इत्याश्चर्यमिदं देव त्वत्तः सर्वं मया श्रुतम्
देव्युवाच
इत्याश्चर्यमिदं देव त्वत्तः सर्वं मया श्रुतम् ॥
महिमानं महेशस्य विस्तरेण समुद्भवम् ॥
सांप्रतं सोमनाथस्य यथावद्वक्तुमर्हसि
॥१॥विधिना केन दृश्योसौ यात्रा कार्या कथं नृभिः ॥
कस्मिन्काले महादेव नियमाश्चैव कीदृशाः
॥२॥ईश्वर उवाच
हेमन्ते शिशिरे वापि वसन्ते वाथ भामिनि ॥
यदा च जायते चित्तं वित्तं वा पर्व वा भवेत्
॥३॥तदैव यात्रा कर्त्तव्या भावस्तत्रैव कारणम् ॥
कृत्वा तु नियमं कंचित्स्वगृहे वरवर्णिनि
॥४॥प्रणम्य मनसा रुद्रं कृत्वा श्राद्धं यथाविधि ॥
स्थानं प्रदक्षिणं कृत्वा वाग्यतः सुसमाहितः
॥५॥नियतो नियताहारो गच्छेच्चैव ततः पथि ॥
कामक्रोधौ परित्यज्य लोभमोहौ तथैव च
॥६॥ईर्ष्यामत्सरलौल्यं च यात्रा कार्या ततो नृभिः ॥
तीर्थानुगमनं पुण्यं यज्ञेभ्योऽपि विशिष्यते
॥७॥अग्निष्टोमादियज्ञैश्च इष्ट्वा विपुलदक्षिणैः ॥
तत्तत्फलमवाप्नोति तीर्थानुगमनेन यत्
॥८॥कलेर्युगं महाघोरं प्राप्य पापसमन्वितम् ॥
नान्येनाऽस्मिन्नुपायेन धर्म्मः स्वर्गश्च लभ्यते ॥
विना यात्रां महादेवि सोमेशस्य न संशयः
॥९॥ये कुर्वंति नरा यात्रां शुचिश्रद्धासमन्विताः ॥
कलौ युगे कृतार्थास्ते ये त्वन्ये ते निरर्थकाः
॥१०॥यथामहोदधेस्तुल्यो न चान्योऽस्ति जलाशयः ॥
तथा प्राभासिकात्क्षेत्रात्समं तीर्थं न विद्यते
॥११॥अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च ॥
अदत्त्वा कांचनं गाश्च दरिद्रोनाम जायते
॥१२॥यन्यगम्यानि तीर्थानि दुर्गाणि विषमाणि च ॥
मनसा तानि गम्यानि सर्वतीर्थगतीप्सुना
॥१३॥यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ॥
विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते
॥१४॥नियतो नियताहारः स्नान।
जाप्यपरायणः ॥
व्रतोपवासनिरतः स तीर्थफलमश्नुते
॥१५॥अक्रोधनश्च देवेशि सत्यशीलो दृढव्रतः ॥
आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते
॥१६॥कुरुक्षेत्रादितीर्थानि रथगम्यानि यानि तु ॥
तान्येव ब्राह्मणो यायादानदोषो न तेषु वै
॥१७॥ये साधवो धनोपेतास्तीर्थानां स्मरणे रताः ॥
तीर्थे दानाच्च योगाच्च तेषामभ्यधिकं फलम्
॥१८॥ये दरिद्रा धनैर्हीनास्तीर्थानुगमनेरताः ॥
तेषां यज्ञफलावाप्तिर्विनापि धनसंचयैः
॥१९॥सर्वेषामेव वर्णानां सर्वाश्रमनिवासिनाम् ॥
तीर्थं तु फलदं ज्ञेयं नात्र कार्या विचारणा
॥२०॥कार्यांतरेण यो गत्वा स्नानं तीर्थे समाचरेत् ॥
