क्षेमादित्यमाहात्म्यवर्णनम्
ईश्वर उवाच
अथ देवकुलात्पूर्वे पंचगव्यूतिमात्रतः ॥
शंबरस्थान मध्ये तु क्षेमादित्येति विश्रुतः
॥१॥तं दृष्ट्वा मानवो देवि भवेत्क्षेमार्थसिद्धिभाक् ॥
सप्तम्यां रविवारेण पूजितः सर्वकामदः
॥२॥इति देवकुलस्थाने कथिता तीर्थसंस्थितिः
॥३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्र माहात्म्ये क्षेमादित्यमाहात्म्यवर्णनंनाम षोडशोत्तरत्रिशततमोऽध्यायः ॥ ३१६ ॥