मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १०७

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 107

भक्तिभेदान्पृथक्तस्य ब्रह्मणो बालरूपिणः

ईश्वर उवाच

अथ पूजाविधानं ते कथयामि समासतः ॥

भक्तिभेदान्पृथक्तस्य ब्रह्मणो बालरूपिणः

॥१॥

रथयात्राविधानं तु स्तोत्रमंत्रविधिक्रमम् ॥

विविधा भक्तिरुद्दिष्टा मनोवाक्कायसंभवा

॥२॥

लौकिकी वैदिकी चापि भवेदाध्यात्मिकी तथा ॥

ध्यानधारणया या तु वेदानां स्मरणेन च ॥

ब्रह्मप्रीतिकरी चैषा मानसी भक्तिरुच्यते

॥३॥

मंत्रवेदनमस्कारैरग्निश्राद्धविधानकैः ॥

जाप्यैश्चारण्यकैश्चैव वाचिकी भक्तिरुच्यते

॥४॥

व्रतोपवासनियमैश्चितेंद्रियनिरोधिभिः ॥

कृच्छ्र सांतपनैश्चान्यैस्तथा चांद्रायणादिभिः

॥५॥

ब्रह्मोक्तैश्चोपवासैश्च तथान्यैश्च शुभव्रतैः ॥

कायिकी भक्तिराख्याता त्रिविधा तु द्विजन्मनाम्

॥६॥

गोघृतक्षीरदधिभिर्मध्विक्षुसुकुशोदकैः ॥

गंधमाल्यैश्च विविधैर्वस्तुभिश्चोपपादिभिः

॥७॥

घृतगुग्गुलधूपैश्च कृष्णागुरुसुगंधिभिः ॥

भूषणै हैमरत्नाद्यैश्चित्राभिः स्रग्भिरेव च

॥८॥

न्यासैः परिसरैः स्तोत्रैः पताकाभिस्तथोत्सवैः ॥

नृत्यवादित्रगीतैश्च सर्ववस्तूपहारकैः

॥९॥

भक्ष्यभोज्यान्न पानैश्च या पूजा क्रियते नरैः ॥

पितामहं समुद्दिश्य सा भक्तिर्लौकिकी मता

॥१०॥

वेदमंत्रहविर्भागैः क्रिया या वैदिकी स्मृता

॥११॥

दर्शे च पौर्णमास्यां च कर्त्तव्यं चाग्निहोत्रजम् ॥

प्राशनं दक्षिणादानं पुरोडाश इति क्रिया

॥१२॥

इष्टिर्धृतिः सोमपानं याज्ञियं कर्म सर्वशः ॥

ऋग्यजुः सामजाप्यानि संहिताध्ययनानि च ॥

क्रियते ब्रह्माणमुद्दिश्य सा भक्तिर्वेदिकोच्यते

॥१३॥

प्राणायामपरो नित्यं ध्यानवान्विजितेंद्रियः ॥

भैक्ष्यभक्षी व्रती चापि सर्वप्रत्याहृतेंद्रियः

॥१४॥

धारणं हृदये कृत्वा ध्यायमानः प्रजेश्वरम् ॥

हृत्पद्मकर्णिकासीनं रक्तवर्णं सुलोचनम्

॥१५॥

पश्यन्नुद्द्योतितमुखं ब्रह्माणं सुकटीतटम् ॥

रक्तवर्णं चतुर्बाहुं वरदाभयहस्तकम् ॥

एवं यश्चिंतयेद्देवं ब्रह्मभक्तः स उच्यते

॥१६॥

विधिं च शृणु मे देवि यः स्मृतः क्षेत्रवासिनाम्

॥१७॥

निर्ममा निरहंकारा निःसंगा निष्परिग्रहाः ॥

चतुर्वर्गेपि निःस्नेहाः समलोष्टाश्मकांचनाः

॥१८॥

भूतानां कर्मभिर्नित्यं त्रिविधैरभयप्रदाः ॥

