मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — द्वारकामाहात्म्यम्, अध्याय २४

3
प्रभासखण्डः · द्वारकामाहात्म्यम् · 24

द्वारकानगरीश्रैष्ठ्यमाहात्म्यवर्णनम्

श्रीमार्कंडेय उवाच

पितॄणां प्रेतरूपाणां कृत्वा वाक्यं महीपते ॥

चंद्रशर्मा द्विजश्रेष्ठो द्वारकां समुपागतः

॥१॥

रुक्मिणीसहितः कृष्णो यत्र तिष्ठति चान्वहम् ॥

यत्र तिष्ठंति तीर्थानि तत्र यातो द्विजोत्तमः

॥२॥

यत्र तिष्ठंति यज्ञाश्च यत्र तिष्ठंति देवताः ॥

यत्र तिष्ठंति ऋषयो मुनयो योगवित्तमाः

॥३॥

या पुरी सिद्धगंधर्वैः सेव्यते किंनरैर्नरेः ॥

अप्सरोगणयक्षैश्च द्वारका सर्वकामदा

॥४॥

स्वर्गारोहणनिश्रेणी वहते यत्र गोमती ॥

सा पुरी मोक्षदा नृणां दृष्टा विप्रवरेण हि

॥५॥

यस्याः सीमां प्रविष्टस्य ब्रह्महत्यादिपातकम् ॥

नश्यते दर्शनादेव तां पुरीं को न सेवते

॥६॥

गत्वा कृष्णपुरीं दृष्ट्वा गोमतीं चैव सागरम् ॥

मन्ये कृतार्थमात्मानं जीवितं यौवनं धनम्

॥७॥

दृष्ट्वा कृष्णपुरीं रम्यां कृष्णस्य मुखपंकजम् ॥

धन्योऽहं कृत्यकृत्योहं सभाग्योऽहं धरातले

॥८॥

दृष्ट्वा कृष्णमुखं रम्यं रुक्मिणीं द्वारकां पुरीम् ॥

तीर्थकोटिसहस्रैस्तु सेवितैः किं प्रयोजनम्

॥९॥

पुण्यैर्लक्षसहस्रैस्तु प्राप्ता द्वारवती शुभा ॥

शुक्ला वैशाखमासे तु संप्राप्ता मधुसूदनी

॥१०॥

द्वादशी त्रिस्पृशानाम पापकोटिशतापहा ॥

धन्याः सर्वे मनुष्यास्ते वैशाखे मधुसूदनी ॥

संप्राप्ता त्रिस्पृशा यैस्तु बुधवारेण संयुता ॥

न यज्ञैस्तु न वेदैस्तु न तीर्थैः कोटिसेवितैः ॥

प्राप्यते तत्फलं नैव द्वारकायां यथा नृणाम्

॥१२॥

एवमुक्त्वा द्विजश्रेष्ठो गोमतीतीरमाश्रितः ॥

उपस्पृश्य यथान्यायं शास्त्रदृष्टेन कर्मणा

॥१३॥

कृत्वा स्नानं यथोक्तं तु संतर्प्य पितृदेवताः ॥

चक्रतीर्थात्समादाय शिलांश्चक्रांकिताञ्छुभान् ॥

पूजिताः पुरुषसूक्तेन यथोक्तविधिना नृप

॥१४॥

शिवपूजा कृता पश्चात्संस्मृत्य पितृभाषितम् ॥

दत्त्वा पिंडोदकं सम्यक्पितॄणां विधिपूर्वकम्

॥१५॥

विलेपनं च वस्त्राणि पुष्पाणि धूपदीपको ॥

नैवेद्यानि मनोज्ञानि कंदमूलफलानि च

॥१६॥

तांबूलं च सकर्पूरं कृत्वा नीराजनादिकम् ॥

प्रदक्षिणां नमस्कारं स्तुतिपूर्वं पुनःपुनः

॥१७॥

क्षमापयित्वा देवेशं चक्रे जागरणं ततः ॥

