मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ६

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 6

श्रीसोमेश्वरमहिमवर्णनम्

देव्युवाच

अत्यद्भुतं महादेव माहात्म्यं कथितं मम ॥

अपूर्वं देवदेवेश कदाचिन्न श्रुतं मया

॥१॥

ब्रह्मांडे यानि लिंगानि कीर्तितानि त्वया मम ॥

तेषां प्रभावेनाधिक्यं सोमेशे तत्कथं वद

॥२॥

किं प्रभावो महादेव क्षेत्रस्य च सुरेश्वर ॥

तन्मे ब्रूहि सुरेशान याथातथ्यं ममाग्रतः

॥३॥

ईश्वर उवाच

अतः परं प्रवक्ष्यामि रहस्यं परमं तव ॥

प्रभासक्षेत्रमाहात्म्यं सोमेशस्य वरानने

॥४॥

तीर्थानां परमं तीर्थं व्रतानां परमं व्रतम् ॥

जाप्यानां परमं जाप्यं ध्यानानां ध्यानमुत्तमम्

॥५॥

योगानां परमो योगो रहस्यं परमं महत् ॥

तत्तेहं संप्रवक्ष्यामि शृणु ह्येकमना प्रिये

॥६॥

सोमेशं परमं स्थानं पंचवक्त्रसमन्वितम् ॥

एतल्लिंगं न मुंचामि सत्यंसत्यं मयोदितम्

॥७॥

यच्च तत्परमं देवि ध्रुवमक्षयमव्ययम् ॥

सोमेशं तद्विजानीहि मा विकल्पमना भव

॥८॥

निर्भयं निर्मलं नित्यं निरपेक्षं निराश्रयम् ॥

निरंजनं निष्प्रपंचं निःसंगं निरुपद्रवम्

॥९॥

तल्लिंगमिति जानीहि प्रभासे संव्यवस्थितम् ॥

अपवर्गमविज्ञेयं मनोरम्यमनामयम्

॥१०॥

नित्यं च कारणं देवं मखघ्नं सर्वतोमुखम् ॥

शिवं सर्वात्मकं सूक्ष्ममनाद्यं यच्च दैवतम्

॥११॥

आत्मोपलब्धिविज्ञेयं चित्तचिंताविवर्जितम् ॥

गमागमविनिर्मुक्तं बहिरंतश्च केवलम्

॥१२॥

आत्मोपलब्धिविषयं स्तुतिगोचरवर्जितम् ॥

निष्कलं विमलात्मानं प्रकटं ज्ञानदीपकम्

॥१३॥

तल्लिंगमिति जानीहि प्रभासे सुरसुंदरि ॥

निरावकाशरहितं शब्दं शब्दांतगोचरम्

॥१४॥

निष्कलं विमलं देवं देवदेवं सुरात्मकम् ॥

हेतुप्रमाणरहितं कल्पनाभाववर्जितम्

॥१५॥

चित्तावलोकविषयं बहिरंतरसंस्थितम् ॥

प्रभासे तं विजानीहि प्रणवं लिंगरूपिणम्

॥१६॥

अनिष्पंदं महात्मानं निरानंदावलोकनम् ॥

लोकावलोकमार्गस्थं विशुद्धज्ञानकेवलम्

॥१७॥

विद्याविशेषमार्गस्थमनेकाकारसंज्ञितम् ॥

स्वभावभावनाग्राह्यं भावातीतमलक्षणम्

॥१८॥

वाक्प्रपंचादिरहितं निष्प्रपञ्चात्मकं शिवम् ॥

ज्ञानज्ञेयावलोकस्थं हेत्वाभासविवर्जितम्

॥१९॥

अनाहतं शब्दगतं शब्दादिगणसंभवम् ॥

एवं सोमेश्वरं विद्धि प्रभासे लिंगरूपिणम्

॥२०॥

शब्दब्रह्मगतं शान्तं स शब्दांतगमास्पदम् ॥

सर्वातिरिक्त विषयं सर्वध्यानपदे स्थितम्

