ततो गच्छेन्महादेवि देवेशं दैत्यसूदनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि देवेशं दैत्यसूदनम् ॥
पापघ्नं सर्वजंतूनां प्रभासक्षेत्रवासिनाम्
॥१॥अनादियुगसंस्थानं सर्व कामप्रदं शुभम् ॥
संसारसागरे घोरे स्थितं नौरिव तारणे
॥२॥अन्ये सर्वेऽपि नश्यंति कल्पांते ब्रह्मणो दिने ॥
एतानि मुक्त्वा देवेशि न्यग्रोधं सप्त कल्पगम
॥३॥कल्पवृक्षं तथाऽगारं वैडूर्यं पर्वतोत्तमम् ॥
श्रीदैत्यसूदनं देवं मार्कंडेयं महामुनिम्
॥४॥अक्षयाश्चाव्ययाश्चैते सप्तकल्पानि सुन्दरि ॥
देवि किं बहुनोक्तेन वर्णितेन पुनःपुनः
॥५॥श्रीदैत्यसूदनाद्देवि नान्यास्ति भुवि देवता ॥
यवाकारं तु तस्यैव क्षेत्रपातकनाशनम्
॥६॥सेवितं चर्षिभिः सिद्धैर्यक्षविद्याधरोरगैः ॥
तस्य सीमां प्रवक्ष्यामि विष्णुक्षेत्रस्य भामिनि
॥७॥पूर्वे यमेश्वरं यावच्छ्रीसोमेशं तु पश्चिमे ॥
उत्तरे तु विशालाक्षी दक्षिणे सरितां पतिः
॥८॥एतत्क्षेत्रं यवाकारं वैष्णवं पापनाशनम्
॥९॥अत्र क्षेत्रे मृता ये तु पापिनोऽपि नरा ध्रुवम् ॥
स्वर्गं गच्छंति ते सर्वे संतः सुकृतिनो यथा
॥१०॥अत्र दत्तं हुतं जप्तं तपस्तप्तं कृतं हि यत् ॥
तत्सर्वं चाक्षयं प्रोक्तं सप्तकल्पावधि प्रिये
॥११॥तत्रैकमपि यो देवि ब्राह्मणं भोजयिष्यति ॥
विधिना विष्णुमुद्दिश्य कोटिर्भवति भोजिता
॥१२॥तत्रोपवासं यः कुर्यान्नरो भक्तिसमन्वितः ॥
एकेनैवोपवासेन उपवासायुतं फलम् ॥
चक्रतीर्थे नरः स्नात्वा सोपवासो जितेंद्रियः
॥१३॥द्वादश्यां कार्त्तिके मासि दद्याद्विप्रेषु कांचनम् ॥
विष्णुं संपूज्य विधिवन्मुच्यते सर्वपातकैः
॥१४॥देव्युवाच
दैत्यसूदननामेति कथं तस्य प्रकीर्तितम् ॥
कस्मिन्काले तु देवेश तन्मे विस्तरतो वद
॥१५॥ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि माहात्म्यं पापनाशनम् ॥
दैत्यसूदनदेवस्य पुरा वृत्तं महोदयम्
॥१६॥देवि तस्यैव नामानि कल्पेकल्पे भवंति वै ॥
अनादिनिधनान्येव संभवन्ति पुनःपुनः
॥१७॥पूर्वकल्पे श्रिया वृत्तो वामनस्तु द्वितीयके ॥
वज्रांगस्तु तृतीये वै तुरीये कमलाप्रियः
॥१८॥पंचमे दुःखहर्त्ता च षष्ठे तु पुरुषोत्तमः ॥
श्रीदैत्यसूदनो देवः कल्पे वै सप्तमे स्मृतः
॥१९॥तस्यैव नाम चोत्पत्तिं कथयामि यथार्थतः
॥२०॥पुरा देवासुरे युद्धे दानवैर्देवकंटकैः ॥
निर्जिता देवताः सर्वे जग्मुस्ते शरणं हरिम् ॥
क्षीरोदवासिनं देवमस्तुवन्प्रणताः स्थिताः
॥२१॥देवा ऊचुः
जय देव जगन्नाथ दैत्यासुरविमर्द्दन ॥
वाराहरूपमास्थाय उद्धृता वसुधा त्वया
॥२२॥उद्धृता मत्स्यरूपेण वेदा उदधिमध्यतः ॥
कूर्मरूपी तथा भूत्वा क्षीरोदार्णवमंथनम्
॥२३॥कृत्वा त्वया जगन्नाथ उद्धृता श्रीर्नमो ऽस्तु ते ॥
श्रीपतिः श्रीधरो देव आर्त्तानामर्तिनाशनः
॥२४॥बलिर्वामनरूपेण त्वया बद्धोऽसुरारिणा ॥
हिरण्याक्षो महादैत्यो हिरण्यकशिपुर्हतः
॥२५॥नारसिंहेन रूपेण अन्तरिक्षे धृतस्त्वया ॥
देवमूल महादेव उद्धृतं भुवनं त्वया
॥२६॥त्वया विना जगन्नाथ भुवनं निष्प्रभी कृतम् ॥
सूर्येणेव तु विक्रान्तं तमोभिरिव दानवैः
