मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १९४

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 194

प्रभासक्षेत्रमाहात्म्येऽमरेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि लिंगं देवैः प्रतिष्ठितम् ॥

ज्ञात्वा प्रभावं क्षेत्रस्य सर्वपातकनाशनम्

॥१॥

तत्र कृत्वा तपश्चोग्रं लिंगं देवैः प्रतिष्ठितम् ॥

तं दृष्ट्वा मानवो देवि कृतकृत्यः प्रजायते

॥२॥

गोदानं तत्र देयं तु ब्राह्मणे वेदपारगे ॥

सम्यक्च लभते देवि यात्रायाः फलमूर्जितम्

॥३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्येऽमरेश्वरमाहात्म्यवर्णनंनाम चतुर्णवत्युत्तरशततमोऽध्यायः ॥ १९४ ॥