मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — द्वारकामाहात्म्यम्, अध्याय ४२

3
प्रभासखण्डः · द्वारकामाहात्म्यम् · 42

द्वारकामाहात्म्यश्रवणादिफलवर्णनम्

प्रह्लाद उवाच

वृषोत्सर्गं करिष्यंति वैशाख्यां चैव कार्तिके ॥

द्वारकायां पिशाचत्वं मुक्त्वा यांति पितामहाः

॥१॥

ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः ॥

एवंविधानि पापानि कृत्वा चैव गुरूण्यपि

॥२॥

स्नानमात्रेण गोमत्यां श्रीकृष्णस्य च दर्शनात् ॥

विलयं याति दैत्येन्द्र कल्पकोटिकृतान्यपि

॥३॥

रुक्मिणीं ये प्रपश्यंति भक्तियुक्ताः कलौ नराः ॥

पुरीं प्रदक्षिणां कृत्वा जप्त्वा नामसहस्रकम्

॥४॥

प्रदक्षिणीकृतं सर्वं ब्रह्मांडं नात्र संशयः ॥

महादानैस्तु चान्यत्र यत्फलं परिकीर्तितम् ॥

द्वारकायां तु रुक्मिण्यां दृष्टायां जायते तदा

॥५॥

द्वादशीवासरे प्राप्ते माहात्म्यं द्वारकाभवम् ॥

पठते संनिधौ विष्णोः शृणु वक्ष्यामि तत्फलम्

॥६॥

सर्वेषु चैव लोकेषु कामचारी विराजते ॥

पद्मवर्णेन यानेन किंकिणीजालमालिना

॥७॥

दिव्यश्वेताश्वयुक्तेन कामगेन यथासुखम् ॥

आभूतसंप्लवं यावत्क्रीडतेऽप्सरसां गणैः

॥८॥

कृतकृत्यश्च भवति कल्पकोटिसमन्वितः ॥

यथा निर्मथनादग्निः सर्वकाष्ठेषु दृश्यते ॥

तथा च दृश्यते धर्मो द्वादशीसेवनान्नरे

॥९॥

अतः परं प्रवक्ष्यामि पितृभिः परिकीर्तितम् ॥

अपि स्यात्स कुलेऽस्माकं गोमत्यां श्रद्धया नरः ॥

स्नात्वा संपूज्य कृष्णं च श्राद्धं कुर्यात्सपिण्डकम्

॥१०॥

अपि स्यात्स कुलेऽस्माकं गोमत्युदधिसंगमे ॥

स्नात्वा पश्यति यः कृष्णमस्माकं तारणाय वै

॥११॥

अपिस्यात्स कुलऽस्माकं यः श्रुत्वा ब्राह्मणाननात् ॥

द्वारकामाहात्म्यमिदं पूजयिष्यति भक्तितः

॥१२॥

भविष्यति कुलेऽस्माकं यो गच्छेद्द्वारकां पुरीम् ॥

संप्राप्य द्वादशीं शुद्धां यः करिष्यति जागरम्

॥१३॥

भविष्यति कुलेऽस्माकं पुत्रो वा दुहिता तथा ॥

स्तुवन्नामसहस्रं तु कृष्णस्याग्रे पठिष्यति

॥१४॥

अपि स्यात्स कुलेऽस्माकं भविष्यति धृतव्रतः ॥

गोपीचन्दनदानेन यस्तोषयति वैष्णवान्

॥१५॥

अपि स्यात्स कुलेऽस्माकं वैष्णवानां तु सन्निधौ ॥

द्वारकायाश्च माहात्म्यं पठिष्यति जितेन्द्रियः

॥१६॥

भविष्यति कुलेऽस्माकं माहात्म्यं द्वारकाभवम् ॥

लिखित्वा कृष्णतुष्ट्यर्थं स्वगृहे धारयिष्यति

॥१७॥

स्वर्णदानं च गोदानं भूमिदानं तथैव च ॥

यावज्जीवं भवेद्दत्तं येनेदं धारितं कलौ

॥१८॥

तप्तकृच्छ्रं महाकृच्छ्रं मासोपोषणमेव च ॥

यावज्जीवं कृतं तेन येनेदं श्रावितं कलौ

॥१९॥

प्रायश्चित्तानि चीर्णानि पापानां नाशनाय ? ॥

द्वारकायाश्च माहात्म्यं येन विस्तारितं कलौ

॥२०॥

तावत्तिष्ठंति पुरुषे ब्रह्महत्यादिकानि च ॥

यावन्न लिखते जंतुर्माहात्म्यं द्वारकाभवम्

॥२१॥

दानैः सर्वैश्च किं तस्य सर्वतीर्थावगाहनैः ॥

द्वारकायाश्च माहात्म्यं येनेदं लिखितं गृहे

॥२२॥

सर्व दुःखप्रशमनं सर्वकार्य्यप्रसाधनम् ॥

चतुर्वर्गप्रदं नित्यं हरिभक्तिविवर्द्धनम्

॥२३॥

न चाधिर्भवते नूनं याम्यं तस्य भयं नहि ॥

माहात्म्यं पठते यत्र द्वारकायाः समुद्भवम्

॥२४॥

लिखितं तिष्ठते यस्य गृहे तत्तीर्थमेव च ॥

बलाच्छुणुष्व माहात्म्यं द्वारकायाः समुद्भवम्

॥२५॥

विधि मन्त्रक्रियाहीनां पूजां गृह्णाति केशवः ॥

माहात्म्यं तिष्ठते नित्यं लिखितं यस्य वेश्मनि ॥

न तस्यागःसहस्रैस्तु कृतैर्लिप्यति मानवः

॥२६॥

यः पठेच्छृणुते वापि माहात्म्यं द्वारकाभवम् ॥

न भवेद्भूतवैकल्यं धर्मवैकल्यमेव च

॥२७॥

यः स्मरेत्प्रातरुत्थाय माहात्म्यं द्वारकाभवम् ॥

द्वादशीनां च सर्वासां यच्चोक्तं लभते फलम्

॥२८॥

त्रिदशैः पूज्यते नित्यं वन्द्यते सिद्धचारणैः ॥

माहात्म्यं पठते यो वै द्वारकायाः समुद्भवम्

॥२९॥

द्वारका वसते यत्र तत्र विष्णुः सनातनः ॥

तत्र तीर्थानि सर्वाणि सर्वे देवाः सवासवाः ॥

यज्ञा वेदाश्च ऋषयस्त्रैलोक्यं सचरा चरम्

॥३०॥

शक्तो हि द्वारकां गंतुं मानवो न हि पुत्रक ॥

कृष्णदर्शनजं पुण्यं माहात्म्यं पठतो भवेत्

॥३१॥

सत्यं शौचं श्रुतं वित्तं सुशीलं च क्षमाऽऽर्जवम् ॥

सर्वं च निष्फलं तस्य माहात्म्यं न शृणोति यः

॥३२॥

षण्मासे च भवेत्पुत्रो लक्ष्मीश्चैव विवर्द्धते ॥

तस्य यः शृणुते भक्त्या माहात्म्यं द्वारकाभवम्

॥३३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे चतुर्थे द्वारकामाहात्म्ये द्वारकाक्षेत्रे वृषोत्सर्गादिक्रियाकरण द्वारकामाहात्म्यश्रवणादिफलवर्णनंनाम द्विचत्वारिंशत्तमोऽध्यायः ॥ ४२ ॥