यामत्रये व्यतीते तु चंद्रशर्मा ह्युवाच ह

॥१८॥

आतुरस्य च दीनस्य शृणु कृष्ण वचो मम ॥

संसारभयसंत्रस्तं मां त्वमुद्धर केशव

॥१९॥

त्वत्पादांबुज भक्तानां न दुःखं पापिनामपि ॥

किं पुनः पापहीनानां द्वादशीसेविनां नृणाम्

॥२०॥

दशमीवेधजं पापं कथितं मम पूर्वजैः ॥

दुष्कृतं नाशमायातु त्वत्प्रसादाज्जनार्द्दन

॥२१॥

सविद्धं त्वद्दिनं कृष्ण यत्कृतं जागरं हरे ॥

तत्पापं विलयं यातु यथालवणमंभसि

॥२२॥

सविद्धं वासरं यस्मा त्कृतं मम पितामहैः ॥

प्रेतत्वं तेन संप्राप्तं महादुःखप्रसाधकम्

॥२३॥

यथा प्रेतत्वनिर्मुक्ता मम पूर्वपितामहाः ॥

मुक्तिं प्रयांति देवेश तथा कुरु जगत्पते

॥२४॥

पुनरेव यदुश्रेष्ठ प्रसादं कर्तुमर्हसि ॥

अविद्यामोहितेनापि न कृतं तव पूजनम्

॥२५॥

मया पापेन देवेश शिवभक्तिः समाश्रिता ॥

तव भक्तिः कृता नैव न कृतं तव वासरम्

॥२६॥

न दृष्टा द्वारका कृष्ण न स्नातो गोमतीजले ॥

न दृष्टं पादपद्मं च त्वदीयं मोक्षदा यकम्

॥२७॥

न कृता द्वारकायात्रा दृष्ट्वा सोमेश्वरं प्रभुम् ॥

विफलं सुकृतं जातं यन्मया समुपार्जितम्

॥२८॥

मत्पूर्वजैस्तु कथितं सर्वमेव सुरेश्वर ॥

तत्पुण्यं मा वृथा यातु प्रसादात्तव केशव

॥२९॥

दृष्टं तु तव वक्त्रं च दुर्ल्लभं भुवनत्रये ॥

तन्नास्ति देवकीपुत्र पुराणेषु श्रुतं मया

॥३०॥

सापराधास्तु ये केचिच्छिशुपालादयः स्मृताः ॥

त्वत्करेण हताः कोपान्मुक्तिं प्राप्ता महीवराः

॥३१॥

अद्यप्रभृति कर्त्तव्यं पूजनं प्रत्यहं च तत् ॥

पलार्धेनापि विद्धं स्याद्भोक्तव्यं वासरे तव

॥३२॥

त्वत्प्रिया च मया कार्य्या द्वादशी व्रतसंयुता ॥

भक्तिर्भागवतानां च कार्य्या प्राणैर्द्धनैरपि

॥३३॥

नित्यं नामसहस्रं तु पठनीयं तव प्रियम् ॥

पूजा तु तुलसीपत्रैर्मया कार्या सदैव हि

॥३४॥

तुलसीकाष्ठसंभूता माला धार्य्या सदा मया ॥

नृत्यं गीतं च कर्त्तव्यं संप्राप्ते जागरे तव

॥३५॥

द्वारकायां प्रकर्त्तव्यं प्रत्यहं गमनं मया ॥

त्वत्कथाश्रवणार्थं च नित्यं पुस्तकवाचनम्

॥३६॥

नित्यं पादोदकं मूर्ध्ना मया धार्यं सुभक्तितः ॥

नैवेद्यभक्षणं चैव करिष्यामि सुभक्तितः

॥३७॥

निर्माल्यं शिरसा धार्य्यं त्वदीयं सादरं मया ॥

तव दत्त्वा यदिष्टं तु भक्षणीयं सदा मया

॥३८॥

तथा तथा प्रकर्त्तव्यं येन तुष्टिर्भवेत्तव ॥