प्राणायामपरा नित्यं परध्यानपरायणाः

॥१९॥

जापिनः शुचयो नित्यं यतिधर्मक्रियापराः ॥

सांख्ययोगविधिज्ञा ये धर्मविच्छिन्नसंशयाः

॥२०॥

ब्रह्मपूजारता नित्यं ते विप्राः क्षेत्रवासिनः ॥

तैर्यथा पूजनीयो वै बालरूपी पितामहः

॥२१॥

तथाहं कीर्त्तयिष्यामि शृणुष्वैकमनाः प्रिये ॥

स्नात्वा तु विमले तीर्थे शुक्लांबरधरः शुचिः ॥

पूजोपहारसंयुक्तस्ततो ब्रह्माणमर्चयेत्

॥२२॥

पूर्वं संस्नाप्य विधिना पंचामृतरसोदकैः ॥

गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम्

॥२३॥

गायत्र्या गृह्य गोमूत्रं गंधद्वारेति गोमयम् ॥

आप्यायस्वेति च क्षीरं दधिक्राव्णेति वै दधि

॥२४॥

तेजोऽसि शुक्रमित्याज्यं देवस्य त्वा कुशोदकम् ॥

आपोहिष्ठेति मंत्रेण पंचगव्येन स्नापयेत्

॥२५॥

कपिलापंचगव्येन कुशवारियुतेन च ॥

स्नापयेन्मंत्रपूतेन ब्रह्मस्नानं हि तत्स्मृतम्

॥२६॥

वर्षकोटिसहस्रैस्तु यत्पापं समुपार्जितम् ॥

सुरज्येष्ठं तु संस्नाप्य दहेत्सर्वं न संशयः

॥२७॥

एवं संस्नाप्य विधिना ब्रह्माणं बालरूपिणम् ॥

कर्पूरागरुतोयेन ततः संस्नापयेद्द्विजः

॥२८॥

एवं कृत्वार्च्चयेद्देवं गायत्रीन्यासयोगतः ॥

मूर्ध्नः पादतलं यावत्प्रणवं विन्यसेद्बुधः

॥२९॥

तकारं विन्यसेन्मूर्ध्नि सकारं मुखमण्डले ॥

विकारं कंठदेशे तु तुकारं चांगसंधिषु

॥३०॥

वकारं हृदि मध्ये तु रेकारं पार्श्वयोर्द्वयोः ॥

णिकारं दक्षिणे कुक्षौ यकारं वामसंज्ञिते

॥३१॥

भकारं कटिनाभिस्थं गोकारं पार्श्वयोर्द्वयोः ॥

देकारं जानुनोर्न्यस्य वकारं पादपद्मयोः

॥३२॥

स्यकारमंगुष्ठयोर्न्यस्य धीकारमुरसि न्यसेत् ॥

मकारं जानुमूले तु हि कारं गुह्यमाश्रितम्

॥३३॥

धिकारं हृदये न्यस्य योकारं चाधरोष्ठके ॥

योकारं च तथैवान्यमुत्तरोष्ठे न्यसेत्सुधीः

॥३४॥

नकारं नासिकाग्रे तु प्रकारं नेत्रमाश्रितम् ॥

चोकारं च भ्रुवोर्मध्ये दकारं प्राणमाश्रितम्

॥३५॥

यात्कारं च ललाटांते विन्यसेद्वै सुरेश्वरि ॥

न्यासं कृत्वाऽऽत्मनो देहे देवे कुर्यात्तथा प्रिये

॥३६॥

सर्वोपहारसंपन्नं कृत्वा सम्यङ्निरीक्षयेत् ॥

कुंकुमागरुकर्पूरचंदनेन विमिश्रितम्

॥३७॥

गंधतोयैरुपस्कृत्य गायत्र्या प्रणवेन च ॥

प्रोक्षयेत्सर्वद्रव्याणि पश्चादर्चनमारभेत्

॥३८॥

दिव्यै पुष्पैः सुगंधैश्च मालतीकमलादिभिः ॥