न च यात्राफलं तस्य स्नानमात्रं फलं भवेत्
॥२१॥तीर्थानुगमनं पद्भ्यां तपःपरमिहोच्यते ॥
तदेव कृत्वा यानेन स्नानमात्रफलं लभेत्
॥२२॥यस्यान्यः कुरुते शक्त्या तीर्थयात्रां तथेश्वरि ॥
स्वकीयद्रव्ययानाभ्यां फलं तस्य चतुर्गुणम्
॥२३॥तीर्थानुगमनं कृत्वा भिक्षाहारा जितेंद्रियाः ॥
प्राप्नुवंति महादेवि तीर्थे दशगुणं फलम्
॥२४॥छत्रोपानद्विहीनस्तु भिक्षाशी विजितेंद्रियः ॥
महापातकजैर्घोरैर्विप्रः पापैः प्रमुच्यते
॥२५॥न भैक्षं परपाकं तु न च भैक्ष्यं प्रतिग्रहम् ॥
सोमपानसमं भैक्ष्यं तस्माद्भैक्षं समाचरेत्
॥२६॥लोकेऽस्मिन्द्विविधं तीर्थं स्वच्छ न्दैर्निर्म्मितं तथा ॥
स्वयंभूतं प्रभासाद्यं निर्मितं दैवतैः कृतम्
॥२७॥स्वयंभूते महातीर्थे स्वभावे च महत्तरे ॥
तस्मिंस्तीर्थे प्रतिगृह्य कृताः सर्वे प्रतिग्रहाः
॥२८॥प्रतिग्रहनिवृत्तस्य यात्रादशगुणं फलम् ॥
तेन दत्तानि दानानि यज्ञैर्देवाः सुतर्पिताः
॥२९॥येन क्षेत्रं समासाद्य निवृत्तिः परमा कृता ॥
वस्तुलौल्याद्धि यः क्षेत्रे प्रतिग्रहरुचिस्तथा
॥३०॥नैव तस्य परोलोको नायं लोको दुरात्मनः ॥
अथ चेत्प्रतिगृह्णाति ब्राह्मणो वृत्तिदुर्बलः ॥
दशांशमर्जिताद्दद्यादेवं तत्र न हीयते
॥३१॥विप्रवेषं समास्थाय शूद्रो भूत्वा प्रतिग्रहम् ॥
तृणकाष्ठसमं वापि प्रतिगृह्य पतत्यधः
॥३२॥कुम्भीपाकादिकेष्वेवं महानरककोटिषु ॥
यावदिंद्रसहस्राणि चतुर्द्दश वरानने
॥३३॥तस्मान्नैव प्रतिग्राह्यं किमन्यैर्ब्राह्मणैरपि ॥
द्विप्रकारस्य तीर्थस्य कृतस्याप्यकृतस्य च
॥३४॥स्वकीयभावसंयुक्तः संपूर्णं फलमश्नुते ॥
लभते षोडशांशं स यः परान्नेन गच्छति
॥३५॥अशक्तस्य तथांधस्य पंगोर्यायावरस्य च ॥
विहितं कारणायानमच्छिद्रे ब्राह्मणे कुतः
॥३६॥स्नानखादनपानैश्च वोढृभ्यस्तीर्थसेवकः ॥
ददत्सकलमाप्नोति फलं तीर्थसमुद्भवम्
॥३७॥न षोडशांशं यत्नेन लब्धार्थं यदि यच्छति ॥
पंचमांशमथो वापि दद्यात्तत्र द्विजातिषु
॥३८॥देवतानां गुरूणां च मातापित्रोश्च कामतः ॥
पुण्यदः समवाप्नोति तदेवाष्टगुणं फलम्
॥३९॥स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् ॥
पुण्यं देयं तु सर्वत्र नापुण्यं दीयते क्वचित्
॥४०॥पितरं मातरं तीर्थे भ्रातरं सुहृदं गुरुम् ॥
यमुद्दिश्य निमज्जेत द्वादशांशं लभेत सः
॥४१॥कुशैस्तु प्रतिमां कृत्वा तीर्थवारिषु मज्जयेत् ॥
यमुद्दिश्य महादेवि अष्टभागं लभेत सः
