जलवासगणपतिमाहात्म्यवर्णनम्
ईश्वर उवाच
तत्रैव संस्थितं पश्येद्विघ्नेशं जलवाससम् ॥
सर्वविघ्नविनाशाय सर्वकार्यप्रसिद्धये
॥१॥वरुणेन महादेवि तपोनिर्विघ्नहेतवे ॥
पूजितो जलजैर्भक्त्या जलवासास्ततः स्मृतः
॥२॥चतुर्थ्यां तर्पयेद्भक्त्या गन्धैः पुष्पैः स मोदकैः ॥
यथाभक्त्यनुसारेण तस्य तुष्येद्गणाधिपः
॥३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये जलवासगणपतिमाहात्म्यवर्णनंनाम द्विसप्ततितमोऽध्यायः ॥ ७२ ॥