तथ्यमेतन्मया कृष्ण तवाग्रे परिकीर्तितम्

॥३९॥

श्रीकृष्ण उवाच

साधुसाधु महाभाग चन्द्रशर्मन्द्विजोत्तम ॥

आगमिष्यंति मल्लोके त्वया सह पितामहाः

॥४०॥

पश्य प्रेतत्वनिर्मुक्ता मत्प्रसादाद्द्विजोत्तम ॥

आकाशे गरुडारूढास्तव पूर्वपितामहाः

॥४१॥

पितामहा ऊचुः

त्वत्प्रसादाद्वयं पुत्र मुक्तिं प्राप्ता न संशयः ॥

प्रेतयोनेर्विनिर्मुक्ताः कृष्णवक्त्रावलोकनात् ॥

धन्यास्ते मानुषे लोके पुत्रपौत्रप्रपौत्रकाः ॥

दृष्ट्वा श्रीसोमनाथं तु कृष्णं पश्यंति द्वारकाम्

॥४३॥

धन्या च विधवा नारी कृष्णयात्रां करोति या ॥

उद्धरिष्यति लोकेऽस्मिन्कुलानां निरयाच्छतम्

॥४४॥

श्वपचोऽपि करोत्येवं यात्रां च हरिशांकरीम् ॥

स याति परमां मुक्तिं पितृभिः परिवारितः

॥४५॥

यः पुनस्तीर्थसंन्यासं कृत्वा तिष्ठति तत्र वै ॥

विष्णुलोकान्निवृत्तिर्न कल्पकोटिशतैरपि

॥४६॥

वंचितास्ते न सन्देहो दृष्ट्वा सोमेश्वरं प्रभुम् ॥

दृष्टं कृष्णमुखं नैव न स्नाता गोमतीजले

॥४७॥

किं जलैर्बहुभिः पुण्यैस्तीर्थकोटिसमुद्भवैः ॥

दृष्ट्वा सोमेश्वरं यस्तु द्वारकां नैव गच्छति ॥

धिक्कुर्वंति च तं पापं पितरो दिवि संस्थिताः

॥४८॥

दृष्ट्वा सोमेश्वरं देवं कृष्णं दृष्ट्वा पुनः शिवम् ॥

सौपर्णे कथितं पुण्यं यात्राशतसमुद्भवम्

॥४९॥

दृष्ट्वा सोमेश्वरं देवं कृष्णं नैव प्रपश्यति ॥

मोहाद्व्यर्थगतं तस्य सर्वं संसारकर्म वै

॥५०॥

आगत्य यः प्रभासे च कृष्णं पश्यति वै नरः ॥

प्रभासायुतसंख्यं तु फलमाप्नोति यत्नतः

॥५१॥

यस्मात्सर्वाणि तीर्थानि सर्वे देवास्तथा मखाः ॥

द्वारकायां समायांति त्रिकालं कृष्णसंनिधौ

॥५२॥

तीर्थैर्नानाविधैः पुत्र तत्स्थानैः किं प्रयोजनम् ॥

फलं समस्ततीर्थानां दृष्ट्वा द्वारवतीं लभेत्

॥५३॥

हते कंसे जरासन्धे नरके च निपातिते ॥

उत्तारिते भुवो भारे कृष्णो देवकिनंदनः ॥

चक्रे द्वारवतीं रम्यां सन्निधौ सागरस्य च

॥५४॥

स्थितः प्रीतमनाः कृष्णो लप्स्यते कामिनीसुखम्

॥५५॥

ब्रह्माग्निवायुसूर्याश्च वासवाद्या दिवौकसः ॥

मर्त्त्या विप्राश्च राजानः पातालात्पन्नगेश्वराः

॥५६॥

नद्यो नदाश्च शैलाश्च वनान्युपवनानि च ॥

पुरग्रामा ह्यरण्यानि सागराश्च सरांसि च

॥५७॥

यक्षाश्चासुरगंधर्वाः सिद्धा विद्याधरास्तथा ॥

