मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — द्वारकामाहात्म्यम्, अध्याय ६

3
प्रभासखण्डः · द्वारकामाहात्म्यम् · 6

स्नानदानादिमाहात्म्यवर्णनम्

ऋषय ऊचुः

साधुसाधु महाभाग प्रह्लादा सुरसत्तम ॥

येन नः कलिमध्ये तु दर्शितो भगवान्हरिः

॥१॥

त्वन्मुखक्षीरसिंधूत्था कथेयममृतोपमा ॥

कर्णाभ्यां पिबतां तृप्तिर्मुनीनां न प्रजायते ॥

कथयस्व महाबाहो तीर्थयात्रां सुविस्तराम् ॥

अस्माभिस्तत्र गंतव्यं वहते यत्र गोमती ॥

तिष्ठते यत्र भगवांश्चक्रतीर्थावलोककः

॥३॥

भवाब्धौ पतितांस्तात उद्धरस्व भवार्णवात् ॥

तीर्थयात्राविधानं च कथयस्व महामते

॥४॥

प्रह्लाद उवाच

गत्वा तु गोमतीतीरे प्रणमेद्दंडवच्च ताम् ॥

प्रक्षाल्य पाणिपादौ च कृत्वा च करयोः कुशान्

॥५॥

गृहीत्वा तु फलं शुभ्रमक्षतैश्च समन्वितम् ॥

प्राङ्मुखः प्रयतो भूत्वा दद्यादर्घ्यं विधानतः

॥६॥

ब्रह्मलोकात्समायाते वसिष्ठतनये शुभे ॥

सर्वपापविशुद्ध्यर्थं ददाम्यर्घ्यं तु गोमति

॥७॥

वसिष्ठतनये देवि सुरवंद्ये यशस्विनि ॥

त्रैलोक्यवंदिते देवि पापं मे हर गोमति

॥८॥

इत्युच्चार्य्य द्विजश्रेष्ठा मृदमालभ्य पाणिना ॥

विष्णुं संस्मृत्य मनसा मंत्रमेतमुदीरयेत्

॥९॥

अश्वक्रांते रथक्रांते विष्णुक्रांते वसुंधरे ॥

उद्धृताऽसि वराहेण कृष्णेन शतबाहुना

॥१०॥

मृत्तिके हर मे पापं यन्मया पूर्वसंचितम् ॥

त्वया हतेन पापेन पूतः संवत्सरं भवेत्

॥११॥

इत्येवं मृदमालिप्य स्नानं कुर्य्याद्यथाविधि ॥

आपो अस्मानिति स्नात्वा शृणुध्वं यत्फलं लभेत्

॥१२॥

कुरुक्षेत्रे च यत्पुण्यं राहुग्रस्ते दिवाकरे ॥

स्नानमात्रेण तत्पुण्यं गोमत्यां कृष्णसन्निधौ

॥१३॥

भक्त्या स्नात्वा तु तत्रैवं कुर्यात्कर्म यथोदितम् ॥

देवान्पितॄन्मनुष्यांश्च तर्पयेद्भावसंयुतः

॥१४॥

ये च रौरवसंस्था हि ये च कीटत्वमागताः ॥

गोमतीनीरदानेन मुक्तिं यांति न संशयः

॥१५॥

विनाप्यक्षतदर्भैर्वा विना भावनया तथा ॥

वारिमात्रेण गोमत्यां गयाश्राद्धफलं लभेत्

॥१६॥

ततश्च विप्रानाहूय वेदज्ञांस्तीरसंश्रयान् ॥

विश्वेदेवादि संपूज्य पितॄणां श्राद्धमाचरेत्

॥१७॥

श्रद्धया परया युक्तः श्राद्धं कृत्वा विधानतः ॥

दक्षिणां च ततो दद्यात्सुवर्णं रजतं तथा

॥१८॥

सुवर्णशृंगसहितां राजतखुरभूषिताम् ॥

रत्नपुच्छां वस्त्रयुतां ताम्रपृष्ठां सवत्सकाम्

॥२९॥

दद्याद्विप्रं समभ्यर्च्य वस्त्रालंकारभूषणैः ॥