॥२१॥

अनादिमच्युतं दिव्यं प्रमाणातीत गोचरम् ॥

अधश्चोर्ध्वं गतं नित्यं जीवाख्यं देहसंस्थितम्

॥२२॥

हृदादिद्वादशांतस्थं प्राणापानोदयास्तगम् ॥

अग्राह्यमिन्द्रियात्मानं निष्कलंकात्मकं विभुम्

॥२३॥

स्वरादिव्यंजनातीतं वर्णादिपरिवर्जितम् ॥

वाचामवाच्यविषयमहंकारार्द्धरूपिणम्

॥२४॥

अप्रतर्क्यमनुच्चार्यं कलनाकालवर्जितम् ॥

निःशब्दं निश्चलं सौम्यं देहातीतं परात्परम्

॥२५॥

भूतावग्रहरहितं भावाभावविवर्जितम् ॥

अविज्ञेयं परं सूक्ष्मं पञ्चपञ्चादिसंभवम्

॥२६॥

अप्रमेयमनंताख्यमक्षयं कामरूपिणम् ॥

प्रभवं सर्वभूतानां बीजांकुरसमुद्भवम्

॥२७॥

व्यापकं सर्वकामाख्यमक्षरं परमं महत् ॥

स्थूलसूक्ष्मविभागस्थं व्यक्ताव्यक्तं सनातनम्

॥२८॥

कल्पकल्पान्तरहितमनादिनिधनं महत् ॥

महाभूतं महाकायं शिवं निर्वाणभैरवम्

॥२९॥

एवं सदाशिवं विद्धि प्रभासे लिंगरूपिणम् ॥

योगक्रिया विनिर्मुक्तं मृत्युंजयमनादिमत्

॥३०॥

सर्वोपसर्गरहितं सर्वतोव्यापकं शिवम् ॥

अव्यक्तं परतो नित्यं केवलं द्वैतवर्जितम्

॥३१॥

अनन्यतेजसाक्रांतं प्रभासक्षेत्रवासिनम् ॥

भूरिस्वयंप्रभप्रख्यं सर्वतेजोऽधिकं हरम्

॥३२॥

शरण्यंदेवमीशानमोंकारं शिवरूपिणम् ॥

देवदेवं महादेवं पंचवक्त्रं वृषध्वजम्

॥३३॥

निर्मलं मानसातीतं भावग्राह्यमनूपमम् ॥

सदा शांतं विरूपाक्षं शूलहस्तं जटाधरम्

॥३४॥

हृत्पद्मकोशमध्यस्थं शून्यरूपं निरञ्जनम् ॥

एवं सदाशिवं विद्धि प्रभासे लिङ्गरूपिणम्

॥३५॥

योऽसौ परात्परो देवो हंसाख्यः परिकीर्तितः ॥

नादाख्यः सुव्रते देवि सोऽस्मिन्स्थाने स्थितः स्वयम्

॥३६॥

एतदादिस्वरूपं च मया योगबलेन तु ॥

विज्ञातं देवि गदितं दिव्यमात्मानमात्मना

॥३७॥

ऋग्वेदस्थस्तु पूर्वाह्णे मध्याह्ने यजुषि स्थितः ॥

अपराह्णे तु सामस्थो ह्यथर्वस्थो निशागमे

॥३८॥

वेदाहमेतं पुरुषं महांतमादित्यवर्णं तमसः परस्तात् ॥

तमेव विदित्वा न भवेत्तु मृत्युर्नान्यः पंथा विद्यते वै जनानाम्

॥३९॥

इतीरितस्ते तु महाप्रभावः सोमेशलिंगस्य कृतैकदेशः ॥

वृतं न चाब्दैर्बहुभिः सहस्रैर्वक्तुं च केनापि मुखैर्न शक्यम्

॥४०॥

ब्राह्मणः क्षत्रियो वैश्यः शूद्रोऽपीदं पठेद्यदि ॥

निर्मुक्तः सर्वपापेभ्यः सर्वान्कामानवाप्नुयात्

॥४१॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये श्रीसोमेश्वरमहिमवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