॥४२॥महादानानि ये विप्रा गृह्णन्ति ज्ञानदुर्बलाः ॥
वृक्षास्ते द्विजरूपेण जायंते ब्रह्मराक्षसाः
॥४३॥न वेदबलमाश्रित्य प्रतिग्रहरुचिर्भवेत् ॥
अज्ञानाद्वा प्रमादाद्वा दहते कर्म नेतरत्
॥४४॥चितिकाष्ठं तु वै स्पृष्ट्वा यज्ञयूपं तथैव च ॥
वेदविक्रयिणं स्पृष्ट्वा स्नानमेव विधीयते
॥४५॥आदेशं पठते यस्तु आदेशं तु ददाति यः ॥
द्वावेतौ पापकर्माणौ पातालतलवासिनौ
॥४६॥आदेशं पठते यस्तु संजिघृक्षुः प्रतिग्रहम् ॥
तीर्थे चैव विशेषेण ब्रह्मघ्नः सैव नेतरः ॥
स्थितो वै नृपतेर्द्वारि न कुर्याद्वेदविक्रयम्
॥४७॥हत्वा गावो वरं मांसं भक्षयीत द्विजाधमः ॥
वरं जीवन्समं मत्स्यैर्न कुर्याद्वेदविक्रयम् ॥
ब्रह्महत्यासमं पापं न भूतं न भविष्यति
॥४८॥वरं कुर्याच्च तद्देवि न कुर्याद्वेदविक्रयम् ॥
तीर्थे चैव विशेषेण महाक्षेत्रे तथैव च
॥४९॥दीयमानं तु वै दानं यस्त्यजेत्तीर्थसेवकः ॥
तीर्थं करोति तीर्थं च स पुनाति च पूर्वजान्
॥५०॥यदन्यत्र कृतं पापं तीर्थे तद्याति लाघवम् ॥
न तीर्थकृतमन्यत्र क्वचिदेव व्यपोहति
॥५१॥तैलपात्रमिवात्मानं यो रक्षेत्तीर्थसेवकः ॥
स तीर्थफलमस्कन्नं विप्रः प्राप्नोति संयतः
॥५२॥यस्ययस्यात्ति पक्वान्नमल्पं वा यदि वा बहु ॥
तीर्थगस्तस्य तस्यार्धं स्नातस्य विनियच्छति
॥५३॥यो न क्लिष्टोपि भिक्षेत ब्राह्मण स्तीर्थसेवकः ॥
सत्यवादी समाधिस्थः स तीर्थस्योपकारकः
॥५४॥कृते युगे पुष्कराणि त्रेतायां नैमिषं तथा ॥
द्वापरे तु कुरुक्षेत्रं प्राभासिकं कलौयुगे
॥५५॥तिष्ठेद्युगसहस्रंतुपादेनैकेन यः पुमान् ॥
प्रभासयात्रामेको वा समं भवति वा न वा
॥५६॥एतत्क्षेत्रं समागत्य मध्यभागे वरानने ॥
यानानि तु परित्यज्य भाव्यं पादचरैर्नरैः
॥५७॥लुठित्वा लोठनीं तत्र लुठिता यत्र देवताः ॥
ततो नृत्यन्हसन्गायन्भूत्वा कार्पटिका कृतिः ॥
गच्छेत्सोमेश्वरं देवं दृष्ट्वा चादौ कपर्द्दिनम्
॥५८॥ईदृशं पुरुषं दृष्ट्वा स्थितं सोमेश्वरोन्मुखम् ॥
नित्यं तुष्यंति पितरो गर्जंति च पिता महाः
॥५९॥अस्माकं वंशजो देवं प्रस्थितस्तारणाय नः ॥
गत्वा सोमेश्वरं देवि कुर्याद्वपनमादितः
॥६०॥तीर्थोपवासः कर्त्तव्यो यथावद्वै निबोध मे ॥
नास्ति गंगासमं तीर्थं नास्ति क्रतुसमा गतिः
॥६१॥गायत्रीसदृशं जाप्यं होमो व्याहृतिभिः समः ॥
अंतर्जले तथा नास्ति पापघ्नमघमर्षणात्
॥६२॥अहिंसासदृशं पुण्यं दानात्संचयनं परम् ॥
तपश्चानशनान्नास्ति तथा तीर्थनिषेवणात्
॥६३॥तीर्थोपवासाद्देवेशि अधिकं नास्ति किञ्चन ॥
