ततो गच्छेन्महादेवि हिरण्यायाश्च उत्तरे
ईश्वर उवाच
ततो गच्छेन्महादेवि हिरण्यायाश्च उत्तरे ॥
सिद्धिस्थानानि दिव्यानि यत्र सिद्धा महर्षयः
॥१॥तत्र लिंगान्यनेकानि शक्यंते कथितुं न हि ॥
साग्रं शतं पुनस्तत्र लिंगानां प्रवरं स्मृतम्
॥२॥वज्रिण्यास्तु तटे देवि लिंगान्येकोनविंशतिः ॥
न्यंकुमत्यास्तटे देवि सहस्रं द्विशताधिकम्
॥३॥प्राधान्येन वरारोहे पूर्वे स्वायंभुवेंऽतरे ॥
कपिलायास्तटेदेवि लिंगानां षष्टिरुत्तमा
॥४॥सरस्वत्यां पुनस्तत्र लिंगसंख्या न विद्यते ॥
एवं पंचमुखा देवि लिंगमाला विभूषिता
॥५॥प्रभासे कथिता देवि पंचस्रोताः सरस्वती ॥
यस्याः प्रवाहैः संभिन्नं क्षेत्रं द्वादशयोजनम्
॥६॥तत्र वापीषु कूपेषु यत्र तत्रोद्भवं जलम् ॥
सारस्वतं तु तज्ज्ञेयं ते धन्या ये पिबंति तत्
॥७॥यत्रतत्र नरः स्नात्वा सम्यक्छ्रद्धासमन्वितः ॥
सारस्वतस्नानफलं लभते नात्र संशयः
॥८॥यत्प्रोक्तं स्पर्शलिंगं तु श्रीसोमेशेति विश्रुतम् ॥
प्रभासक्षेत्रलिंगानां कला तस्यैव शांकरी
॥९॥यद्वा तद्वा पूजयित्वा लिंगं क्षेत्रस्य मध्यगम् ॥
श्रीसोमेशमिति ज्ञात्वा सोमेशः पूजितो भवेत्
॥१०॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये प्रकीर्णस्थानलिंगमाहात्म्यवर्णनंनाम पंचषष्ट्युत्तरत्रिशततमोऽध्यायः ॥ ३६५ ॥
इति श्रीस्कान्दे महापुराणे सप्तमे प्रभासखण्डे प्रथमं प्रभासक्षेत्र माहात्म्यं सम्पूर्णम् ॥ ( ७-१)