मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २४०

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 240

ततो गच्छेन्महादेवि बलभद्रं सुरेश्वरम्

ईश्वर उवाच

ततो गच्छेन्महादेवि बलभद्रं सुरेश्वरम् ॥

सुभद्रां च तथा कृष्णं सर्वपातकनाशनम्

॥१॥

पूर्व कल्पे महादेवि देहमत्रात्यजद्धरिः ॥

अस्मिन्कल्पेपि च पुनर्गात्रोत्सर्गमिति स्मृतम्

॥२॥

तत्र ये पूजयिष्यंति नागरादित्यसंनिधौ ॥

बलभद्रं सुभद्रां च कृष्णं ते स्वर्गगामिनः

॥३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये बलभद्र सुभद्रा कृष्ण माहात्म्यवर्णनंनाम चत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४० ॥