मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३१७

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 317

कंटकशोषणीमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि देवीं कंटकशोषिणीम् ॥

उत्तरेण देवकुलाद्दक्षिणेनोन्नतात्स्थितात्

॥१॥

तस्योत्पत्तिं प्रवक्ष्यामि शृणु ह्येकमनाः प्रिये ॥

उन्नताद्दक्षिणे भागे यजंते द्विजसत्तमाः

॥२॥

भृगुरत्रिर्मरीचिश्च भरद्वाजोऽथ कश्यपः ॥

कण्वो मंकिश्च सावर्णिर्जातूकर्ण्यस्तथैव च

॥३॥

वत्सश्चैव वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः ॥

मनुर्यमोंऽगिरा विष्णुः शातातपपराशरौ

॥४॥

शांडिल्यः कौशिकश्चैव गौतमो गार्ग्य एव च ॥

दाल्भ्यश्च शौनकश्चैव शाकल्यो गालवस्तथा

॥५॥

जाबालिर्मुद्गलश्चैव ऋष्यशृंगो विभांडकः ॥

विश्वामित्रः शतानंदो जह्नुर्विश्वावसुस्तथा

॥६॥

एते चान्ये च मुनयो यजंते विविधैर्मखैः ॥

यज्ञवाटं च निर्माय ऋषितोयातटे शुभे

॥७॥

देवगन्धर्वनृत्यैश्च वेणुवीणानिनादितम् ॥

वेदध्वनितघोषेण यज्ञहोमाग्निहोत्रजैः

॥८॥

धूपैः समावृतं सर्वमाज्यगंधिभिरर्चितम् ॥

शोभितं मुनिभिर्दिव्यैश्चातुर्वेद्यैर्द्विजोत्तमैः

॥९॥

एवंविधं प्रदेशं तु दृष्ट्वा दैत्या महाबलाः ॥

समुद्रमध्यादायाता यज्ञविध्वंसहेतवे

॥१०॥

मायाविनो महाकायाः श्यामवर्णा महोदराः ॥

लंबभ्रूश्मश्रुनासाग्रा रक्ताक्षा रक्तमूर्धजाः

॥११॥

यज्ञं समागताः सर्वे दैत्याश्चैव वरानने ॥

तान्दृष्ट्वा मुनयः सर्वे रौद्ररूपान्भयंकरान्

॥१२॥

केचिन्निपतिता भूमौ तथान्ये ऽग्नौ स्रुचीकराः ॥

पत्नीशालां समाविष्टा हविर्धानं तथा परे

॥१३॥

ऋत्विजस्तु सदोमध्ये स्थिता वाचंयमास्तथा

॥१४॥

एवं देवि यदा वृत्तं मुनीनां च महात्मनाम् ॥

तदाध्वर्युर्महातेजा धैर्यमालम्ब्य सादरः

॥१५॥

अग्निहोत्रं हविष्यं च हविर्विन्यस्य मन्त्रवित् ॥

सुसमिद्धं जुहावाग्निं रक्षसां नाशहेतवे

॥१६॥

हुते हविषि देवेशि तत्क्षणादेव चोत्थिता ॥

शक्तिः शक्तित्रिशूलाढ्या चर्महस्ता महोज्ज्वला

॥१७॥

तया ते निहता दैत्या यज्ञविध्वंसकारिणः ॥

ततस्तां विविधैः स्तोत्रैर्मुनयस्तुष्टुवुस्तदा

॥१८॥

प्रसन्ना भूयसी देवी तानृषीन्प्रत्युवाच ह ॥

वरं वृणुध्वं मुनयो दास्यामि वरमुत्तमम्

॥१९॥

ऋषय ऊचुः

कृतं वै सकलं कार्यं यज्ञा नो रक्षितास्त्वया ॥

यदि देयो वरोऽस्माकं त्वया चासुरमर्द्दिनि

॥२०॥

अस्मिन्स्थाने सदा तिष्ठ मुनीनां हितकाम्यया ॥

कंटकाः शोषिता दैत्यास्तेन कंटकशोषिणी ॥

अद्यप्रभृति नामास्तु तेन देवि सदा त्विह

॥२१॥

ईश्वर उवाच

एवं भविष्यतीत्युक्त्वा सा देव्यन्तर्हिता तदा ॥

अष्टम्यां वा नवम्यां वा पूजयिष्यति मा नवः

॥२२॥

राक्षसेभ्यः पिशाचेभ्यो भयं तस्य न जायते ॥

प्राप्नुयात्परमां सिद्धिं मानवो नात्र संशयः

॥२३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये कंटकशोषणीमाहात्म्यवर्णनंनाम सप्तदशोत्तरत्रिशततमोऽध्यायः ॥ ३१७ ॥