मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय १०

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 10

सर्वक्षेत्रोत्तमत्ववर्णनम्

ईश्वर उवाच

अन्यच्च कथयिष्यामि रहस्यं तव भामिनि ॥

यत्र कस्य चिदाख्यातं तत्ते वच्मि वरानने

॥१॥

पृथ्वीभागे स्थितो ब्रह्मा अपां भागे जनार्द्दनः ॥

तेजोभागस्थितो रुद्रो वायुभागे तथेश्वरः

॥२॥

आकाशभागसंस्थाने स्थितः साक्षात्सदाशिवः

॥३॥

यस्ययस्यैव यो भागस्तस्मिंस्तीर्थानि यानि वै ॥

तस्यतस्य न संदेहः स स एवेश्वरः स्मृतः

॥४॥

छागलंडं दुगण्डं च माकोटं मण्डलेश्वरम् ॥

कालिंजरं वनं चैव शंकुकर्णं स्थलेश्वरम्

॥५॥

महाभूतोपरि टिप्पणी शूलेश्वरं च विख्यातं पृथ्वीतत्त्वे च संस्थितम् ॥

हरिश्चन्द्रं च श्रीशैलं जल्पेशोन्नांतिकेश्वरम्

॥६॥

महाकालं मध्यमं च केदारं भैरवं तथा ॥

पवित्राष्टकमेतद्धि जलसंस्थं वरानने

॥७॥

अमरेशं प्रभासं च नैमिषं पुष्करं तथा ॥

आषाढिं चैव दण्डिं च भारभूतिं च लांगलम्

॥८॥

आदि गुह्याष्टकं ह्येतत्तेजस्तत्त्वे प्रतिष्ठितम् ॥

गया चैव कुरुक्षेत्रं तीर्थं कनखलं तथा

॥९॥

विमलं चाट्टहासं च माहेन्द्रं भीमसंज्ञकम् ॥

गुह्याद्गुह्यतरं ह्येतत्प्रोक्तं वाय्वष्टकं तव

॥१०॥

वस्त्रापथं रुद्रकोटिर्ज्येष्ठेश्वरं महालयम् ॥

गोकर्णं रुद्रकर्णं च वर्णाख्यं स्थापसंज्ञकम्

॥११॥

पवित्राष्टकमेतद्धि आकाशस्थं वरानने ॥

एतानि तत्त्वतीर्थानि सर्वाणि कथितानि वै

॥१२॥

यो यस्मिन्देवता तत्त्वे सा तन्माहात्म्यसूचिका ॥

औदकं च महातत्त्वं विष्णोश्चातिप्रियं प्रिये

॥१३॥

जलशायी स्मृतस्तेन नारायण इति श्रुतिः ॥

आप्यतत्त्वं तु तीर्थानि यानि प्रोक्ता- नि ते मया

॥१४॥

तानि प्रियाणि देवेशि ध्रुवं नारायणस्य वै ॥

औदकं चैव यत्तत्त्वं तस्मिन्प्राभासिकं स्मृतम्

॥१५॥

तत्र देवो लयं याति हरिर्जन्मनिजन्मनि ॥

स वासुदेवः सूक्ष्मात्मा परात्परतरे स्थितः

॥१६॥

स शिवः परमं व्योम अनादिनिधनो विभुः ॥

तस्मात्परतरं नास्ति सर्वशास्त्रागमेषु च

॥१७॥

सिद्धांतागमवेदांतदर्शनेषु विशेषतः ॥

तेषु चैव न भिन्नस्तु मया सार्द्धं यशस्विनि

॥१८॥

तस्मिन्स्थाने हरिः साक्षात्प्रत्यक्षेण तु संस्थितः ॥

लिंगैश्चतुर्भिः संयुक्तो ज्ञायते न च केनचित्

॥१९॥

मोक्षार्थं नैष्ठिकैर्वर्णैर्व्रतैश्चैव तु यत्फलम् ॥

