मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २४१

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 241

तत्रैव संस्थितं पश्येद्बलभद्रकलेवरम्

ईश्वर उवाच

तत्रैव संस्थितं पश्येद्बलभद्रकलेवरम् ॥

शेषरूपेण यत्रासौ प्रात्यजत्स्वकलेवरम्

॥१॥

गतस्त्रैसंगमे तीर्थे तत्र पातालवर्त्मना ॥

अस्मिन्मित्रवने देवि गव्यूतिद्वयविस्तृते

॥२॥

कलेवरं स्थितं देवि लिंगाकारं महाप्रभम् ॥

रेवत्या सहितं तत्र शेषनामेति विश्रुतम्

॥३॥

यत्र सिद्धः पुरा देवि जरानामा तु कौलिकः ॥

विष्णुहंता भल्लतीर्थे सोऽस्मिन्स्थाने लयं गतः

॥४॥

तत्प्रभृत्येव सकले शेष इत्यभिविश्रुतः ॥

चैत्रे शुक्लत्रयोदश्यां यस्तं पूजयते नरः ॥

स पुत्रपौत्रपशुमान्वर्षं क्षेमेण गच्छति

॥५॥

मसूरिकादिरोगेभ्यः शिशूनां न भयं भवेत् ॥

विस्फोटकादिरोगेभ्यो न भयं जायते क्वचित्

॥६॥

अस्मिन्क्षेत्रे महासिद्धे सिद्धयज्ञस्तु यः स्मृतः ॥

वर्णानां सांतरालानां सर्वेषां चातिवल्लभः

॥७॥

पशुपुष्पोपहारैश्च बलिदानैः पृथग्विधैः ॥

संतुष्टिं शीघ्रमायाति शेषोऽशेषाघनाशनः

॥८॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शेषमाहात्म्यवर्णनंनामैकचत्वारिंश दुत्तरद्विशततमोऽध्यायः ॥ २४१ ॥