वृषवाहनेश्वरमाहाम्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि चतुर्थं रुद्रमुत्तमम् ॥
वृषभेश्वरनामानं कल्पलिंगं सुरप्रियम्
॥१॥बालरूपी महादेवि यत्र ब्रह्मा स्वयं स्थितः ॥
तस्यैव चोत्तरे भागे धनुषां त्रितये स्थितम्
॥२॥आद्यं महाप्रभावं हि नापुण्यो वेद मानवः ॥
तस्यैव कल्पनामानि सांप्रतं प्रब्रवीमि ते
॥३॥पूर्वकल्पे महादेवि ब्रह्मेश्वर इति स्मृतः ॥
ब्रह्मणाराधितः पूर्वं वर्षाणामयुतं प्रिये
॥४॥सृष्टिकामेन देवेन ततस्तुष्टो महेश्वरः ॥
चतुर्विधां भूतसृष्टिं ततश्चक्रे पितामहः
॥५॥ब्रह्मणस्त्वीशभावेन गतस्तुष्टिं यतो हरः ॥
तेन ब्रह्मेश्वरं नाम तस्मिँल्लिंगे पुराऽभवत्
॥६॥ततो द्वितीयकल्पे तु संप्राप्ते वरवर्णिनि ॥
रैवतेश्वरनामेति प्रख्यातं धरणीतले
॥७॥रैवतो नाम राजाऽभूद्ब्रह्मांडे सचराचरे ॥
जगद्योनिर्जिगायेदं तल्लिंगस्य प्रभावतः
॥८॥रैवतेश्वरनामाभूत्तेन लिंगं महाप्रभम् ॥
पुनस्तृतीयकल्पे तु संप्राप्ते वरवर्णिनि
॥९॥वृषभेश्वरनामाभूत्तस्य लिंगस्य भामिनि ॥
ममैव वाहनं योऽसौ धर्मोयं वृषरूपधृक्
॥१०॥तेन तत्पूजितं लिंगं दिव्याब्दानां सहस्रकम् ॥
ततस्तुष्टेन देवेशि नीतः सायुज्यतां वृषः
॥११॥तेन तल्लिंगमभवद्वृषभेशेति भूतले ॥
ततश्चतुर्थे संप्राप्ते वाराहेकल्प संज्ञिते
॥१२॥अष्टाविंशतिमे तत्र त्रेतायुगमुखे तदा ॥
इक्ष्वाकुर्नाम राजाऽभूत्सूर्यवंशविभूषणः
॥१३॥स लिंगं पूजयामास त्रिकालं भक्तिभावितः ॥
एकाहारो जिताहारो भूभिशायी जितेंद्रियः
॥१४॥एवं काले बहुविधे ततस्तुष्टो महेश्वरः ॥
ददौ राज्यं महोदग्रं संततिं पुत्र पौत्रिकीम्
॥१५॥इक्ष्वाक्वीश्वरनामाभूत्तेनेदं लिंगमुत्तमम् ॥
यस्तं पूजयते भक्त्या देवं वृषभवाहनम् ॥
सप्तजन्मकृतैः पापैर्मुच्यते नात्र संशयः ॥
त्रिंशद्धनुष्प्रमाणेन तस्य क्षेत्रचतुर्द्दिशम्
॥१७॥स्नानं जाप्यं बलिं होमं पूजां स्तोत्रमुदीरणम् ॥
तस्मिंस्तीर्थे तु यः कुर्यात्तत्सर्वं चाक्षयं भवेत्
॥१८॥चतुष्कोणांतरा क्षेत्रमेवं मात्राप्रमाणतः ॥
एकरात्रोषितो भूत्वा तस्य लिंगस्य सन्निधौ
॥१९॥ब्रह्मचर्येण जागर्त्ति स पापैः संप्रमुच्यते ॥
होमजाप्यसमाधिस्थो नृत्यगीतादिवादनैः
॥२०॥गोघ्नो वा ब्रह्महा पापी मुच्यते दुष्कृतैर्नरः ॥
यः संप्रीणयते विप्रांस्तत्र भोज्यैः पृथग्विधैः
॥२१॥एकस्मिन्भोजिते विप्रे कोटिर्भवति भोजिता ॥
भैरवं चैव केदारं पुष्करं द्रुतिजंगमम्
॥२२॥वाराणसी कुरुक्षेत्रं महा कालं च नैमिषम् ॥
एतत्तीर्थाष्टकं देवि तस्मिँल्लिंगे व्यवस्थितम्
॥२३॥माघे कृष्णचतुर्द्दश्यां तत्र यो जागृयान्निशि ॥
संपूज्य विधिना देवं स तीर्थाष्टफलं लभेत्
॥२४॥ददाति तत्र यः पिण्डं नष्टेन्दौ शिवसंनिधौ ॥
तृप्यन्ति पितरस्तस्य यावद्ब्रह्मदिनान्तकम्
॥२५॥दधिक्षीर घृतेनैव पंचगव्यकुशोदकैः ॥
कुंकुमागरुकर्पूरैस्तल्लिगं पूजयेन्निशि
॥२६॥संमंत्र्याघोरमंत्रेण ध्यात्वा देवं सदाशिवम् ॥
एवं कृत्वा महादेवि मुच्यते पंचपातकैः
॥२७॥अष्टम्यां च चतुर्द्दश्यां दध्ना संस्नापयेद्यदि ॥
स ब्राह्मणश्चतुर्वेदो जायते नात्र संशयः
॥२८॥क्षीरेण स्नापयेद्देवि यदि तं वृषभेश्वरम् ॥
सप्तधेनुसहस्राणां स फलं विंदते महत्
॥२९॥जन्मांतरेण यत्पापं सांप्रतं यत्कृतं प्रिये ॥
तत्सर्वं नाशमायाति घृतस्नानेन भामिनि
॥३०॥पंचगव्येन यो देवि स्नापयेद्वृषभेश्वरम् ॥
स दहेत्सर्वपापानि सर्वयज्ञफलं लभेत्
॥३१॥तद्दृष्ट्वा ब्रह्महा गोघ्नः स्तेयी च गुरुतल्पगः ॥
शरणागतघाती च मित्रविश्रंभघातकः
॥३२॥दुष्टपापसमाचारो मातृहा पितृहा तथा ॥
मुच्यते सर्वपापैस्तु तल्लिंगाराधनोद्यतः
॥३३॥कार्तिकं सकलं यस्तु पूजयेद्ब्रह्मणा सह ॥
ब्रह्मेश्वरं महालिंगं स मुक्तः पातकैर्भवेत्
॥३४॥तेन दत्तं भवेत्सर्वं गुरवस्तेन तोषिताः ॥
श्राद्धं कृतं गयातीर्थे तेन तप्तं महत्तपः ॥
येन देवाधिदेवोऽसौपूजितो वृषभेश्वरः
॥३५॥इति ते कथितं देवि माहात्म्यं देवपूजितम् ॥
वृषभेश्वरदेवस्य कल्पलिंगस्य भामिनि
॥३६॥यः शृणोति महादेवि माहात्म्यं दैवदेवतम् ॥
मूर्खो वा पंडितो वाऽपि स याति परमां गतिम्
॥३७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादशरुद्रमाहात्म्ये वृषवाहनेश्वरमाहाम्यवर्णनंनाम नवतितमोऽध्यायः ॥ ९० ॥