भगवत्परिचारकवर्गकथनपूर्वकरुक्मिगर्वपरिहारवृत्तान्तवर्णनम्
प्रह्लाद उवाच
कृत्वाऽभिषेकं तीर्थेषु यथावद्दत्त दक्षिणः ॥
पूजयेच्च ततो देवं कृष्णाख्यं पुरुषं परम्
॥१॥ऋषय ऊचुः
पूजाविधिं तु कृष्णस्य श्रोतुकामाः समासतः ॥
कथयाऽऽचरणोपेतं यथावद्दैत्यसत्तम
॥२॥द्वारपालाश्च के तत्र कः पूर्वं कश्च पृष्ठतः ॥
पुरीयं सर्वतो दैत्य तिष्ठते केन पालिता
॥३॥आनुपूर्व्यात्समासेन पूजनीया यथाविधि ॥
कथयस्व विधिज्ञोऽसि कृष्णैकचरणप्रियः
॥४॥श्रीप्रह्लाद उवाच
श्रूयतां पूजनं विप्राः श्रुतपूर्वं विधानतः ॥
कलौ कृष्णस्य विप्रेन्द्रा यथावदनुपूर्वशः
॥५॥पूर्वद्वारस्थितान्देवाञ्छुणुध्वं सुसमाहिताः ॥
जयंतः प्रथमं पूज्यः सर्वपापहरः शुभः
॥६॥स्थापितो देवराजेन पूजार्थं केशवस्य हि ॥
तस्यैवानुचरान्वक्ष्ये तान्निबोधत सत्तमाः
॥७॥वज्रनाभः सुनाभश्च वज्रबाहुर्महा हनुः ॥
वज्रदंष्ट्रो वज्रधारी वज्रहा वज्रलोचनः
॥८॥श्वेतमूर्धा श्वेतमाली जयन्तानुचराश्च ते ॥
एते शस्त्रोद्यतकरा रक्षन्ते तमहर्निशम्
॥९॥पूर्वद्वारे सुसंनद्धा जयन्तोद्देशकारिणः ॥
पूर्वद्वारे च रक्षार्थं नरनाथो विनायकः
॥१०॥तरुणार्कश्च वै सूर्यो देव्यो वै सहमातरः ॥
ईश्वरश्चापि दुर्वासा नागराजस्तु तक्षकः
॥११॥सेनानीः कार्तिकेयश्च राक्षसश्च महाहनुः ॥
तत्र दीर्घनखोनाम दानवः सुप्रतिष्ठितः
॥१२॥विश्वावसुश्च गन्धर्वो मेनका च वराप्सराः ॥
सनत्कुमारसहितो वसिष्ठो भगवानृषिः
॥१३॥एते पूज्याः पूर्वतस्तु न्यग्रोधश्च महाद्रुमः ॥
पूर्वद्वारस्थिता ह्येत आग्नेयाञ्छृणुताथ मे
॥१४॥ज्वालामुखोऽथ रक्ताक्षः स्मशाननिलयः क्रथः ॥
मांसादो रुधिराहारः कृष्णः कृष्णजटाधरः
॥१५॥त्रासनो भञ्जनश्चैव ह्याग्न्येय्यां दिशि संस्थिताः ॥
दिशं रक्षंति संनद्धा दक्षिणां शृणुताथ मे
॥१६॥दण्डपाणिर्महानादः पाशहस्तः सुलोचनः ॥
अनिवर्त्यक्रमश्चैव तथा दुंदुभिनिस्वनः
॥१७॥खरस्वनो घर्घरवाक्तथा मौनप्रियः सदा ॥
मल्लिकाक्षश्च एतेषां प्रणतो द्वारपालकः
॥१८॥दक्षिणद्वाररक्षार्थं दुन्दुभिश्च विनायकः ॥
महिषार्कश्च वै सूर्यो भूषणश्च तथेश्वरः
॥१९॥चण्डिका च तथा देवी ह्यूर्द्ध्वबाहुश्च राक्षसः ॥
पद्माक्षः क्षेत्रपालश्च नागश्चाश्वतरस्तथा
॥२०॥चित्रांगदश्च गन्धर्व उर्वशी च वराप्सराः ॥
यो राजा सर्ववृक्षाणां शालश्चापि महाद्रुमः
॥२१॥सनातन ऋषिश्रेष्ठो ह्यगस्त्यश्च महातपाः ॥
एते याम्यदिशि द्वारं रक्षन्ति सुसमाहिताः
॥२२॥गीतकृन्नर्तको नग्नः कंबली दहनप्रियः ॥
हसनो नेत्रभंगश्च भ्रूविकारो विजृंभकः
॥२३॥मुशली प्रभुरेतेषां संनद्धो वर्तते द्विजाः ॥
रक्षन्ति नैर्ऋतीमाशां पश्चिमां शृणुतापरान्
॥२४॥स्वस्तिकः शंखमूर्द्धा च नीलवासाः शुभाननः ॥
पाशहस्तः शूलहस्त एकपादैकलोचनः
॥२५॥पश्चिमायां दिशि तथा पुष्पदन्तो विनायकः ॥
उद्धवार्कश्च वै सूर्यः शिवः सत्राजितेश्वरः
॥२६॥तुंबरुर्नामगन्धर्वो घृताची च वराप्सराः ॥
महोदरश्च नागेन्द्रो राक्षसश्च घटोत्कचः
॥२७॥दैत्यः पञ्चजनोनाम ऋषिः कश्यप एव च ॥
देवी कपालिनीनाम अश्वत्थस्तु महाद्रुमः
॥२८॥कपिलः क्षेत्रपालश्च प्रतीचीं पान्ति वै दिशम् ॥
नमस्कार्यास्तथा पूज्या वायव्यो शृणुतापरान्
