मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १३२

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 132

सिद्धलक्ष्मीमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि वैष्णवीं शक्तिमुत्तमाम् ॥

सोमेशादीशदिग्भागे नातिदूरे व्यवस्थिताम्

॥१॥

सिद्धलक्ष्मीति विख्याता ह्यत्र पीठाधिदेवता

॥२॥

ब्रह्माण्डे प्रथमं पीठं यत्प्रभासं व्यवस्थितम् ॥

तत्र देवि महापीठे योगिन्यो भूचराः खगाः ॥

भैरवेण समे तास्तु क्रीडन्ते स्वेच्छया प्रिये

॥३॥

जालंधरं महापीठं कामरूपं तथैव च ॥

श्रीमद्रुद्रनृसिंहं च चतुर्थं पीठमुत्तमम्

॥४॥

रत्नवीर्यं महापीठं काश्मीरं पीठमेव च ॥

एतानि देवि पीठानि यो वेत्ति स च मन्त्रवित्

॥५॥

सर्वेषां चैव पीठानामाधारं पीठमुत्तमम् ॥

सौराष्ट्रे तु महादेवि नाम्ना ख्यातं महोदयम् ॥

कामरूपधरं ज्ञानं यत्राद्यापि प्रवर्तते

॥६॥

तत्र पीठे स्थिता देवी महालक्ष्मीति विश्रुता ॥

सर्वपापप्रशमनी सर्वकार्यशुभप्रदा

॥७॥

श्रीपञ्चम्यां नरो यस्तु पूजयेत्तां विधानतः ॥

गन्धपुष्पादिभिर्भक्त्या तस्यालक्ष्मीभयं कुतः

॥८॥

उत्तरां दिशमास्थाय महाल क्ष्म्यास्तु सन्निधौ ॥

यो जपेन्मन्त्रराज्ञीं तां सिद्धलक्ष्मीति विश्रुताम्

॥९॥

लक्षजाप्यविधानेन दीक्षास्नानादिपूर्वकम् ॥

दशांशहोमसंयुक्तं त्रिमधु- श्रीफलेसुभिः

॥१०॥

एवं प्रत्यक्षतां याति तस्य लक्ष्मीर्न संशयः ॥

ददाति वांछितां सिद्धिमिह लोके परत्र च

॥११॥

तृतीयायामथा ष्टम्यां चतुर्दश्यां विधानतः ॥

यस्तां पूजयते भक्त्या तस्य सिद्धिः करे स्थिता

॥१२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सिद्धलक्ष्मीमाहात्म्यवर्णनंनाम द्वात्रिंशदुत्तरशततमोऽध्यायः ॥ १३२ ॥