मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २२१

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 221

ततो गच्छेन्महादेवि देवं च ऋणमोचनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि देवं च ऋणमोचनम् ॥

तस्मिन्दृष्टे ऋणं न स्यान्मातापितृसमुद्भवम्

॥१॥

पितरस्तु पुरा सर्वे दिव्यक्षेत्रं समागताः ॥

प्रभासे तपसा युक्ताः स्थिता वर्षगणान्बहून्

॥२॥

अग्निष्वात्ता बर्हिषदः सोमपा आज्यपास्तथा ॥

लिंगं संस्थापयामासुः सर्वे भक्तिपरायणाः

॥३॥

ततः कालेन महता तुष्टस्तेषां महेश्वरः ॥

ततः प्रत्यक्षतां गत्वा वाक्यमेतदुवाच ह

॥४॥

परितुष्टोऽस्मि भद्रं वो ब्रूत यन्मनसेप्सितम्

॥५॥

पितर ऊचुः

अस्माकं दीयतां वृत्तिर्जगत्यस्मिन्स्वयं कृते ॥

देवानां च ऋषीणां च मानुषाणां महीतले

॥६॥

भवानेव परो लोके सर्वेषां पद्मसंभव ॥

आगत्य वर्णाश्चत्वार इह ये श्रद्धयान्विताः

॥७॥

पैतृकात्तु ऋणान्मुक्ता भवंतु गतकल्मषाः ॥

व्यन्तरत्वं सुरश्रेष्ठ येषां वै पितरो गताः

॥८॥

सर्प्पे वह्नि विषैर्वा ये नाशं नीताः पितामहाः ॥

अपुत्रा वा सपुत्रा वा सपिण्डीकरणं विना

॥९॥

न कृतानि पुरा येषामेकोद्दिष्टानि षोडश ॥

तथा नैव वृषोत्सर्गो गोहताश्चाथ चान्त्यजैः

॥१०॥

अथापरे ये च मृताः शौचेन तु विना कृताः ॥

ते चात्र तर्पिताः सर्वे प्रयान्तु परमां गतिम्

॥११॥

श्रीभगवानुवाच

स्नात्वा तु सलिले पुण्ये पितृणां चैव तर्पणम् ॥

ये करिष्यंति मनुजाः पितृभक्तिपरायणाः

॥१२॥

अहं वरप्रदस्तेषां तारयिष्यामि तत्क्षणात् ॥

पितृन्सर्वान्न संदेहो यदि पापशतैर्वृताः

॥१३॥

अस्मिंस्तीर्थे नरः स्नात्वा यो लिंगं पूजयिष्यति ॥

युष्माभिः स्थापितं लिंगं स मुक्तः पैतृकादृणात्

॥१४॥

यस्मादृणात्प्रमुच्येत अस्य लिंगस्य दर्शनात् ॥

तस्मान्मया कृतं नाम ह्येतस्य ऋणमोचनम्

॥१५॥

ईश्वर उवाच

हिरण्यं मस्तके दत्त्वा यः स्नाति ऋणमोचने ॥

आत्मा वै तारितस्तेन दत्तं भवति गोशतम्

॥१६॥

एवमुक्त्वा स भगवांस्तत्रैवान्तरधीयत ॥

तस्मात्सर्वप्रयत्नेन तत्र श्राद्धं समाचरेत् ॥

पूजयेत्तन्महादेवि पितृलिंगं सुरप्रियम्

॥१७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्य ऋणमोचनमाहात्म्यवर्णनंनामैकविंशत्युत्तरद्विशततमो ऽध्यायः ॥ २२१ ॥