मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३२५

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 325

उन्नतस्वामिमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि विनायकमनुत्तमम् ॥

ऋषितोयातटे रम्ये सर्वविघ्ननिवारणम्

॥१॥

योऽसौ देवगणाध्यक्षः साक्षाच्च त्रिपुरान्तकः ॥

गजरूपं समाश्रित्य ह्युन्नते जगति स्थितः ॥

प्राभासिके महाक्षेत्रे गणानां कोटिभिर्वृतः

॥२॥

तस्मात्सर्वप्रयत्नेन यात्रा निर्विघ्नहेतवे ॥

आराध्यो गणनाथश्च पुष्पधूपादिभिः सदा

॥३॥

चतुर्थ्यां च चतुर्थ्यां च सर्वैर्नगरवासिभिः ॥

तस्मिन्महोत्सवः कार्यो राष्ट्रक्षेमार्थ सिद्धये

॥४॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य उन्नतस्वामिमाहात्म्यवर्णनं नाम पंचविंशत्युत्तरत्रिशततमोऽध्यायः ॥ ३२५ ॥