मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ६०

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 60

मङ्गलामाहात्म्यवर्णनम्

ईश्वर उवाच

प्रभासक्षेत्रदूतीनां त्रितयं वरवर्णिनि ॥

अथ ते संप्रवक्ष्यामि शृणु ह्येकमनाः प्रिये

॥१॥

प्रथमा मंगला देवी विशालाक्षी द्वितीयिका ॥

तथा चत्वरदेवी तु तृतीया परिकीर्तिता

॥२॥

यथानुक्रमतः पूज्याः शक्तयस्ता वरानने ॥

प्रभासक्षेत्रयात्रायाः फलप्रेप्सुर्नरो यदि

॥३॥

देव्युवाच

कस्मिन्स्थाने स्थिता देव दूत्यस्ताः क्षेत्ररक्षिकाः ॥

कस्य ताः कथमाराध्याः कथं पूज्या जगत्पते

॥४॥

ईश्वर उवाच

ब्राह्मी तु मंगला प्रोक्ता विशालाक्षी तु वैष्णवी ॥

रौद्रीशक्तिः समाख्याता देवी सा चत्वरप्रिया

॥५॥

मंगला प्रथमं पूज्या अजादेव्युत्तरे स्थिता ॥

राह्वीशाद्दक्षिणेभागे नातिदूरे वरानने

॥६॥

सोमेश्वरप्रतिष्ठाप्य प्रारब्धे यज्ञकर्मणि ॥

सोमेन तत्र देवानामागता सा दिदृक्षया

॥७॥

ब्रह्मादीनां च सा यस्मान्मांगल्यं कृतवत्युमे ॥

तस्मात्सा मंगला प्रोक्ता सर्वमांगल्यदायिनी

॥८॥

तृतीयायां तु या नारी नरो वा पूजयिष्यति ॥

तस्याऽमंगल्यदुःखानि नाशं यास्यंति कृत्स्नशः

॥९॥

दम्पतीभोजनं तत्र फलदानं सकञ्चुकम् ॥

प्रशस्तं पृषदाज्यस्य प्राशनं पापनाशनम्

॥१०॥

इति संक्षेपतः प्रोक्तं महाभाग्यं महोदयम् ॥

मंगलायाश्च माहात्म्यं सर्वपातकनाशनम्

॥११॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मङ्गलामाहात्म्यवर्णनंनाम षष्टितमोऽध्यायः ॥ ६० ॥