॥२९॥भंजनो भैरवश्चैव कालिकोऽथ घटोदरः ॥
झंझकामर्दनः पिंगो रुरुः सर्वभुजोव्रणी
॥३०॥सुपार्श्वः प्रभुरेतेषां संनद्धः पालयन्दिशम् ॥
उदीच्यां दिशि विप्रेन्द्राः श्यामलश्च गणाधिपः
॥३१॥मन्वन्तको विरूपाक्षो गोलकः श्वेत संप्लुतः ॥
उन्मत्तः प्रभुरेतेषामुदीच्यां पालयन्दिशम्
॥३२॥मूलस्थानश्च वै सूर्य्य इन्द्रेशश्च महेश्वरः ॥
देवी कण्ठेश्वरीनाम क्षेत्रपालश्च खञ्जनः
॥३३॥वासुकिर्नागराजश्च कूर्मपृष्ठश्च दानवः ॥
सनकश्च ऋषिश्रेष्ठो गोलको राक्षसस्तथा
॥३४॥नारदोनाम गन्धर्वो रंभा चैव वराप्सराः ॥
एते पूज्याः प्रयत्नेन प्लक्षोनाम महाद्रुमः
॥३५॥यक्षेशः सवितानाम श्यामः पूज्यः प्रयत्नतः ॥
ऐशान्यां दिशि विप्रेन्द्राः स्थिता ये तान्वदाम्यहम्
॥३६॥दुर्धरो भैरवारावः किंकिणीको महाबलः ॥
करालो विकटो मूलो बलिभुक्तो बलिप्रियः
॥३७॥एतेषां क्षेत्रपालानां सस्त्रीणां च द्विजोत्तमाः ॥
नेता प्रभु(म?)श्च स्वामी च जयन्तः पालकस्तथा
॥३८॥निगृह्णात्यनुगृह्णाति रक्षिता पुरवासिनाम् ॥
जयन्तादेशमादाय ते दुष्टान्घातयन्ति च
॥३९॥नागस्थलस्थितः स्वामी जयन्तः पालकः सदा ॥
नागराजैः परिवृतः पूजनीयः प्रयत्नतः
॥४०॥मांसप्रियमुखाश्चैत ऐशानीं पांति वै दिशम् ॥
सहस्रशीर्षको देवः शेषो नागस्थलस्थितः ॥
अनन्तो वासुकिश्चैव तक्षकः पद्म एव च
॥४१॥शंखः कंबलकश्चैव नागश्चाश्वतरस्तथा ॥
मुक्तकः कालियश्चैव जनकोऽथापराजितः
॥४२॥कर्कोटकमुखा नागास्ते च सन्ति सहस्रशः ॥
ते पूज्या गंधपुष्पैश्च बलिभिर्धूपदीपकैः
॥४३॥पायसेन च मांसेन ह्यन्नाद्यैः सुरया तथा ॥
ततः संपूज्य देवशं जयंतं रक्षिणां वरम्
॥४४॥गंध पुष्पोपहारैश्च धूपवस्त्रादिभूषणैः ॥
ततो गच्छेद्द्विजश्रेष्ठाः कृष्णं देवकिनन्दनम् ॥
संपूज्यः प्रथमं तत्र गणेशो रुक्मिसंज्ञकः
॥४५॥ऋषय ऊचुः
कथं स रुक्मिदैत्येन्द्रो यो दुष्टो गणतां गतः ॥
साक्षाद्भगवतो द्वारि प्रत्यहं पूज्यते नरः
॥४६॥श्रीप्रह्लाद उवाच
कृष्णाय रुक्मिणीं दातुं यदा भीष्मक उद्यतः ॥
तद्द्वेषात्क्रोधसंयुक्तो रुक्मी चैद्यममन्यत
॥४७॥यदा जहार भगवान्रुक्मिणीमंबिकालयात् ॥
सर्वान्विद्राव्य वै भूपाञ्जरासन्धमुखान्रणे
॥४८॥तदा रुक्मी महाबाहुर्भीष्मकस्य सुतो बली ॥
नाहत्वा विनिवर्तिष्ये तमहं यादवं रणे
॥४९॥प्रतिज्ञां सर्वभूपानां शृण्वतां कृतवान्द्विजाः ॥
एवमुक्त्वा स सन्नद्धो युद्धाय परिधावितः
॥५०॥अक्षौहिण्या दलेनैवायुद्ध्यत्कृष्णेन भो द्विजाः ॥
स युध्यमानः कृष्णेन वध्यमानो हतौजसः
॥५१॥बद्धो भगवता तत्र कृत्वा वैरूप्यमेव च ॥
रामेण बंधनान्मुक्तो मरणाय मतिं दधौ
॥५२॥रुक्मिणी भ्रातरं दृष्ट्वा मरणे कृतनिश्चयम् ॥
उवाच कृष्णं वैदर्भी भ्रातरं ह्यानयस्व मे
॥५३॥ततस्तत्प्रियकामार्थमनुमान्य जनार्द्दनः ॥
चकार पार्षदां मध्ये प्रवरं विघ्ननाशनम्
॥५४॥एतस्मात्कारणाद्विप्राः प्रथमं पूज्यते सदा ॥
गंधधूपाक्षतैर्वस्त्रैर्मोदकैस्तं प्रतर्पयेत्
॥५५॥तस्मिंस्तुष्टे जगन्नाथस्तुष्टो भवति नान्यथा
॥५६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे चतुर्थे द्वारकामाहात्म्ये भगवत्परिचारकवर्गकथनपूर्वकरुक्मिगर्वपरिहारवृत्तान्तवर्णनं नाम सप्तदशोऽध्यायः ॥ १७ ॥