मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १४२

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 142

ततो गच्छेन्महादेवि चित्रेश्वर मनुत्तमम्

ईश्वर उवाच

ततो गच्छेन्महादेवि चित्रेश्वर मनुत्तमम् ॥

धनुषां सप्तके तस्य स्थितमाग्नेयदक्षिणे

॥१॥

लिंगं महाप्रभावं हि सर्वपातकनाशनम् ॥

तत्र चित्रेश्वरं पूज्य नरकान्न भवेद्भयम्

॥२॥

पटस्थितं तस्य पापं चित्रो मार्जयति प्रिये ॥

तस्मात्सर्वप्रयत्नेन चित्रेशं पूजयेत्सदा ॥

यः स्यात्पापयुतो वापि नरकं नैव पश्यति

॥३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये चित्रेश्वर माहात्म्यवर्णनंनाम द्विचत्वारिंशदुत्तरशततमोऽध्यायः ॥ १४२ ॥