उत्तरेश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि उत्तरे देवमुत्तमम् ॥
यस्तमाराधयेद्देवं महापातकनाशनम्
॥१॥तस्यैव पश्चिमे भागे धनुषां त्रितये स्थितम् ॥
शेषादिप्रमुखैर्नागैर्महता तपसा युतैः ॥
समाराध्य महादेवं स्थापितं लिंगमुत्तमम्
॥२॥यस्तमाराधयेद्देवं सर्पैराराधितं पुरा ॥
न विषं क्रमते देहे तस्य जन्मावधि प्रिये
॥३॥सर्पास्तस्य प्रसीदन्ति न कुंथंति कदाचन ॥
तस्मात्सर्वं प्रयत्नेन तल्लिंगं पूजयेन्नरः
॥४॥तत्र लिंगान्यनेकानि ऋषिभिः स्थापितानि तु ॥
गंगातीरे महापुण्ये पश्चिमे वरवर्णिनि
॥५॥तानि दृष्ट्वा पूजयित्वा सर्वपापैः प्रमुच्यते ॥
अश्वमेधसहस्रस्य फलं प्राप्नोति मानवः
॥६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये संगालेश्वरमाहात्म्य उत्तरेश्वरमाहात्म्यवर्णनंनाम त्र्युत्तरत्रिशततमोऽध्यायः ॥ ३०३ ॥