गंगामाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि गंगां त्रिपथगामिनीम् ॥
संगालेशादथैशान्यां धनुषां सप्तके स्थिताम्
॥१॥तस्यां त्रिनेत्रा मत्स्याः स्युर्नित्यमांभसिकाः प्रिये ॥
कलौयुगेऽपि दृश्यंते सत्यंसत्यं मयोदितम्
॥२॥तस्यां स्नात्वा महादेवि मुच्यते पञ्चपातकैः
॥३॥सूत उवाच
तस्य तद्वचनं श्रुत्वा विस्मिता गिरिजा सती ॥
उवाच तं द्विजश्रेष्ठाः प्रचलच्चंद्रशेखरम्
॥४॥पार्वत्युवाच
कथं तत्र समायाता गंगा त्रिपथगामिनी ॥
कथं त्रिनेत्राः संजाता मत्स्या आंभसिकाः शिव
॥५॥एतद्विस्तरतो ब्रूहि यद्यहं ते प्रिया विभो
॥६॥ईश्वर उवाच
शृणु देवि प्रवक्ष्यामि यदि पृच्छसि मां शुभे ॥
आस्तिकाः श्रद्दधानाश्च भवंतीति मतिर्मम
॥७॥यदा शप्तो महादेवो ह्यज्ञानतिमिरावृतैः ॥
ऋषिभिः कोपयुक्तैश्च कस्मिंश्चित्कारणांतरे
॥८॥तदा ते मुनयः सर्वे शप्तं ज्ञात्वा महेश्वरम् ॥
निरानंदं जगत्सर्वं दृष्ट्वा चात्मानमेव च
॥९॥आराध्य परमेशानं दधतं गजरूपकम् ॥
उन्नतं स्थानमानीय सानंदं चक्रिरे द्विजाः
॥१०॥ततः प्रभृति सर्वे ते शिवद्रोहकरं परम् ॥
आत्मानं मेनिरे नित्यं प्रसन्नेऽपि महेश्वरे
॥११॥महोदयान्महातीर्थं सर्व आगत्य सत्वरम् ॥
तपस्तेपुर्महाघोरं संगालेश्वरसन्निधौ
॥१२॥संगालेश्वरनामानं सर्वे पूज्य यथाविधि ॥
भृगुरत्रिस्तथा मंकिः कश्यपः कण्व एव च
॥१३॥गौतमः कौशिकश्चैव कुशिकश्च महातपाः ॥
शूकरोऽथ भरद्वाजो भार्गविश्च महातपाः
॥१४॥जातूकर्ण्यो वसिष्ठश्च सावर्णिश्च पराशरः ॥
शांडिल्यश्च पुलस्त्यश्च वत्सश्चैव महातपाः
॥१५॥एते चान्ये च बहवो ह्यसंख्याता महर्षयः
॥१६॥संगालेश्वरमासाद्य प्रभासे पापनाशने ॥
तपः कुर्वंति सततं प्रतिष्ठाप्य महेश्वरम्
॥१७॥ततः कालेन महता ते सर्वे मुनिपुंगवाः ॥
ध्यानात्त्रिलोचनस्यैव अदृष्टे तु महेश्वरे
॥१८॥त्रिनेत्रत्वमनुप्राप्तास्तपोनिष्ठास्तपोधनाः ॥
परस्परं वीक्षमाणास्त्रिनेत्रस्याभिशंकया
॥१९॥स्तुवंति विविधैः स्तोत्रैर्मन्यमाना महेश्वरम् ॥
ज्ञात्वा ध्यानेन देवस्य त्रिनेत्रत्वमुपागताः
॥२०॥चकुरुग्रं तपस्ते तु पूजां देवस्य शूलिनः ॥
तेषु वै तप्यमानेषु कृपाविष्टो महेश्वरः
॥२१॥उवाच तान्मुनीन्सर्वाञ्छृणुध्वं वरमुत्तमम् ॥
प्रसन्नोऽहं मुनिश्रेष्ठास्तपसा पूजयापि च
॥२२॥ऋषय ऊचुः
यदि प्रसन्नो देवेश वरं नो दातुमर्हसि ॥
गंगामानय वेगेन ह्यभिषेकाय नो हर
॥२३॥तस्यां कृताभिषेकास्तु तव द्रोहकरा वयम् ॥
अज्ञानभावात्पूतत्वं यास्यामः पृथिवीतले
॥२४॥ईश्वर उवाच
यूयं पवित्रकरणाः पावनानां च पावनाः ॥
गंगां चैवानयिष्यामि युष्माकं चित्ततुष्टये
॥२५॥पावित्र्याद्भवतां जातं त्रैनेत्र्यं मुनिसत्तमाः ॥
एवमुक्त्वा ततः शंभुर्ध्यानस्तिमितलोचनः ॥
सस्मार क्षणमात्रेण गंगां मीनकुलावृताम्
॥२६॥स्मृतमात्रा तदा देवी गंगा त्रिपथगामिनी ॥
भित्वा भूमितलं प्राप्ता तत्र मीनकुलावृता
॥२७॥ऋषिभिश्च यदा दृष्टा गंगा मीनयुता शुभा ॥
दृष्टमात्रास्तु ते मत्स्यास्त्रिनेत्रत्वमुपागताः
॥२८॥ईश्वर उवाच
युष्माकं दर्शनाद्विप्रास्त्रिनेत्रत्वमुपागताः ॥
एतन्निदर्शनं सर्वं लोकानां च प्रदर्शनम्
॥२९॥ऋषय ऊचुः
अस्मिन्कुंडे महादेव मत्स्यानां संततिः सदा ॥
त्रिनेत्रा त्वत्प्रसादेन भूयात्सर्वा युगेयुगे
॥३०॥अस्मिन्कुंडे समागत्य नरः स्नानं करोति यः ॥
ददाति हेम विप्राय गाश्च वस्त्रं तथा तिलान्
॥३१॥अमावास्यां विशेषेण त्रिनेत्रः स प्रजायताम् ॥
एवं भविष्यतीत्युक्त्वा ह्यन्तर्धानं गतो हरः
॥३२॥ब्राह्मणास्तुष्टिसंयुक्ता गताः सर्वे महोदयम्
॥३३॥एतत्ते कथितं देवि गंगामाहात्म्यमुत्तमम् ॥
श्रुतं पापप्रशमनं सर्वकामफलप्रदम्
॥३४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये संगालेश्वरसमीपवर्ति गंगामाहात्म्यवर्णनंनाम चतुरुत्तरत्रिशततमोऽध्यायः ॥ ३०४