाच
मुक्तितीर्थमहं ज्ञात्वा ज्ञानेन मधुसूदन ॥
चक्रतीर्थं गतः स्नातुं यात्रायां हर्षसंयुतः
॥४६॥अकृतस्नान एवाऽहं दृष्टो दैत्यैर्दुरासदैः ॥
गले गृहीतः कृष्णाहं मुष्टिभिस्ताडितस्तथा
॥४७॥बलाद्गृहीत्वा वासांसि कुशांश्चैवाक्षतैः सह ॥
जले क्षिप्त्वा चरणयोर्गृहीत्वा मां समाकृषन्
॥४८॥सीमांते मां तु प्रक्षिप्य प्रोचुस्ते दानवाधमाः ॥
हनिष्यामो यदि पुनरागंतासि न संशयः
॥४९॥स्नातोऽहं चक्रतीर्थे तु करिष्ये भोजनं विभो ॥
तस्मात्स्नापय गोविंद नियमं सफलं कुरु
॥५०॥तव प्रसादात्स्नात्वाऽहं भुक्त्वा च प्रीतमानसः ॥
प्रतिज्ञां सफलां कृत्वा विचरिष्ये महीमिमाम्
॥५१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये चक्रतीर्थमाहात्म्ये राक्षसकृतदुर्वासःपराभववृत्तान्तवर्णनं नामाष्टादशोऽध्यायः ॥ १८ ॥