मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ८९

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 89

ततो गच्छेद्वरारोहे कपालीश्वरमुत्तमम्

ईश्वर उवाच

ततो गच्छेद्वरारोहे कपालीश्वरमुत्तमम् ॥

रुद्रं तृतीयं पापघ्नं नीलरुद्रस्यपूर्वतः

॥१॥

बुधेश्वरात्पश्चिमतो धनुषां सप्तके स्थितम् ॥

छिन्नं मया पुरा देवि ब्रह्मणः पंचमं शिरः

॥२॥

तत्कपालं करे लग्नं प्रभासक्षेत्रमागतः ॥

ततो वर्षसहस्रं तु संस्थितः क्षेत्रमध्यतः

॥३॥

कपालधारी दिग्वासाः कपाली तेन च स्मृतः ॥

तन्मया पूजितं लिंगं वर्षाणामयुतं प्रिये

॥४॥

कपालिरूपमास्थाय कपालीशस्ततः स्मृतः ॥

सर्वपापहरो नृणां दर्शनात्स्पर्शनादपि

॥५॥

मया तत्र नियुक्ता वै रक्षार्थं शूलपाणयः ॥

गणाः सहस्रशो देवि पापिनां दुष्टचेतसाम्

॥६॥

तस्मात्सर्वप्रयत्नेन सम्यक्छ्रद्धासमन्वितः ॥

पूजयेत्तं महादेवं कपालिनमनामयम्

॥७॥

हिरण्यं तत्र दातव्यं ब्राह्मणे वेदपारगे ॥

पूजयित्वा विधानेन सम्यक्तत्पुरुषाणुना

॥८॥

जन्मप्रभृति यत्पापं प्राणिभिः समुपार्जितम् ॥

षडशीतिमुखे दृष्ट्वा तल्लिंगं तु व्यपोहति

॥९॥

इति संक्षेपतः प्रोक्तं माहात्म्यं पापनाशनम् ॥

कपालिरुद्रदेवस्य तृतीयस्य वरानने

॥१०॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादशरुद्रमाहात्म्ये कपा लीश्वरमाहात्म्यवर्णनंनामैकोननवतितमोऽध्यायः ॥ ८९ ॥