अशोकैः शतपत्रैश्च बकुलैः पूजयेत्क्रमात्

॥३९॥

कृष्णागरुसुधूपेन घृतदीपैस्तथोत्तमैः ॥

ततः प्रदापयेत्तत्र नैवेद्यं विविधं क्रमात्

॥४०॥

खण्डलड्डुकश्रीवेष्टकांसाराशोकपल्लवैः ॥

स्वस्तिकोल्लिपिकादुग्धा तिलवेष्टकिलाटिकाम्

॥४१॥

फलानि चैव पक्वानि मूलमंत्रेण दापयेत् ॥

ऋग्वेदं च यजुर्वेदं सामवेदं च पूजयेत्

॥४२॥

ज्ञानं वैराग्यमैश्वर्यं धर्मं संपूजयेद्बुधः ॥

ईशानादिक्रमाद्देवि दिशासु विदिशासु च

॥४३॥

चतुर्द्दशविद्यास्थानानि ब्रह्मणोऽग्रे प्रपूजयेत् ॥

हृदयानि ततो न्यस्य देवस्य पुरतः क्रमात्

॥४४॥

आपोहिष्ठेति ऋगियं हृदयं परिकीर्त्तितम् ॥

ऋतं सत्यं शिखा प्रोक्ता उदुत्यं नेत्रमादिशेत्

॥४५॥

चित्रं देवानामित्येवं सर्वलोकेषु विश्रुतम् ॥

ब्रह्मंस्ते छादयामीति कवचं समुदाहृतम्

॥४६॥

भूर्भुवः स्वरितीरेश पूजनं परिकीर्तितम् ॥

गायत्र्या पूजयेद्देवमोंकारेणाभिमंत्रितम्

॥४७॥

प्रणवेनापरान्सर्वानृग्वेदादीन्प्रपूजयेत् ॥

गायत्री परमो मंत्रो वेदमाता विभावरी

॥४८॥

गायत्र्यक्षरतत्त्वैस्तु ब्रह्माणं यस्तु पूजयेत् ॥

उपोष्य पंचदश्यां तु स याति परमं पदम्

॥४९॥

संसारसागरं घोरमुत्तितीर्षुर्द्विजो यदि ॥

प्रभासे कार्त्तिके मासि ब्रह्माणं पूजयेत्सदा

॥५०॥

यस्य दर्शनमात्रेण अश्वमेध फलं लभेत् ॥

कस्तं न पूजयेद्विद्वान्प्रभासे बालरूपिणम्

॥५१॥

यस्यैकदिवसप्रांते सदेवासुरमानवाः ॥

विलयं यांति देवेशि कस्तं न प्रतिपूजयेत्

॥५२॥

पिता यः सर्वदेवानां भूतानां च पितामहः ॥

यस्मादेष स तैः पूज्यो ब्राह्मणैः क्षेत्रवासिभिः

॥५३॥

रुद्ररूपी विश्वरूपी स एव भुवनेश्वरः ॥

पौर्णमास्यामुपोषित्वा ब्रह्माणं जगतां पतिम् ॥

अर्चयेद्यो विधानेन सोऽश्वमेधफलं लभेत्

॥५४॥

कार्त्तिके मासि देवस्य रथयात्रा प्रकीर्त्तिता ॥

यां कृत्वा मानवो भक्त्या याति ब्रह्मसलोकताम्

॥५५॥

कार्त्तिके मासि देवेशि पौर्णमास्यां चतुर्मुखम् ॥

मार्गेण चर्मणा सार्द्धं सावित्र्या च परंतपः

॥५६॥

भ्रामयेन्नगरं सर्वं नानावाद्यैः समन्वितम् ॥

स्थापयेद्भ्रामयित्वा तु सकलं नगरं नृपः

॥५७॥

ब्राह्मणान्भोजयित्वाग्रे शांडिलेयं प्रपूज्य च ॥

आरोपयेद्रथे देवं पुण्यवादित्रनिःस्वनैः

॥५८॥

रथाग्रे शांडिलीपुत्रं पूजयित्वा विधानतः ॥

ब्राह्मणान्वाचयित्वा च कृत्वा पुण्याहमंगलम्

॥५९॥