पापानां चोपशमनं सतामीप्सितकारकम्
॥६४॥उपवासो विनिर्द्दिष्टो विशेषाद्देवताश्रये ॥
ब्राह्मणस्य त्वनशनं तपः परमिहोच्यते
॥६५॥षष्ठकालाशनं शूद्रे तपः प्रोक्तं परं बुधैः ॥
वर्णसंकरजातानां दिनमेकं प्रकीर्तितम्
॥६६॥षष्ठकालात्परं शूद्रस्तपः कुर्याद्यथा क्वचित् ॥
राष्ट्रहानिस्तदा ज्ञेया राज्ञश्चोपद्रवो महान्
॥६७॥शूद्रस्तु षष्ठकालाशी यथाशक्त्या तपश्चरेत् ॥
न दर्भानुद्धरेच्छूद्रो न पिबेत्कापिलं पयः
॥६८॥मध्यपत्रे न भुञ्जीत ब्रह्मवृक्षस्य भामिनि ॥
नोच्चरेत्प्रणवं मंत्रं पुरोडाशं न भक्षयेत्
॥६९॥न शिखां नोपवीतं च नोच्च रेत्संस्कृतां गिरम् ॥
न पठेद्वेदवचनं त्रैरात्रं न हि सेवयेत्
॥७०॥नमस्कारेण शूद्रस्य क्रियासिद्धिर्भवेद्ध्रुवम् ॥
निषिद्धाचरणं कुर्वन्पितृभिः सह मज्जति
॥७१॥येनैकादशसंख्यानि यंत्रितानींद्रियाणि वै ॥
स तीर्थफलमाप्नोति नरोऽन्यः क्लेशभाग्भवेत्
॥७२॥यच्च तीर्थे पितृश्राद्धं स्नानं तत्र समाचरेत् ॥
हितकारी च भूतेभ्यः सोऽश्नीयात्तीर्थजं फलम्
॥७३॥धर्मध्वजी सदा लुब्धः परदाररतो हि यः ॥
करोति तीर्थगमनं स नरः पातकी भवेत्
॥७४॥एवं ज्ञात्वा महादेवि यात्रां कुर्याद्यथाविधि ॥
तीर्थोपवासं कृत्वादौ श्रद्धायुक्तो दृढव्रतः
॥७५॥भोजनं नैव कुर्वीत यदी च्छेद्धितमात्मनः ॥
परान्नं नैव भुञ्जीत तद्दिने ब्राह्मणः क्वचित्
॥७६॥हस्त्यश्वरथयानानि भूमिगोकांचनादिकम् ॥
सर्वं तत्परिगृह्णीयाद्भोजनं न समाचरेत्
॥७७॥आमाच्छतगुणं पुण्यं भुञ्जतो ददतोऽपि वा ॥
तीर्थोपवासं कुर्वीत तस्मात्तत्र वरानने
॥७८॥व्रती च तीर्थयात्री च विधवा च विशेषतः ॥
परान्नभोजने देवि यस्यान्नं तस्य तत्फलम्
॥७९॥विधवा चैव या नारी तस्या यात्राविधिं ब्रुवे ॥
कुंकुमं चन्दनं चैव तांबूलं च स्रजस्तथा
॥८०॥रक्तवस्त्राणि सर्वाणि शय्या प्रास्तरणानि च ॥
अशिष्टैः सह संभाषो द्विवारं भोजनं तथा
॥८१॥पुंसां प्रदर्शनं चैव हास्यं तमसि वर्जयेत् ॥
सशब्दोपानहौ चैव नृत्यं गतिं च वर्जयेत्
॥८२॥धारणं चैव केशानामंजनं च विलेपनम् ॥
असतीजनसंसर्गं पांडित्यं च परित्यजेत्
॥८३॥नित्यं स्नानं च कुर्वीत श्वेतवस्त्राणि धारयेत् ॥
यतिश्च ब्रह्मचारी च विधवा च विशेषतः
॥८४॥तांबूलं मधु मांसं च सुरापानसमं विदुः ॥
एतेषां वर्ज्जनाद्देवि सम्यग्यात्राफलं लभेत्
॥९५॥देव्युवाच
तपांसि कानि कथ्यन्ते क्षेत्रे प्राभा सिके नरैः ॥
कानि दानानि दीयन्ते केषु तीर्थेषु वा कथम्
