मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १२८

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 128

ततो गच्छेन्महादेवि सागरादित्यमुत्तमम्

ईश्वर उवाच

ततो गच्छेन्महादेवि सागरादित्यमुत्तमम् ॥

भैरवेशात्पश्चिमतो रुद्रान्मृत्युञ्जयात्तथा

॥१॥

कामेशाद्दक्षिणाग्नेये नातिदूरे व्यवस्थितम् ॥

सर्व रोगप्रशमनं दारिद्र्यौघविघातकम् ॥

प्रतिष्ठितं महादेवि सगरेण महात्मना

॥२॥

षष्टिपुत्रसहस्राणि यः प्रापारातिसूदनः ॥

सूर्यं तत्र समाराध्य सगरः पृथिवीपतिः

॥३॥

य एष सागरो देवि योजनायतविस्तरः ॥

आयतोऽशीतिसाहस्रं योजनानां प्रकीर्तितः

॥४॥

अस्मिन्मन्वन्तरे क्षिप्तः सागरैश्च चतुर्दिशम् ॥

तस्येदं कीर्तितं देवि नाम सागरसंज्ञितम्

॥५॥

यस्याद्यापीह गायन्ति पुराणे प्रथितं यशः ॥

तेनायं स्थापितो देवो भास्करो वारितस्करः

॥६॥

तं दृष्ट्वा न जडो नान्धो न दरिद्रो न दुःखितः ॥

न चैवेष्टवियोगी स्यान्न रोगी नैव पापकृत्

॥७॥

माघे मासि महादेवि सिते पक्षे जितेन्द्रियः ॥

षष्ठ्यामुपोषितो भूत्वा रात्रौ तस्याग्रतः स्वपेत्

॥८॥

विबुद्धस्त्वथ सप्तम्यां भक्त्या भानुं समर्चयेत् ॥

ब्राह्मणान्भोजयेद्भक्त्या वित्तशाठ्यं विवर्जयेत्

॥९॥

सुतप्तेनेह तपसा यज्ञैर्वा बहुदक्षिणैः ॥

तां गतिं न नरा यान्ति यां गताः सूर्यमाश्रिताः

॥१०॥

भक्त्या तु पुरुषैः पूजा कृता दूर्वांकुरैरपि ॥

भानुर्ददाति हि फलं सर्वयज्ञैः सुदुर्लभम्

॥११॥

तस्मात्सर्वप्रयत्नेन सूर्यमेवाभिपूजयेत् ॥

जनकादयो यथा सिद्धिं गता भानुं प्रपूज्य च

॥१२॥

सर्वात्मा सर्वलोकेशो देवदेवः प्रजापतिः ॥

सूर्य एव त्रिलोकस्य मूलं परमदैवतम्

॥१३॥

वसन्ते कपिलः सूर्यो ग्रीष्मे काञ्चनसप्रभः ॥

श्वेतवर्णश्च वर्षासु पांडुः शरदि भास्करः

॥१४॥

हेमन्ते ताम्रवर्णस्तु शिशिरे लोहितो रविः ॥

एवं वर्णविशेषेण ध्यायेत्सूर्यं यथाक्रमम्

॥१५॥

पूजयित्वा विधानेन यतात्मा संयतेन्द्रियः ॥

पठेन्नामसहस्रं तु सर्वपातकनाशनम्

॥१६॥

देव्युवाच

नाम्नां सहस्रं मे ब्रूहि प्रसादाञ्छंकर प्रभो ॥

तुल्यं नामसहस्रस्य किमप्यन्यत्प्रकीर्तय

॥१७॥

ईश्वर उवाच

अलं नामसहस्रेण पठस्वैवं शुभं स्तवम् ॥

यानि गुह्यानि नामानि पवित्राणि शुभानि च ॥

तानि ते कीर्तयिष्यामि प्रयत्नादवधारय

॥१८॥

विकर्तनो विवस्वांश्च मार्तण्डो भास्करो रविः ॥

लोकप्रकाशकः श्रीमाँल्लोकचक्षुर्ग्रहेश्वरः

॥१९॥

लोकसाक्षी त्रिलोकेशः कर्त्ता हर्त्ता तमिस्रहा ॥

तपनस्तापनश्चैव शुचिः सप्ताश्ववाहनः

॥२०॥

गभस्तिहस्तो ब्रह्मा च सर्वदेवनमस्कृतः ॥

एकविंशतिरित्येष स्तव इष्टो महात्मनः

॥२१॥

शरीरारोग्यदश्चैव धनवृद्धियशस्करः ॥

स्तवराज इति ख्यातस्त्रिषु लोकेषु विश्रुतः

॥२२॥

यश्चानेन महादेवि द्वे संध्येऽस्तमनोदये ॥

स्तौत्यर्कं प्रयतो भूत्वा सर्वपापैः प्रमुच्यते ॥

सर्वकामसमृद्धात्मा सूर्यलोकं स गच्छति

॥२३॥

इत्येवं कथितं देवि माहात्म्यं सागरार्कजम् ॥

श्रुतं दुःखौघशमनं महापातकनाशनम्

॥२४॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये सागरादित्यमाहात्म्यवर्णनंनामाष्टाविंशत्युत्तरशततमोऽध्यायः ॥ १२८ ॥