प्रभासक्षेत्रमाहात्म्येऽष्टकुलेश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि तस्माद्दक्षिणतः स्थितम् ॥
लक्ष्मणेशाच्च पूर्वस्मिँल्लिंगमष्टकुलेश्वरम्
॥१॥सर्वपापप्रशमनं महाविषप्रणाशनम् ॥
पूजितं सिद्धगन्धर्वैर्वाञ्छितार्थप्रदायकम्
॥२॥यस्तं पूजयते मर्त्यः कृष्णाष्टम्यां विधानतः ॥
स मुक्तः पातकैर्घोरैर्नागलोके महीयते
॥३॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्येऽष्टकुलेश्वरमाहात्म्यवर्णनंनाम द्विषष्ट्युत्तर शततमोऽध्यायः ॥ १६२ ॥