रम्भाद्यप्सरसश्चैव प्रह्लादाद्या दितेः सुताः ॥

रक्षा विभीषणाद्याश्च धनदो रक्ष नायकः

॥५८॥

ऋषयो मुनयः सिद्धाः सनकाद्याश्च योगिनः ॥

ग्रहा ऋक्षाणि योगाश्च ध्रुवः परमवैष्णवः

॥५९॥

यत्किंचित्त्रिषु लोकेषु तिष्ठते स्थाणुजंगमम् ॥

श्रीकृष्णसन्निधौ नित्यं प्रत्यहं तिष्ठते सदा

॥६०॥

न त्यजंति पुरीं पुण्यां द्वारकां कृष्णसेविताम् ॥

सा त्वया सेविता पुत्र सांप्रतं कृष्णदर्शनात् ॥

पिशाचयोनिनिर्मुक्ता यास्यामः परमां गतिम्

॥६१॥

द्वादशीवेधजंपापं द्वारकायाः प्रभावतः ॥

नष्टं पुत्र न सन्देहः संप्राप्ताः परमं पदम्

॥६२॥

द्वादशीवेधसम्भूतं यत्त्वया पापमर्जितम् ॥

कृष्णस्य दर्शनात्क्षीणं न जह्यं द्वादशीव्रतम्

॥६३॥

रक्षणीयं प्रयत्नेन वेधो दशमिसम्भवः ॥

नो चेत्पुत्र न संदेहः प्रेतयोनिमवाप्स्यसि

॥६४॥

त्रैलोक्य संभवं पापं तेषां भवति भूतले ॥

सशल्यं ये प्रकुर्वंति वासरं कृष्णसंज्ञकम्

॥६५॥

प्रायश्चित्तं न तस्यास्ति सशल्यं वासरं हरेः ॥

ये कुर्वंति न ते यांति मन्वतरशतैर्दिवम्

॥६६॥

प्रेतत्वं दुःसहं पुत्र दुःसहा यमयातना ॥

तस्मात्पुत्र न कर्त्तव्यं सशल्यं द्वादशीव्रतम्

॥६७॥

कारयंति हि ये त्वज्ञाः कूटयुक्ताश्च हेतुकाः ॥

प्रेतयोनिं प्रयास्यंति पितृभिः सह सर्वतः

॥६८॥

द्वादशी दशमीविद्धा संतानप्रविनाशिनी ॥

ध्वंसिनी पूर्वपुण्यानां कृष्णभक्तिविनाशिनी

॥६९॥

स्वस्ति तेऽस्तु गमिष्यामः प्रसादाद्रुक्मिणीपतेः ॥

प्राप्तं विष्णुपदं पुत्र अपुनर्भवसंज्ञकम्

॥७०॥

श्रीकृष्ण उवाच

चंद्रशर्मन्प्रसन्नोऽहं तव भक्त्या द्विजोत्तम ॥

शैवभावप्रपन्नोऽपि यस्त्वं जातोऽसि वैष्णवः

॥७१॥

नवसप्ततिवर्षाणि न कृतं वासरे मम ॥

संपूर्णं मत्प्रसादेन तव जातं न संशयः

॥७२॥

एकेनैवोपवासेन त्रिस्पृशासंभवेन हि ॥

द्वारकायाः प्रसादेन मद्दृष्ट्यालोकनेन हि

॥७३॥

अविद्यामोहितेनैव शिवभक्त्या ममार्चनम् ॥

न कृतं मत्प्रसादेन कृतं चैव भविष्यति

॥७४॥

वैशाखे यैरहं दृष्टो द्वारकायां द्विजोत्तम ॥

त्रिस्पृशावासरे चैव वंजुलीवासरे तथा

॥७५॥

उन्मीलिनीदिने प्राप्ते प्राप्ते वा पक्षवर्द्धिनी ॥

नैतेषां चापराधोऽस्ति यद्यपि ब्रह्मघातकाः

॥७६॥

जन्मप्रभृति पुण्यस्य प्रकृतस्यापि भूसुर ॥

मत्पुरीदर्शनेनापि फलभागी भवेन्नरः

॥७७॥

