मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २३९

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 239

ततो गच्छेन्महादेवि हिरण्यापार्श्वतः स्थितम्

ईश्वर उवाच

ततो गच्छेन्महादेवि हिरण्यापार्श्वतः स्थितम् ॥

प्रत्युक्तं नागरादित्यं सर्वव्याधिविनाशनम्

॥१॥

पुरा सत्राजिता राज्ञा द्वारवत्यां गतेन तु ॥

आराधितो भास्करोऽभूद्यादवेन महात्मना

॥२॥

महाव्रतमुपास्थाय निघ्नपुत्रेण धीमता ॥

तस्य तुष्टस्तदा भानुः स्यमन्तकमणिं ददौ

॥३॥

स मणिः सवते नित्यं भारानष्टौ दिनेदिने ॥

(सवते- सूते) सुवर्णस्य सुशुद्धस्य भक्त्या व्रततपोयुतः

॥४॥

भूयोऽपि भानुना प्रोक्तो वरं ब्रूहि वरानने ॥

स चाह देवदेवेशं भास्करं वारितस्करम्

॥५॥

यदि तुष्टोऽसि मे देव वरदानं करोषि च ॥

अत्रैव चाश्रमे पुण्ये नित्यं संनिहितो भव

॥६॥

एवं भविष्यतीत्युक्त्वा सूर्यः सत्राजितं नृपम् ॥

अभिनंद्य वरं तस्य तत्रैवादर्शनं गतः

॥७॥

तेनापि निघ्नपुत्रेण देवदेवस्य भास्वतः ॥

स्थापिता प्रतिमा शुभ्रा तत्रैव वरवर्णिनि

॥८॥

शंखदुंदुभिनिर्घोषैर्ब्रह्मघोषैश्चपुष्कलैः ॥

ततस्तुनागरान्सर्वान्समाहूय द्विजोत्तमान् ॥

अब्रवीत्प्रणतो भूत्वा दत्त्वा वृत्तिमनुत्तमाम्

॥९॥

युष्मत्पादप्रसादेन सूर्यस्यानुग्रहेण वै ॥

साधयित्वा तपश्चोग्रं स्थापिता प्रतिमा मया

॥१०॥

इंद्रलोकादिहानीता जित्वा शक्रं सुरारिणा ॥

दशाननस्य पुत्रेण लंकायां स्थापिता पुरा

॥११॥

तं निहत्य तु रामेण लक्ष्मणानुगतेन वै ॥

अयोध्यायां समानीता सौमित्रिजयलक्षिका

॥१२॥

मित्रावरुणपुत्राय वसिष्ठाय समर्पिता ॥

तेनापि मम तुष्टेन द्वारकायां निवेदिता

॥१३॥

मयापि स्थापिता चात्र ज्ञात्वा क्षेत्रमनुत्तमम् ॥

किमत्र बहुनोक्तेन भवद्भिः सर्वथैव हि

॥१४॥

परिपाल्या प्रयत्नेन यावच्चंद्रार्कतारकम् ॥

तस्माद्युष्माकमादिष्टा प्रतिमेयं मया शुभा

॥१५॥

नागराणां तु विप्राणां सोमेशपुरवासिनाम् ॥

तस्मान्नाम मया दत्तं नागरादित्यमेव हि

॥१६॥

ब्राह्मणा ऊचुः

सर्वमेव करिष्यामो देवस्य परिपालनम् ॥

यावन्मही च चंद्रार्कौ यावत्तिष्ठति सागरः ॥

तावत्ते ह्यक्षया कीर्तिः स्थाने चास्मिन्भविष्यति

॥१७॥

एवमुक्त्वा तु ते सर्वे नागरा द्विजपुंगवाः ॥

राजापि तुष्टः प्रययौ तदा द्वारवतीं पुरीम्

॥१८॥

ईश्वर उवाच

शृणु देवि प्रवक्ष्यामि तस्मिन्दृष्टे तु यत्फलम् ॥

गोशतस्य प्रयागेषु सम्यग्दत्तस्य यत्फलम् ॥

तत्फलं समवाप्नोति नागरार्कस्य दर्शनात्

॥१९॥

दारिद्र्यदुःखशोकार्त्तेः कोन्योस्ति हरणक्षमः ॥

प्रभासे पावने क्षेत्रे मुक्त्वा नागरभास्करम्

॥२०॥

बंधकुष्ठादिकं दुःखं ये भजंत्यल्पबुद्धयः ॥

तत्र ते नैव जानंति वैद्यं नागरभास्करम्

॥२१॥

स्नात्वा हिरण्यातोयेन यस्तं पूजयते नरः ॥

कल्पकोटिसहस्राणि सूर्यलोके महीयते

॥२२॥

शुक्लपक्षे तु सप्तम्यां यदा संक्रमते रविः ॥

महाजया तदा ख्याता सप्तमी भास्करप्रिया

॥२३॥

स्नानं दानं जपो होमः पितृदेवाभिपूजनम् ॥

सर्वं कोटिगुणं प्रोक्तं भास्करस्यवचो यथा

॥२४॥

एकं यो भोजयेत्तत्र ब्राह्मणं सूर्यसंनिधौ ॥

कोटिभोज्यं कृतं तेन इत्याह भगवान्हरिः

॥२५॥

एतन्मया ते कथितं पुरा नोक्तं वरानने ॥

यः शृणोति नरो भक्त्या स गच्छेद्भास्करं पदम्

॥२६॥

सूर्यस्य देवि नामानि रहस्यानि शृणुश्व मे ॥

अलं नामसहस्रेण पठस्वैनं शुभं स्तवम्

॥२७॥

विकर्त्तनो विवस्वांश्च मार्त्तंडो भास्करो रविः ॥

लोकप्रकाशकः श्रीमाँल्लोकचक्षुर्ग्रहेश्वरः

॥२८॥

लोकसाक्षी त्रिलोकेशः कर्त्ता हर्त्ता तमिस्रहा ॥

तपनस्तापनश्चैव शुचिः सप्ताश्ववाहनः

॥२९॥

गभस्तिहस्तो ब्रह्मा च सर्वदेवनमस्कृतः ॥

एकविंशक इत्येष नागरार्कस्तवः स्मृतः

॥३०॥

स्तवराज इति ख्यातः शरीरारोग्यवृद्धिदः

॥३१॥

य एतेन महादेवि द्वे संध्येऽस्तमनोदये ॥

नागरार्कं तु संस्तौति स लभेद्वांछितं फलम्

॥३२॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां सहितायां सप्तमे प्रभासखंडे प्रथमे प्रभासक्षेत्रमाहात्म्ये नागरार्कमाहात्म्यवर्णनंनामैकोनचत्वारिंशदुत्तरद्विशततमो ऽध्यायः ॥ २३९ ॥