मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ९३

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 93

महाकालेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेद्वरारोहे महाकालेश्वरं हरम् ॥

अघोरेशादुत्तरतः किंचिद्वायव्यसंस्थितम्

॥१॥

धनुषां त्रिंशता देवि श्रुतं पातकनाशनम् ॥

पूर्वं कृतयुगे देवि स्मृतं चित्रांगदेश्वरम्

॥२॥

महाकालेश्वरं देवि कलौ नाम प्रकीर्तितम् ॥

कालरूपी महारुद्रस्तस्मिँल्लिंगे व्यवस्थितः

॥३॥

चराचरगुरुः साक्षाद्देवदानवदर्पहा ॥

सूर्यरूपेण यत्सर्वं ब्रह्मांडे ग्रसते प्रिये

॥४॥

स देवः संस्थितो देवि तस्मिँल्लिंगे महाप्रभः ॥

यस्तत्पूजयते भक्त्या कल्ये लिंगं मम प्रियम् ॥

षडक्षरेण मंत्रेण मृत्युं जयति तत्क्षणात्

॥५॥

कृष्णाष्टम्यां विशेषेण गुग्गुलं घृतसंयुतम् ॥

यो दहेद्विधिवत्तत्र पूजां कृत्वा निशागमे

॥६॥

अपराधसहस्रं तु क्षमते तस्य भैरवः ॥

धेनुदानं प्रशंसंति तस्मिन्स्थाने महर्षयः

॥७॥

धेनुदस्तारयेन्नूनं दश पूर्वान्दशापरान् ॥

देवस्य दक्षिणे भागे यो जपेच्छतरुद्रियम्

॥८॥

उद्धरेत्पितृवर्गं च मातृवर्गं च मानवः ॥

बाल्ये वयसि यत्पापं वार्द्धके यौवनेऽपि वा ॥

क्षालयेच्चैव तत्सर्वं दृष्ट्वा कालेश्वरं हरम्

॥९॥

अयने चोत्तरे प्राप्ते यः कुर्याद्घृतकंबलम् ॥

न स भूयोऽत्र संसारे जन्म प्राप्नोति दारुणम्

॥१०॥

न दुःखितो दरिद्रो वा दुर्भगो वा प्रजायते ॥

सप्तजन्मान्तराण्येव महाकालेशदर्शनात्

॥११॥

धनधान्यसमायुक्ते स्फीते सञ्जायते कुले ॥

भक्तिर्भवति भूयोऽपि महाकालेश्वरार्चने

॥१२॥

इति संक्षेपतः प्रोक्तं महाकालेश्वरं प्रिये ॥

चित्रांगदो गणो देवि तेन चाराधितं पुरा

॥१३॥

दिव्याब्दानां सहस्रं तु महा कालेश्वरं हि तत् ॥

चित्रांगदेश्वरं नाम तेन ख्यातं धरातले

॥१४॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभास खंडे प्रथमे प्रभासक्षेत्रमाहात्म्य एकादशरुद्रमाहात्म्ये महाकालेश्वरमाहात्म्यवर्णनंनाम त्रिणवतितमोऽध्यायः ॥ ९३ ॥