मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३४०

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 340

चण्डीश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि तत्र स्थाने तु संस्थितम् ॥

चण्डीश्वरं महालिंगं सर्वपातकनाशनम्

॥१॥

तत्र शुक्लचतुर्द्दश्यां कार्तिके मासि भामिनि ॥

उपवासपरो भूत्वा यः करोति प्रजागरम् ॥

स याति परमं स्थानं यत्र देवो महेश्वरः

॥२॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये देविकामाहात्म्ये चण्डीश्वरमाहात्म्यवर्णनं नाम चत्वारिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३४० ॥