॥८६॥ईश्वर उवाच
तपः परं कृतयुगे त्रेतायां ज्ञानमिष्यते ॥
द्वापरे यजनं धन्यं दानमेकं कलौ युगे
॥८७॥तपस्तप्यन्ति मुनयः कृच्छ्रचान्द्रायणादिकम् ॥
गत्वा प्राभासिकं क्षेत्रं लोकाश्चान्ये कृते युगे
॥८८॥कलौ दानानि दीयन्ते ब्राह्मणेभ्यो यथाविधि ॥
प्रभासं क्षेत्रमासाद्य तपसां प्राप्यते फलम्
॥८९॥तुलापुरुषब्रह्माण्डपृथिवीकल्पपादपाः ॥
हिरण्य कामधेनुश्च गजवाजिरथास्तथा
॥९०॥रत्नधेनुहिरण्याश्वसप्तसागर एव च ॥
महाभूतघटो विश्वचक्रकल्पलताभिधः
॥९१॥प्रभासे नृपतिर्दद्या न्महादानानि षोडश ॥
धान्यरत्नगुडस्वर्णतिलकार्पासशर्कराः
॥९२॥सर्पिर्लवणरूप्याख्या दशैते पर्वताः स्मृताः ॥
गुडाज्यदधिमध्वंबुसलिल क्षीरशर्कराः ॥
रत्नाख्याश्च स्वरूपेण दशैता धेनवो मताः
॥९३॥तेषामेकतमं दानं तीर्थेतीर्थे पृथक्पृथक् ॥
प्रदेयान्येकवारं वा सरस्वत्यब्धि संगमे
॥९४॥सर्वस्वं चातिविदुषे गृहं वा सपरिच्छदम् ॥
बह्वल्पमपि विप्रेभ्यो दातव्यं प्रियमेलके
॥९५॥यत्र तीर्थे लभेल्लिंगं तीर्थं च विमलोदकम् ॥
तत्राग्निकार्यं कृत्वादौ विशिष्टं दानमिष्यते
॥९६॥तर्पणं पितृदेवानां श्राद्धं दानं सदक्षिणम् ॥
तीर्थेतीर्थे च गोदानं नियतः प्रकृतो विधिः
॥९७॥विशिष्टख्यातलिंगेषु वृषदानं विधीयते ॥
स्नानं विलेपनं पूजां देवतानां समाचरेत्
॥९८॥जगतीं चार्चयेद्भक्त्या तथा चैवोपलेपयेत् ॥
प्रासादं धवलं सौधं कारयेज्जीर्णमुद्धरेत्
॥९९॥पुष्पवाटीं स्नानकूपं निर्मलं कारयेद्व्रती ॥
ब्राह्मणानां भूरिदानं देवपूजाकराय च
॥१००॥सर्वत्र देवयात्रायां विधिरेष प्रवर्त्तते ॥
तीर्थमभ्युद्धरेज्जीर्णं मार्जयेत्कथयेत्फलम्
॥१०१॥प्रसिद्धे च महादानं मध्यमे चैव मध्यमम् ॥
गोदानं सर्वतीर्थेषु सुवर्णमथ निष्क्रयः ॥
हिरण्यदानं सर्वेषां दानानामेव निष्कृतिः
॥१०२॥एवं कृत्वा नरो भक्त्या लभते जन्मनः फलम् ॥
तीर्थेषु दानं वक्ष्यामि येषु यद्दीयते तिथौ
॥१०३॥प्रभासे प्रतिपद्दानं दातव्यं कांचनं शुभम् ॥
द्वितीयायां तथा वस्त्रं तृतीयायां च मेदिनीम्
॥१०४॥चतुर्थ्यां दापयेद्धान्यं पंचम्यां कपिलां तथा ॥
षष्ठ्यामश्वं च सप्तम्यां महिषीं तत्र दापयेत्
॥१०५॥अष्टम्यां वृषभं दत्त्वा नीलं लक्षणसंयुतम् ॥
नवम्यां तु गृहं दद्याच्चक्रं शंखं गदां तथा
॥१०६॥दशम्यां सर्वगंधांश्च एकादश्यां च मौक्तिकम् ॥
द्वादश्यां सुव्रतेन्नाद्यं प्रवालं विधिवत्तथा
॥१०७॥स्त्रियो देयास्त्रयोदश्यां भूतायां ज्ञानदो भवेत् ॥