॥२७॥श्रुत्वा स्तोत्रमिदं देवि विष्णुः कमललोचनः ॥
उवाच देवान्ब्रह्माद्यान्क्षीरोदार्णव बोधितः
॥२८॥भयं त्यजध्वं वै देवा दानवान्प्रति सर्वथा ॥
अचिरेणैव कालेन घातयिष्यामि दानवान्
॥२९॥एवमुक्त्वाथ तैः सार्द्धमा जगाम जनार्द्दनः ॥
दानवान्घातयामास स चक्रेण पृथक्पृथक्
॥३०॥भयार्त्ता दानवाः सर्वे पलायनपरायणाः ॥
प्रभासं क्षेत्रमासाद्य समुद्राभिमुखा भवन्
॥३१॥नश्यमानास्ततो दृष्ट्वा दैत्यान्दैत्यविनाशनम् ॥
संजघ्ने तान्स चक्रेण निःशेषान्सर्वदानवान्
॥३२॥हतेषु सर्वदैत्येषु देवब्राह्मणतापसैः ॥
कल्याणमभवत्तत्र जगत्स्वस्थमनाकुलम्
॥३३॥तत्प्रभृत्येव देवस्य दैत्यसूदननाम तत् ॥
एतन्माहात्म्यमतुलं कथितं तव सुन्दरि ॥
दैत्यसूदनदेवस्य महाभाग्यं महोदयम्
॥३४॥तं दृष्ट्वा न जडो नांधो न दरिद्रो न दुःखितः ॥
जायते सप्त जन्मानि सत्यंसत्यं वरानने
॥३५॥श्रवणद्वादशीं पुण्यां रोहिण्यां चाष्टमीं शुभाम् ॥
शयनोत्थापनीं चैव नरः कृत्वा प्रयत्नतः
॥३६॥एकैकेनोप वासेन उपवासायुतं फलम् ॥
लभते नात्र सन्देहो दैत्यसूदनसन्निधौ
॥३७॥चण्डालः श्वपचो वापि तिर्यग्योनिगतोऽपि वा ॥
प्राणत्यागे कृते तस्मिन्नाच्युतं लोकमाप्नुयात्
॥३८॥कार्तिक्यां चैव वैशाख्यां मासमेकमुपोषयेत् ॥
दैत्यसूदनमध्यस्थः सम्यक्छ्रद्धासमन्वितः
॥३९॥एकैकेनोपवासेन कोटिकोटि पृथक्पृथक् ॥
लभते तत्फलं सर्वं विष्णुक्षेत्रप्रभावतः
॥४०॥दीपं ददाति यस्तत्र मासं वा पक्षमेव वा ॥
एकैक दीपदानेन कोटिदीपफलं लभेत्
॥४१॥पंचामृतेन संस्नाप्य देवदेवं चतुर्भुजम् ॥
एकादश्यां निराहारः पूजयित्वाऽच्युतो भवेत्
॥४२॥चातुर्मास्यं विधानेन दैत्यसूदनसन्निधौ ॥
नियमेन क्षिपेद्यस्तु तस्य तुष्यति केशवः
॥४३॥अन्यक्षेत्रेषु यत्कृत्वा चातुर्मास्यानि कोटिशः ॥
तत्फलं लभते सर्वं दैत्यसूदनदर्शनात्
॥४४॥ब्रह्माण्डं सकलं दत्त्वा यत्पुण्यफलमाप्नुयात् ॥
तत्पुण्यं लभते सर्वं दैत्यसूदनदर्शनात्
॥४५॥एकादश्यां तु यस्तत्र कुरुते जागरं नरः ॥
गीतनृत्यैस्तथा वाद्यैः प्रेक्षणीयैस्तथाविधैः ॥
स याति वैष्णवं लोकं यं गत्वा न निवर्त्तते
॥४६॥हत्याऽयुतानीह सुसंचितानि स्तेयानि रुक्मस्य न सन्ति संख्या ॥
निहंति केनापि पुरा कृतानि सर्वाणि भद्रा निशि जागरेण
॥४७॥मार्गा न ते प्रेतपुरी न दूता वनं च तत्खेचरखड्गपत्रम् ॥
स्वप्ने न पश्यंति च ते मनुष्या येषां गता जागरणेन भद्रा
॥४८॥कन्यासहस्रं विधिवद्ददाति रत्नैरलंकृत्य स्वधर्मबुद्ध्या ॥
गवां सहस्रं कुरुजांगले तु तेषां परं जागरणेन विष्णोः
॥४९॥कृत्वा चैवोपवासं च योऽश्नाति द्वादशीदिने ॥
नैवेद्यं तुलसीमिश्रं हत्याकोटिविनाशनम्
॥५०॥इति ते कथितं देवि माहात्म्यं पापनाशनम् ॥
दैत्यसूदनदेवस्य किमन्यत्परिपृच्छसि
॥५१॥पीतवस्त्राणि देवस्य गां हिरण्यं च दापयेत् ॥
स्नात्वा चक्रवरे तीर्थे मुच्यते सर्वपातकात्
॥५२॥इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमेप्रभासक्षेत्रमाहात्म्ये श्रीदैत्यसूदनमाहात्म्यवर्णनंनामैकाशीतितमोऽध्यायः ॥ ८१ ॥