पुलस्त्येश्वरात्ततो देवि नैर्ऋते धनुषाष्टके
ईश्वर उवाच
पुलस्त्येश्वरात्ततो देवि नैर्ऋते धनुषाष्टके ॥
पुलहेश्वरनामानं तं च भक्त्या प्रपूजयेत्
॥१॥हिरण्यदानं दत्त्वा वै सम्यग्यात्राफलं लभेत्
॥२॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पुलहेश्वरमाहात्म्यवर्णनंनामैकादशोत्तरद्विशततमोऽध्यायः ॥ २११ ॥