मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २५९

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 259

ततो गच्छेन्महादेवि पर्णादित्यं सुरेश्वरम्

ईश्वर उवाच

ततो गच्छेन्महादेवि पर्णादित्यं सुरेश्वरम् ॥

प्राचीसरस्वतीकूले तटे चोत्तरतः स्थितम्

॥१॥

पुरा त्रेतायुगे देवि पर्णादोनाम वै द्विजः ॥

प्रभासं क्षेत्रमासाद्य तपस्तेपे सुदारुणम् ॥

आराधयामास रविं भक्त्या परमया युतः

॥२॥

तर्पयित्वा ततः सूर्यं धूपमाल्यविलेपनैः ॥

वेदोक्तैः स्तवनैः सूक्तैर्दिवारात्रं समाहितः

॥३॥

एवं च ध्यायतस्तस्य कालेन महता ततः ॥

तुतोष भगवान्सूर्यो वाक्यमेतदुवाच ह

॥४॥

परितुष्टोऽस्मि विप्रेन्द्र तपसानेन सुव्रत ॥

वरं वरय भद्रं ते नित्यं यन्मनसेप्सितम्

॥५॥

ब्राह्मण उवाच

एष एव वरः कामो यत्तुष्टो भगवान्स्वयम् ॥

दर्शनं तव देवेश स्वप्नेष्वपि च दुर्ल्लभम्

॥६॥

अवश्यं यदि दातव्यो वरो मम दिवाकर ॥

अत्र संनिहतो देव सदा त्वं भव भास्कर

॥७॥

तव प्रसादात्ते यांतु तव लोकं दिवा कर ॥

एवं भविष्यतीत्युक्त्वा ह्यन्तर्धानं गतो रविः

॥८॥

पर्णादोऽपि स्थितस्तत्र तस्याराधनतत्परः ॥

तत्र भाद्रपदे मासे षष्ठ्यां स्नानं समाचरेत् ॥

पर्णादित्यं ततः पश्येन्न स दुःखमवाप्नुयात्

॥९॥

गोशतस्य प्रयागे तु सम्यग्दत्तस्य यत्फलम् ॥

तत्फलं लभते मर्त्यः पर्णादित्यस्य दर्शनात्

॥१०॥

ये सेवंते महाकुष्ठं पांगुल्यं च विवर्चिकाः ॥

पर्णादित्यं न जानंति नूनं ते मंदबुद्धयः

॥११॥

इति श्रीस्कान्दे महपुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये पर्णादित्यमाहात्म्यवर्णनंनामैकोनषष्ट्युत्तरद्विशततमोऽध्यायः ॥ २५९ ॥