मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ९७

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 97

योगेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि योगेश्वरमिति श्रुतम् ॥

कामेशाद्वायवे भागे धनुषां सप्तके स्थितम्

॥१॥

लिंगं महाप्रभावं हि दर्शनात्पापनाशनम् ॥

पूर्वे युगे तु संख्यातं गणेश्वरमिति श्रुतम्

॥२॥

पुरा मम गणा देवि असंख्याता महावलाः ॥

क्षेत्रं माहेश्वरं ज्ञात्वा प्रभासं समुपागमन्

॥३॥

तत्रस्थाश्च तपो घोरं तेपुस्ते योगमाश्रिताः ॥

दिव्याब्दानां सहस्रं तु ततस्तुष्टो महेश्वरः

॥४॥

सालोक्यां च ददौ मुक्तिं तेषां योगबलेन ३ ॥

यस्मा त्षडंगयोगेन तेषां तुष्टो वृषध्वजः ॥

तेन योगेश्वरं नाम लिंगं योगफलप्रदम्

॥५॥

यस्तमर्चयते भक्त्या सम्यक्पूजाविधानतः ॥

स योगसिद्धिमाप्नोति मोदते दिवि देववत्

॥६॥

यो दद्यात्कांचनं मेरुं कृत्स्नां चैव वसुन्धराम् ॥

योगेशं पूजयेद्यस्तु स तयोरधिकः स्मृतः

॥७॥

वृषभस्तत्र दातव्यः संपूर्णफलहेतवे ॥

एवमेकादश प्रोक्ता रुद्राः प्राभासमाश्रिताः ॥

नित्यं पूज्याश्च वंद्याश्च क्षेत्रस्य फलमीप्सुभिः

॥८॥

य एतां चैव शृणुयाद्रुद्रैकादशसंहिताम् ॥

तस्य क्षेत्रफलं सर्वं प्रभासांतरवासिनः

॥९॥

यश्चैतान्नैव जानाति रुद्रान्प्राभासमाश्रितान् ॥

स क्षेत्रमध्यसंस्थोऽपि नास्त्येव स पशुः स्मृतः

॥१०॥

एतेषां चैव रुद्राणां सर्वान्वाप्येकमेव वा ॥

सोमेश्वरं पूजयित्वा जपेद्वै शतरुद्रियम् ॥

सर्वेषां लभते पुण्यं रुद्राणां नात्र संशयः

॥११॥

इदं रहस्यं संख्यातं माहात्म्यं तव भामिनि ॥

रुद्राणां पापशमनं श्रुतं पुण्यविवर्द्धनम्

॥१२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये योगेश्वरमाहात्म्यवर्णनंनाम सप्तनवतितमोऽध्यायः ॥ ९७ ॥