देवमारोपयित्वा तु रथे कुर्यात्प्रजागरम् ॥

नानाविधैः प्रेक्षणकैर्ब्रह्मशेषैश्च पुष्कलैः

॥६०॥

नारोढव्यं रथे देवि शूद्रेण शुभमिच्छता ॥

नाधर्मेण विशेषेण मुक्त्वैकं भोजकं प्रिये

॥६१॥

ब्रह्मणो दक्षिणे पार्श्वे सावित्रीं स्थापयेत्प्रिये ॥

भोजकं वामपार्श्वे तु पुरतः पंकजं न्यसेत्

॥६२॥

एवं तूर्यनिनादैश्च शंखशब्दैश्च पुष्कलैः ॥

भ्रामयित्वा रथं देवि पुरं सर्वं च दक्षिणम् ॥

स्वस्थाने स्थापयेद्भूयः कृत्वा नीराजनं बुधः

॥६३॥

य एवं कुरुते यात्रां भक्त्या यश्चापि पश्यति ॥

रथं वाऽऽकर्षयेद्यस्तु स गच्छेद्ब्रह्मणः पदम्

॥६४॥

यो दीपं धारयेत्तत्र ब्रह्मणो रथपृष्ठगः ॥

पदेपदेऽश्वमेधस्य स फलं विंदते महत्

॥६५॥

यो न कारयते राजा रथयात्रां तु ब्रह्मणः ॥

स पच्यते महादेवि रौरवे कालमक्षयम्

॥६६॥

तस्मात्सर्वप्रयत्नेन राष्ट्रस्य क्षेममिच्छता ॥

रथयात्रां विशेषेण स्वयं राजा प्रवर्त्तयेत्

॥६७॥

प्रतिपद्ब्राह्मणांश्चापि भोजयेद्वि धिवत्सुधीः ॥

वासोभिरहतैश्चापि गन्धमाल्यानुलेपनैः

॥६८॥

कार्त्तिके मास्यमावास्यां यस्तु दीपप्रदीपनम् ॥

शालायां ब्रह्मणः कुर्यात्स गच्छेत्परमं पदम्

॥६९॥

उत्सवेषु च सर्वेषु सर्वकाले विशेषतः ॥

पूजयेयुरिमं विप्रा ब्रह्माणं जगतां गुरुम्

॥७०॥

यथाकृत्यप्रयोगेण सम्यक्छ्रद्धा समन्विताः ॥

पूज्यो दिव्योपचारेण यथावित्तानुसारतः

॥७१॥

एवं ते कथितं देवि पूजामाहात्म्यमुत्तमम् ॥

प्रभासक्षेत्रमाहात्म्यं ब्रह्मणः बालरूपिणः

॥७२॥

तस्याहं कथयिष्यामि नाम्नामष्टोत्तरं शतम् ॥

प्रदत्त्वा च पठित्वा च यज्ञायुतफलं लभेत्

॥७३॥

गायत्र्या लक्षजाप्येन सम्यग्जप्तेन यत्फलम् ॥

तत्फलं समवाप्नोति स्तोत्रस्यास्य उदीरणात्

॥७४॥

इदं स्तोत्रवरं दिव्यं रहस्यं पापनाशनम् ॥

न देयं दुष्टबुद्धीनां निन्दकानां तथैव च

॥७५॥

ब्राह्मणाय प्रदातव्यं श्रोत्रियाय महात्मने ॥

विष्णुना हि पुरा पृष्टं ब्रह्मणः स्तोत्रमुत्त्मम्

॥७६॥

केषुकेषु च स्थानेषु देवदेव पितामह ॥

संचिन्त्यस्तन्ममाचक्ष्व त्वं हि सर्वविदुत्तम

॥७७॥

ब्रह्मोवाच

पुष्करेऽहं सुरश्रेष्ठो गयायां प्रपितामहः ॥

कान्यकुब्जे वेदगर्भो भृगुक्षेत्रे चतुर्मुखः

॥७८॥

कौबेर्यां सृष्टिकर्ता च नन्दिपुर्यां बृहस्पतिः ॥

प्रभासे बालरूपी च वाराणस्यां सुरप्रियः