दृष्ट्वा समस्ततीर्थानि प्रभासादीनि भूतले ॥

मत्पुरीदर्शनेनैव पृष्ट्वाऽपीह भवेत्फलम्

॥७८॥

माहात्म्यं द्वारकायास्तु मद्दिने यत्र तत्र वा ॥

पठेन्मम पुरीं पुण्यां लभते मत्प्रसादतः

॥७९॥

मत्पुरीं वसतां पुण्यं त्रिकालं मम दर्शनात् ॥

तत्फलं समवाप्नोति यस्त्विदं पठते कलौ

॥८०॥

कलौ काशी च मथुरा ह्यवंती च द्विजोत्तम ॥

अयोध्या च तथा माया कांची चैव च मत्पुरी

॥८१॥

शालिग्रामभवं चैव बदरी च तथोत्तमा ॥

कुरुक्षेत्रं भृगुक्षेत्रं पुष्करं शुभसंज्ञकम्

॥८२॥

प्रयागं च प्रभासं च क्षेत्रं वै हाटकेश्वरम् ॥

गंगाद्वारं शौकरं च गंगासागरसंगमम्

॥८३॥

नैमिषं दण्डकारण्यं तथा वृन्दावनं द्विज ॥

सैंधवं चार्बुदाख्यं च सर्वाण्यायतनानि च

॥८४॥

वनानि मागधादीनि पुष्कराणि द्विजोत्तम ॥

शैलराजादयः शैला हिमाद्रिप्रमुखा हि ये

॥८५॥

गंगादयश्च सरितो भूतले संति यानि वै ॥

तीर्थानि त्रिषु कालेषु समानि द्वारकापुरः

॥८६॥

कलिना कलितं सर्वं वर्जयित्वा तु मत्पुरीम् ॥

विप्र वर्षशते प्राप्ते मत्पुर्यां मम दर्शने

॥८७॥

तव मृत्युर्महीदेव मत्प्रसादाद्भविष्यति ॥

त्रिस्पृशावासरे प्राप्ते वैशाखे शुक्लपक्षतः

॥८८॥

संगमे बुधवारस्य दिवा भूमौ ममाग्रतः ॥

दशमं द्वारमासाद्य तव प्राणस्य निर्गमम् ॥

भविष्यति न संदेहो मत्प्रसादेन भूसुर

॥८९॥

स्वस्थानं गच्छ विप्रेंद्र सर्वान्कामानवाप्स्यसि ॥

मद्भक्तानां युगांतेऽपि विनाशो नोपपद्यते

॥९०॥

मद्भक्तिं वहतां पुंसामिह लोके परेऽपि वा ॥

नाशुभं विद्यते किंचित्कुलकोटिं नयेद्दिवम्

॥९१॥

मार्कण्डेय उवाच

ततो वर्षशते प्राप्ते गत्वा द्वारवतीं पुरीम् ॥

प्राणान्कृष्णोपदेशेन त्यक्त्वा मोक्षं जगाम ह

॥९२॥

इन्द्रद्युम्न तदाख्यातं माहात्म्यं द्वारकाभवम् ॥

पुनरेव् प्रवक्ष्यामि यत्ते मनसि वर्त्तते

॥९३॥

शृण्वतां पठतां चैव माहा त्म्यं द्वारकाभवम् ॥

सर्वं फलमवाप्नोति कृष्णेन कथितं च यत्

॥९४॥

विस्तारयंति लोकेऽस्मिँल्लिखितं यस्य वेश्मनि ॥

प्रत्यक्षं द्वारकापुण्यं प्राप्यते कृष्णसंभवम्

॥९५॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकाखण्डे चन्द्रशर्मोपाख्याने चन्द्रशर्मणो द्वारकागमनपूर्वक कृष्णदत्तवरग्रहणादि द्वारकानगरीश्रैष्ठ्यमाहात्म्यवर्णनंनाम चतुर्विंशतितमोऽध्यायः ॥ २४ ॥