मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २६०

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 260

ततो गच्छेन्महादेवि देवं सिद्धेश्वरं परम्

ईश्वर उवाच

ततो गच्छेन्महादेवि देवं सिद्धेश्वरं परम् ॥

तस्यैव पश्चिमे भागे सिद्धैः संस्थापितं पुरा

॥१॥

सिद्धा नाम सुराः पूर्वं तत्रागत्य वरानने ॥

लिंगं संस्थापयामासुः सिद्ध्यर्थं सर्ववस्तुषु

॥२॥

ततस्तुष्टो महादेवि तेषां दृष्ट्वा तपो महत् ॥

अणिमादिकमैश्वर्यं तेषां सर्वं ददौ शिवः

॥३॥

अब्रवीदत्र मे नित्यं सानिध्यं च भविष्यति

॥४॥

चैत्रे शुक्लचतुर्द्दश्यां योऽत्र मां पूजयिष्यति ॥

स यास्यति परं स्थानं प्रसादान्मम पुण्यकृत्

॥५॥

एवमुक्त्वाऽथ भगवाञ्जगामादर्शनं ततः ॥

सिद्धाश्चैव तदाऽऽगत्य पूजयंति महेश्वरम्

॥६॥

यस्तमाराधयेद्भक्त्या संसिद्धिं लभतेऽद्भुताम् ॥

ईप्सितां च सुरश्रेष्ठे तस्मात्तं पूजयेत्सदा

॥७॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सिद्धेश्वरमाहात्म्यवर्णनंनाम षष्ट्युत्तरद्विशततमोऽध्यायः ॥ २६० ॥