॥७९॥

द्वारावत्यां चक्रदेवो वैदिशे भुवनाधिपः ॥

पौंड्रके पुण्डरीकाक्षः पीताक्षो हस्तिनापुरे

॥८०॥

जयंत्यां विजयश्चासौ जयन्तः पुरुषोत्तमे ॥

वाडेषु पद्महस्तोऽहं तमोलिप्ते तमोनुदः

॥८१॥

आहिच्छत्र्यां जनानंदः काञ्चीपुर्यां जनप्रियः ॥

कर्णाटस्य पुरे ब्रह्मा ऋषिकुण्डे मुनिस्तथा

॥८२॥

श्रीकण्ठे श्रीनिवासश्च कामरूपे शुभंकरः ॥

उच्छ्रियाणे देवकर्त्ता स्रष्टा जालंधरे तथा

॥८३॥

मल्लिकाख्ये तथा विष्णुर्महेन्द्रे भार्गवस्तथा ॥

गोनर्दः स्थविराकारे ह्युज्जयिन्यां पितामहः

॥८४॥

कौशांब्यां तु महादेवो ह्ययोध्यायां तु राघवः ॥

विरंचिश्चित्रकूटे तु वाराहो विन्ध्यपर्वते

॥८५॥

गंगाद्वारे सुरश्रेष्ठो हिमवन्ते तु शंकरः ॥

देहिकायां स्रुचाहस्तः पद्महस्तस्तथाऽर्बुदे

॥८६॥

वृन्दावने पद्मनेत्रः कुश हस्तश्च नैमिषे ॥

गोपक्षेत्रे च गोविन्दः सुरेन्द्रो यमुनातटे

॥८७॥

भागीरथ्यां पद्मतनुर्जनानन्दो जनस्थले ॥

कौंकणे च स मध्वक्षः काम्पिल्ये कनकप्रभः

॥८८॥

खेटके चान्नदाता च शंभुश्चैव क्रतुस्थले ॥

लंकायां चैव पौलस्त्यः काश्मीरे हंसवाहनः

॥८९॥

वसिष्ठश्चार्बुदे चैव नारदश्चोत्पलावने ॥

मेधके श्रुतिदाता च प्रयागे यजुषां पतिः

॥९०॥

शिवलिंगे सामवेदो मर्कटे च मधुप्रियः ॥

नारायणश्च गोमन्ते विदर्भायां द्विज प्रियः

॥९१॥

अंकुलके ब्रह्मगर्भो ब्रह्मवाहे सुतप्रियः ॥

इन्द्रप्रस्थे दुराधर्षश्चंपायां सुरमर्दनः

॥९२॥

विरजायां महारूपः सुरूपो राष्ट्रवर्धने ॥

कदंबके जनाध्यक्षो देवाध्यक्षः समस्थले

॥९३॥

गंगाधरो रुद्रपीठे सुपीठे जलदः स्मृतः ॥

त्र्यंबके त्रिपुरारिश्च श्रीशैले च त्रिलोचनः

॥९४॥

महादेवः प्लक्षपुरे कपाले वेधनाशनः ॥

शृङ्गवेरपुरे शौरिर्निमिषे चक्रधारकः

॥९५॥

नन्दिपुर्यां विरूपाक्षो गौतमः प्लक्षपादपे ॥

माल्यवान्हस्तिनाथे तु द्विजेन्द्रो वाचिके तथा

॥९६॥

इन्द्रपुर्यां दिवानाथो भूतिकायां पुरंदरः ॥

हंसबाहुश्च चन्द्रायां चंपायां गरुडप्रियः

॥९७॥

महोदये महायक्षः सुयज्ञः पूतके वने ॥

सिद्धेश्वरे शुक्लवर्णो विभायां पद्मबोधकः

॥९८॥

देवदारुवने लिंगी उदकेथ उमापतिः ॥

विनायको मातृस्थाने अलकायां धनाधिपः

॥९९॥

त्रिकूटे चैव गोविंदः पाताले वासुकिस्तथा ॥

कोविदारे युगाध्यक्षः स्त्रीराज्ये च सुरप्रियः

॥१००॥