तत्फलं समवाप्नोति भल्लुकातीर्थदर्शनात्

॥२०॥

गोचर्ममात्रं तत्स्थानं समंतात्परिमण्डलम् ॥

न हि कश्चिद्विजानाति विना शास्त्रेण भामिनि

॥२१॥

विषुवं वहते तत्र नृणामद्यापि पार्वति ॥

पंचलिंगानि तत्रैव पंचवक्त्राणि कानि चित्

॥२२॥

कुक्कुटांडकमानानि महास्थूलानि कानिचित् ॥

सर्पेण वेष्टितान्येव चिह्नितानि त्रिशूलिभिः

॥२३॥

तेषां दर्शनमात्रेण कोटिलिंगार्चनफलम् ॥

तस्मादिदं महाक्षेत्रं ब्रह्माद्यैः सेव्यते सदा

॥२४॥

श्रुतिमद्भिश्च विप्रेंद्रैः संसिद्धैश्च तपस्विभिः ॥

प्रतिमासं तथाष्टम्यां प्रतिमासं चतुर्दशीम्

॥२५॥

शशिभानूपरागे वा कार्त्तिक्यां तु विशेषतः ॥

प्रभासस्थानि लिंगानि प्रपूज्यन्ते वरानने

॥२६॥

संनिहत्यां कुरुक्षेत्रे सर्वस्तीर्थायुतैः सह ॥

पुष्करं नैमिषं चैवं प्रयागं संपृथूदकम्

॥२७॥

षष्टि तीर्थसहस्राणि षष्टिकोटिशतानि च ॥

माघ्यांमाघ्यां समेष्यंति सरस्वत्यब्धिसंगमे

॥२८॥

स्मरणात्तस्य तीर्थस्य नामसंकीर्तनादपि ॥

मृत्युकालभवाद्वापि पापं त्यक्ष्यति सुव्रते

॥२९॥

आनर्त्तसारं सौम्यं च तथा भुवनभूषणम् ॥

दिव्यं पांचनदं पुण्यमादिगुह्यं महोदयम्

॥३०॥

सिद्ध रत्नाकरं नाम समुद्रावरणं तथा ॥

धर्माकारं कलाधारं शिवगर्भगृहं तथा

॥३१॥

सर्वदेवनिवेशं च सर्वपातकनाशनम् ॥

अस्य क्षेत्रस्य नामानि कल्पे कल्पे पृथक्प्रिये

॥३२॥

आयामादीनि जानीहि गुह्यानि सुरसुन्दरि ॥

आद्ये कल्पे पुरा देवि प्रमोदनमिति स्मृतम्

॥३३॥

नन्दनं परितस्तस्य तस्यापि परतः शिवम् ॥

शिवात्परतरं चोग्रं भद्रिकं परतः पुनः

॥३४॥

समिंधनं परं तस्मात्कामदं च ततः परम् ॥

सिद्धिदं चापि धर्मज्ञं वैश्वरूपं च मुक्तिदम्

॥३५॥

तथा श्रीपद्मनाभं तु श्रीवत्सं तु महाप्रभम् ॥

तथा च पापसंहारं सर्वकामप्रदं तथा

॥३६॥

मोक्षमार्गं वरा रोहे तथा देवि सुदर्शनम् ॥

धर्मगर्भं तु धर्माणां प्रभासं पापनाशनम् ॥

अतः परं भवन्तीह उत्पलावर्त्तिकानि च

॥३७॥

क्षेत्रस्य मध्ये यद्देवि मम गर्भगृहं स्मृतम् ॥

तस्य नामानि ते देवि कथितान्यनुपूर्वशः

॥३८॥

श्रुत्वा नामान्यशेषाणि क्षेत्रमाहात्म्यमेव च ॥

तेषां तु वांछिता सिद्धि र्भविष्यति न संशयः

॥३९॥

एतत्कीर्त्तयमानस्य त्रिकालं तु महोदयम् ॥

संध्याकालांतरं पापमहोरात्रं विनश्यति

॥४०॥

अपि वै दांभिकाश्चैव ये वसंत्यल्पबुद्धयः ॥