अमावास्यामनुप्राप्य सर्वदानानि दापयेत्
॥१०८॥एवं दानं प्रदत्त्वा तु दश कृत्वः फलं लभेत्
॥१०९॥देव्युवाच
भक्तिदानविहीना ये प्रभासं क्षेत्रमागताः ॥
स्नानमन्त्रविहीनाश्च वद तेषां तु किं फलम्
॥११०॥ईश्वर उवाच
सधना निर्द्धना वापि समंत्रा मंत्रवर्जिताः ॥
प्रभासे निधनं प्राप्ताः सर्वे यांति शिवालयम्
॥१११॥ये मंत्रहीनाः पुरुषा धर्महीनाश्च ये मृताः ॥
तेषामेकं विमानं तु ददामि सुमहत्प्रिये
॥११२॥स्नानदानानुरूप्येण प्राप्नुवंति परं पदम् ॥
केचित्स्नानप्रभावेन केचिद्दानेन मानवाः
॥११३॥केचिल्लिंगप्रणामेन केचिल्लिंगार्च्चनेन च ॥
केचिद्ध्यानप्रभावेन केचिद्योगप्रभावतः
॥११४॥केचिन्मं त्रस्य जाप्येन केचिच्च तपसा शुभे ॥
तीर्थे संन्यसनैः केचित्केचिद्भक्त्यनुसारतः
॥११५॥एते चान्ये च बहव उत्तमाधममध्यमाः ॥
सर्वे शिवपुरं यांति विमानैः सूर्यसंनिभैः
॥११६॥त्रिशूलांकितहस्ताश्च सर्वे च वृषवाहनाः ॥
दिव्याप्सरोगणाकीर्णाः क्रीडंते मत्प्रभावतः
॥११७॥एवं भक्त्यनुसारेण ददामि फलमव्ययम् ॥
अलेपकं प्रभासं तु धर्माधर्मैर्न लिप्यते
॥११८॥धर्मं चरंत्यधर्मं वा शिवं यांति न संशयः
॥११९॥जन्मप्रभृति यो देवि नरो नेत्रविवर्जितः ॥
मम क्षेत्रे मृतः सोऽपि रुद्रलोके महीयते
॥१२०॥जन्मप्रभृति यो देवि श्रवणाभ्यां विवर्जितः ॥
प्रभासे निधनं प्राप्तः स भवेन्मत्परिग्रहः
॥१२१॥अथातः संप्रवक्ष्यामि तीर्थानां स्पर्शने विधिम् ॥
मन्त्रेण मंत्रितं तीर्थं भवेत्संनिहितं तथा
॥१२२॥प्रथमं चालभेत्तीर्थं प्रणवेन जलं शुचि ॥
अवगाह्य ततः स्नायादध्यात्ममन्त्रयोगतः
॥१२३॥ओंनमो देवदेवाय शितिकण्ठाय दंडिने ॥
रुद्राय वामहस्ताय चक्रिणे वेधसे नमः
॥१२४॥सरस्वती च सावित्री वेदमाता विभावरी ॥
संनिधानं कुरुष्वात्र तीर्थे पाप प्रणाशिनि ॥
सर्वेषामेव तीर्थानां मंत्र एष उदाहृतः
॥१२५॥इत्युच्चार्य नमस्कृत्वा स्नानं कुर्याद्यथाविधि ॥
उपवासं ततः कुर्यात्तस्मिन्नहनि सुव्रते
॥१२६॥सा तिथिर्वर्षमेकं तु उपोष्या भक्तितत्परैः
॥१२७॥देव्युवाच
कस्मिंस्तीर्थे नरैः पूर्वं प्रभासक्षेत्रमागतैः ॥
स्नानं कार्यं महादेवि तन्मे विस्तरतो वद
॥१२८॥ईश्वर उवाच
हंत ते संप्रवक्ष्यामि आद्यं तीर्थं महाप्रभम् ॥
पूर्वं यत्र नरैः स्नानं क्रियते तच्छृषुष्व मे
॥१२९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये तीर्थयात्रा विधानवर्णनंनामाष्टाविंशोऽध्यायः ॥ २८ ॥