पूर्णगिर्यां सुभोगश्च शाल्मल्यां तक्षकस्तथा ॥

अमरे पापहा चैव अंबिकायां सुदर्शनः

॥१०१॥

नरवाप्यां महावीरः कान्तारे दुर्गनाशनः ॥

पद्मवत्यां पद्मगृहो गगने मृगलाञ्छनः

॥१०२॥

अष्टोत्तरं नामशतं यत्रैतत्परिपठ्यते ॥

तत्रैव मम सांनिध्यं त्रिसंध्यं मधुसूदन

॥१०३॥

तेषामपि यस्त्वेकं पश्येद्वै बालरूपिणम् ॥

सर्वेषां लभते पुण्यं पूर्वोक्तानां च वेधसाम्

॥१०४॥

एतैर्यो नामभिः कृष्ण प्रभासे स्तौति मां सदा ॥

स्थानं मे विजयं लब्ध्वा मोदते शाश्वतीः समाः

॥१०५॥

मानसं वाचिकं चैव कायिकं चैव दुष्कृतम् ॥

तत्सर्वं नाशमायाति मम स्तोत्राऽनु कीर्तनात्

॥१०६॥

पुष्पोपहौरर्धूपैश्च ब्राह्मणानां च तर्पणैः ॥

ध्यानेन च स्थिरेणाशु प्राप्यते यत्फलं नरैः ॥

तत्फलं समवाप्नोति मम स्तोत्रानु कीर्तनात्

॥१०७॥

ब्रह्महत्यादिपापानि इह लोके कृतान्यपि ॥

अकामतः कामतो वा तानि नश्यंति तत्क्षणात्

॥१०८॥

इदं स्तोत्रं ममाभीष्टं शृणुयाद्वा पठेच्च वा ॥

स मुक्तः पातकैः सर्वैः प्राप्नुयान्महदीप्सितम्

॥१०९॥

अन्यद्रहस्यं ते वच्मि शृणु कृष्ण यथार्थतः

॥११०॥

आग्नेयं तु यदा ऋक्षं कार्तिक्यां भवति क्वचित् ॥

महती सा तिथिर्ज्ञेया प्रभासे मम वल्लभा

॥१११॥

प्राजापत्यं यदा ऋक्षं तिथौ तस्यां भवेद्यदि ॥

सा महाकार्तिकी पुण्या देवानामपि दुर्लभा

॥११२॥

मंदे वार्के गुरौ वाऽपि कार्तिकी कृत्तिकायुता ॥

तत्राश्वमेधिकं पुण्यं दृष्ट्वा वै बालरूपिणम्

॥११३॥

विशाखासु यदा सूर्यः कृत्तिकासु च चन्द्रमाः ॥

स योगः पद्मको नाम प्रभासे दुर्लभो हरे

॥११४॥

तस्मिन्योगे नरो दृष्ट्वा प्रभासे बालरूपिणम् ॥

पापकोटियुतो वाऽपि यमलोकं न पश्यति

॥११५॥

ईश्वर उवाच

इत्येवं कथितं स्तोत्रं ब्रह्मणा हरये पुनः ॥

मया तव समाख्यातं माहात्म्यं ब्रह्मदैवतम्

॥११६॥

सर्वपापहरं नृणां श्रुतं सर्वार्थसाधकम् ॥

भूमिदानं च दातव्यं तत्र यात्राफलेप्सुभिः

॥११७॥

कमंडलुः श्वेतवस्त्रं महादानानि षोडश ॥

तत्रैव देवि देयानि ब्रह्मणे बालरूपिणे

॥११८॥

महापर्वणि संप्राप्ते कुर्युः पारायणं द्विजाः ॥

सर्वे ते ब्राह्मणा देवि क्षेत्रमध्यनिवासिनः

॥११९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभास क्षेत्रमाहात्म्ये बालरूपिब्रह्मणो माहात्म्यवर्णनंनाम सप्तोत्तरशततमोऽध्यायः ॥ १०७ ॥