मूढा जीवनिका विप्रास्तेऽपि यांति मृता दिवम्

॥४१॥

अस्य क्षेत्रस्य मध्ये तु रवियोजनमध्यतः ॥

उपक्षेत्राणि देवेशि संत्यन्यानि सहस्रशः

॥४२॥

कानिचित्पद्मरूपाणि यवाकाराणि कानिचित् ॥

षट्कोणानि त्रिकोणानि दण्डाकाराणि कानिचित्

॥४३॥

चंद्रबिंबार्द्धभेदानि चतुरस्रप्रभेदतः ॥

ब्रह्मादिदैवतानीशे क्षेत्रमध्ये स्थितानि तु

॥४४॥

कानिचिद्योजनार्द्धानि तदर्धार्धानि कानिचित् ॥

निवर्त्तनप्रमाणेन दण्डमानेन कानिचित्

॥४५॥

गोचर्ममानमध्यानि कानिचिद्धनुषांतरम् ॥

यज्ञोपवीतमात्राणि प्रभासे संति कोटिशः

॥४६॥

अंगुल्यष्टम भागोऽपि नभोस्ति कमलेक्षणे ॥

न संति यस्मिंस्तीर्थानि दिव्यानि च नभस्तले

॥४७॥

प्रभासक्षेत्रमासाद्य तिष्ठंति प्रलयादनु ॥

केदारे चैव यल्लिंगं यच्च देवि महालये

॥४८॥

मध्यमेश्वरसंस्थं च तथा पाशुपतेश्वरम् ॥

शंकुकर्णेश्वरं चैव भद्रेश्वरमथापि च

॥४९॥

सोमे श्वरमथैकाग्रं कालेश्वरमजेश्वरम् ॥

भैरवेश्वरमीशानं तथा कायावरोहणम्

॥५०॥

चापटेश्वरकं पुण्यं तथा बदरिकाश्रमम् ॥

रुद्रकोटिर्महाकोटि स्तथा श्रीपर्वतं शुभम्

॥५१॥

कपाली चैव देवेशः करवीरं तथा पुनः ॥

ओंकारं परमं पुण्यं वशिष्ठाश्रममेव च ॥

यत्र कोटिः स्मृता देवि रुद्राणां कामरूपिणाम्

॥५२॥

यानि चान्यानि स्थानानि पुण्यानि मम भूतले ॥

प्रयागं पुरतः कृत्वा प्रभासे निवसंति च

॥५३॥

उत्तरे रविपुत्री तु दक्षिणे सागरं स्मृतम् ॥

दक्षिणोत्तरमानोऽयं क्षेत्रस्यास्य प्रकीर्त्तितः

॥५४॥

रुक्मिण्याः पूर्वतश्चैव तप्ततोयाच्च पश्चिमे ॥

पूर्वपश्चिममानोऽयं प्रभासस्य प्रकीर्त्तितः

॥५५॥

एतदन्तरमासाद्य तीर्थानि सुरसुन्दरि ॥

पातालादिकटाहांतं तानि तत्र वसंति वै

॥५६॥

एवं ज्ञात्वा महादेवि सर्वदेवमयो हरिः ॥

प्रभासक्षेत्रमासाद्य तत्याज स्वं कलेवरम्

॥५७॥

दिव्यं ममेदं चरितं हि रौद्रं श्रोष्यंति ये पर्वसु वा सदा वा ॥

ते चापि यास्यंति मम प्रसादात्त्रिविष्टपं पुण्यजनाधिवासम्

॥५८॥

इति कथितमशेषमेव चित्रं चरितमिदं तव देवि पुण्ययुक्तम् ॥

इतरमपि तवातिवल्लभं यद्वद कथयामि महोदयं मुनीनाम्

॥५९॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये प्रभास क्षेत्रस्थ तीर्थक्षेत्रमाहात्म्यद्वारा प्रभासक्षेत्रस्य सर्वक्षेत्रोत्तमत्ववर्णनंनाम दशमोऽध्यायः ॥ १० ॥