मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ३४४

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 344

जरद्गवेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि लिंगं पापप्रणाशनम् ॥

कपिलेश्वरस्यैशान्यामुत्तरेण व्यवस्थितम्

॥१॥

जरद्गवेश्वरंनाम जरद्गवप्रतिष्ठितम् ॥

ब्रह्महत्यादि पापानां नाशनं नात्र संशयः

॥२॥

तत्रैव संस्थिता देवि देवी अंशुमती नदी ॥

तत्र स्नात्वा विधानेन पिडदानं तु दापयेत्

॥३॥

वर्षकोटिशतं साग्रं पितॄणां तृप्तिमावहेत् ॥

वृषभस्तत्र दातव्यो ब्राह्मणे वेदपारगे

॥४॥

ततस्तु पूजयेद्देवं गन्धपुष्पैर्जरद्गवम् ॥

पञ्चामृतरसेनैव तथा गुग्गु लुधूपनैः

॥५॥

स्तुतिदण्डनमस्कारैः प्रदक्षिणैरहर्निशम् ॥

ब्राह्मणान्भोजयेत्तत्र भक्ष्यभोज्यैः पृथग्विधैः ॥

एकेन भोजितेनैव कोटिर्भवति भोजिता

॥६॥

कृते सिद्धोदकंनाम तत्तीर्थं परिकीर्त्तितम् ॥

जरद्गवेश्वरं तीर्थं कलौ तु परिकीर्त्यते

॥७॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येंऽशुमतीमाहात्म्ये जरद्गवेश्वरमाहात्म्यवर्णनंनाम चतुश्चत्वारिंशदुत्तरत्रिशततमोऽध्यायः ॥ ३४४ ॥