मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २९३

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 293

कुबेरमाहात्म्यवर्णनम्

ईश्वर उवाच

तस्माद्वैश्रवण स्थानान्नैर्ऋत्यां वरवर्णिनि ॥

स्वयं स्थितः कुबेरस्तु सर्वदारिद्र्यनाशनः

॥१॥

मकरादिनिधानैस्तु अष्टाभिः परिभूषितः ॥

पञ्चम्यां पूजयेद्भक्त्या गन्धपुष्पानुलेपनैः ॥

निधानप्राप्तिरतुला निर्विघ्ना तस्य जायते

॥२॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभामक्षेत्रमाहात्म्ये न्यंकुमतीमाहात्म्ये कुबेरस्थानोत्पत्तौ कुबेरमाहात्म्यवर्णनंनाम त्रिनवत्युत्तरद्विशततमोऽध्यायः ॥ २९३ ॥