सप्तधान्ययुतां दद्याद्विष्णुर्मे प्रीयतामिति

॥२०॥

आसीमांतं विसृज्यैतान्ब्राह्मणान्नियतेंद्रियः ॥

दीनांधकृपणेभ्यश्च दानं दद्यात्स्वशक्तितः

॥२१॥

गोमती गोमयस्नानं गोदानं गोपिचन्दनम् ॥

दर्शनं गोपिनाथस्य गकाराः पंच दुर्लभाः

॥२२॥

तस्माच्चैव प्रकर्तव्यं गोदानं गोमतीतटे ॥

एवं कृत्वा द्विजश्रेष्ठाः कृतकृत्यो भवेन्नरः

॥२३॥

ये गता नरकं घोरं ये च प्रेतत्वमागताः ॥

पूर्वकर्मविपाकेन स्थावरत्वं गताश्च ये

॥२४॥

पितृपक्षे च ये केचिन्मातृपक्षे कुलोद्भवाः ॥

सर्वे ते मुक्तिमायांति गोमत्या दर्शनात्कलौ

॥२५॥

कृतं श्राद्धं नरैर्यैस्तु गोमत्यां भूसुरोत्तमाः ॥

हयमेधस्य यज्ञस्य फलमायांत्यसंशयम्

॥२६॥

गंगास्नानेन यत्पुण्यं प्रयागे परिकीर्त्तितम् ॥

तत्पुण्यं समवाप्नोति गोमत्यां श्राद्धकृन्नरः

॥२७॥

विष्णुलोकं हि गच्छंति पितरस्तत्कुलोद्भवाः ॥

अनेकजन्मसाहस्रं पापं याति न संशयः

॥२८॥

वाचा च यत्कृतं पापं कर्मणा मनसा तथा ॥

तत्सर्वं विलयं याति गोमतीदर्शनेन हि

॥२९॥

यो नरः कार्त्तिके स्नानं गोमत्यां कुरुते द्विजाः ॥

प्रसन्नो भगवांस्तस्य लक्ष्म्या सह न संशयः

॥३०॥

प्रत्यहं हुतँ भोक्तारं तर्पयेत्सुसमाहितः ॥

प्रत्यहं षड्रसं देयं भोजनं च द्विजातये

॥३१॥

पूजयेत्कृष्णदेवं च प्रत्यहं भक्तितत्परः ॥

येन केनापि विप्रेन्द्राः स्थातव्यं नियमेन तु

॥३२॥

ब्राह्मणानुज्ञया तत्र गृह्णीयान्नियमान्नरः ॥

संपूर्णे कार्त्तिके मासि संप्राप्ते बोधवासरे

॥३३॥

पंचामृतेन देवेशं स्नापयेत्तीर्थवारिणा ॥

श्रीखण्डं कुंकुमोन्मिश्रं मृगनाभिसमन्वितम् ॥

विलेपयेच्च देवेशं भक्त्या दामोदरं हरिम्

॥३४॥

कुसुमैर्वारिसंभूतैस्तुलस्या करवीरकैः ॥

तद्देशसंभवैः पुष्पैः पूजयेद्गरुडध्वजम्

॥३५॥

नैवेद्यं रुचिरं दद्याद्वि ष्णुर्मे प्रीयतामिति ॥

गीतवाद्यादिनृत्येन तथा पुस्तकवाचनैः

॥३६॥

रात्रौ जागरणं कार्य्यं स्तोत्रैर्नानाविधैरपि ॥

आहूय ब्राह्मणान्भक्त्या भोजयेच्च स्वशक्तितः

॥३७॥

ततो रथस्थितं देवं पूजयेद्गरुडध्वजम् ॥

कार्त्तिकांते च विप्रेंद्रा गोमत्युदधिसंगमे

॥३८॥

स्नात्वा पितॄंश्च संतर्प्य पूजयेच्च जनार्द्दनम् ॥

सुवस्त्रैर्भूषणैश्चापि समभ्यर्च्य रमापतिम् ॥

अनुज्ञया तु विप्राणां व्रतं संपूर्णतां नयेत्

॥३९॥

एवं यः स्नाति विप्रेन्द्राः कार्त्तिके कृष्णसन्निधौ ॥

सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति

॥४०॥

माघस्नानं नरो भक्त्या गोमत्यां कुरुते तु यः ॥

वैनतेयोदये नित्यं संतुष्टः सह भार्यया

॥४१॥

तिला हिरण्यसहिता देया ब्राह्मणसत्तमे ॥

मोदका गुडसंमिश्राः प्रत्यहं दक्षिणान्विताः

॥४२॥

तिलैराज्याप्लुतैर्होमः कर्त्तव्यः प्रत्यहं नरैः ॥

होमार्थं सेवयेद्वह्निं न शीतार्थं कदाचन

॥४३॥

गोमत्यां स्नाति यो भक्त्या माघं माधववल्लभम् ॥

समाप्तौ रक्तवस्त्राणि कञ्चुकोष्णीषमेव च

॥४४॥

दद्यादुपानहौ भक्त्या कुंकुमं च विशेषतः ॥

कम्बलं तैलपक्वं च विष्णुर्मे प्रीयतामिति

॥४५॥

स्वामिकार्य्यमृतानां च संग्रामे शस्त्रसंकुले ॥

गवार्थे ब्राह्मणार्थे च मृतानां या गतिः स्मृता

॥४६॥

माघस्नाने च सा प्रोक्ता गोमत्यां नात्र संशयः ॥

सर्वदानफलं तस्य सर्व तीर्थफलं तथा

॥४७॥

माघस्नानान्नरो याति विष्णुलोकं सनातनम् ॥

सर्वान्कामानवाप्नोति समभ्यर्च्य जनार्द्दनम्

॥४८॥

माघं यः क्षपते सर्वं गोमत्युदधिसंगमे ॥

ब्राह्मणानुज्ञया विप्राः सर्वं संपूर्णतां व्रजेत्

॥४९॥

पापिनोऽपि द्विजश्रेष्ठा ये स्नाता गोमतीजले ॥

यज्विनां च गतिं यांति प्रसादाच्चक्रपाणिनः

॥५०॥

ब्रह्मरुद्रपदादूर्ध्वं यत्पदं चक्रपाणिनः ॥

स्नानमात्रेण गोमत्यां तत्प्रोक्तं कृष्णसंनिधौ

॥५१॥

मित्रद्रोहे च यत्पापं यत्पापं गुरुघातिनि ॥

तत्पापं समवाप्नोति यात्राभंगं करोति यः

॥५२॥

ब्रह्मस्वहारिणः पापास्तथा देवस्वहारिणः ॥

स्नानमात्रेण शुद्ध्यंति गोमत्यां नात्र संशयः

॥५३॥

भीताऽभयप्रदानेन यत्पुण्यं लभते नरः ॥

तत्पुण्यं समवाप्नोति गोमत्यां स्नानमात्रतः

॥५४॥

भीताभय प्रदानेन पुत्रानिष्टान्न संशयः ॥

धनकामस्तु विपुलं लभते धनमूर्जितम्

॥५५॥

प्राप्नुयादीप्सितान्कामान्गोमतीनीरसंगमे ॥

कृतकृत्यो भवेद्विप्रा ऋणान्मुच्येत पैतृकात्

॥५६॥

मनसा वचसा चैव कर्मणा यदुपार्जितम् ॥

तत्सर्वं नश्यते पापं गोमतीनीरसंगमात्

॥५७॥

पीतांबरधरो भूत्वा तथा गरुडवाहनः ॥

वनमाली चतुर्बाहुर्दिव्यगन्धानुलेपनः ॥

याति विष्ण्वालयं विप्रा अपुनर्भवलक्षणम्

॥५८॥

गोमतीस्नानमात्रेण मानवो नात्र संशयः ॥

सर्वपापविनिर्मुक्तो याति विष्णुं सनातनम्

॥५९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखंडे चतुर्थे द्वारकामाहात्म्ये गोमत्युदधिसंगमे स्नानदानादिमाहात्म्यवर्णनंनाम षष्ठोऽध्यायः ॥ ६ ॥