मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ४५

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 45

ततो गच्छेन्महादेवि अंगारेश्वरमुत्तमम्

ईश्वर उवाच

ततो गच्छेन्महादेवि अंगारेश्वरमुत्तमम् ॥

स्थापितं भूमिपुत्रेण सोमेशादीश गोचरे

॥१॥

त्रिपुरं दग्धुकामस्य पुरा मम वरानने ॥

क्रोधादश्रु विनिष्क्रांतं लोचनत्रितयेन तु

॥२॥

तच्च भूमौ निपतितं ततो भूभिसुतोऽभवत् ॥

स प्रभासं ततो गत्वा बाल्यात्प्रभृति शंकरम्

॥३॥

तपसाऽऽराधयामास बहून्वर्षगणान्प्रिये ॥

तस्य तुष्टो महादेवः सुप्रीतात्मा वरं ददौ

॥४॥

सोऽब्रवीद्यदि मे देव तुष्टोसि वृषभध्वज ॥

ग्रहत्वं देहि सर्वेश न चान्यं वरमुत्सहे

॥५॥

स तथेति प्रतिज्ञाय पुनस्तं वाक्यमब्रवीत् ॥

इहागत्य नरो यो मां पूजयिष्यति भक्तितः

॥६॥

न भविष्यति वै पीडा तावकी तस्य कुत्रचित् ॥

पुष्पाणि रक्तवर्णानि मध्वाज्याक्तानि भूरिशः

॥७॥

होमयिष्यति यो भक्त्या लक्षमेकं तदग्रतः ॥

पंचोपचारविधिना त्वां तु संपूज्य यत्नतः

॥८॥

तस्य जन्मावधिर्नैव तव पीडा भविष्यति ॥

तथा विद्रुमदानेन लप्स्यते फलमीप्सितम्

॥९॥

एवमुक्त्वा स भगवानत्रैवांतरधीयन ॥

भौमोऽपि ग्रहमध्यस्थो विमानेन विराजते

॥१०॥

एवं संक्षेपतः प्रोक्तं भौममाहात्म्यमुत्तमम् ॥

श्रुतं हरति पापानि तथारोग्यं प्रयच्छति

॥११॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्येंऽगारेश्वरमाहात्म्यवर्णनंनाम पञ्चचत्वारिंशोध्यायः ॥ ४५ ॥