मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ६६

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 66

प्रभासक्षेत्रमाहात्म्येऽर्घ्येश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महालिंगमर्घ्येश्वरमिति श्रुतम् ॥

उत्तरे तु विशालाक्ष्या नातिदूरे व्यवस्थितम्

॥१॥

लिंगं महाप्रभावं हि सुरगन्धर्वपूजितम् ॥

यदा देवी समायाता वडवानलधारिणी

॥२॥

प्रभासक्षेत्रमासाद्य दृष्ट्वा तत्र महोदधिम् ॥

अर्घ्यं दत्तवती तत्र विधिना तन्महोदधेः

॥३॥

प्रतिष्ठाप्य महल्लिंगं संपूज्य विधिना ततः ॥

प्रविवेशाथ देवेशि स्नानार्थं च महोदधौ

॥४॥

यस्मादर्घ्यं पुरा दत्त्वा पश्चादीशः प्रतिष्ठितः ॥

तेनार्घ्येशेति विख्यातं लिंगं पापप्रणाशनम्

॥५॥

पंचामृतेन संस्नाप्य विधिना यस्तमर्चयेत् ॥

सप्तजन्मानि देवेशि स विद्यामधिगच्छति ॥

सम्यक्छास्त्रप्रवक्ता च सर्वसंदेहवित्तमः

॥६॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येऽर्घ्येश्वरमाहात्म्यवर्णनंनाम षट्षष्टितमोऽध्यायः ॥ ६६ ॥