मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय ९९

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 99

ततो गच्छेन्महादेवि यत्र चक्रधरः स्थितः

ईश्वर उवाच

ततो गच्छेन्महादेवि यत्र चक्रधरः स्थितः ॥

दंडपाणिश्च देवेशि यत्रैकस्थानसंस्थितः

॥१॥

चंद्रेशात्पूर्वदिग्भागे ।

सोमेशादुत्तरेस्थितः) ॥

धनुषां पंचसंस्थाने गंधर्वेशात्समीपतः

॥२॥

उमाया नैर्ऋते भागे ब्रह्मदेवर्षिसंस्थितः ॥

तस्योत्पत्तिं प्रवक्ष्यामि सर्वपातकनाशिनीम्

॥३॥

पौंड्रको वासुदेवस्तु वाराणस्यां पुराऽभवत् ॥

तेन श्रुतं पुराणं तु पठ्यमानं द्विजातिभिः

॥४॥

कल्पादौ द्वापरांते तु क्षत्रियाणां निवेशने ॥

अवतारं महाबाहुवासुदेवः करिष्यति

॥५॥

स तु मूढमतिर्मेने अहं विष्णुरिति प्रिये ॥

चिह्नानि धारयामास चक्रादीनि वरानने

॥६॥

स दूतं प्रेषयामास द्वारकायां महोदरम् ॥

स गत्वा प्राह विष्णुं वै चक्रादीनि परित्यज

॥७॥

इत्याह पौंड्रको राजा नचेद्वधमवा प्स्यसि ॥

ततश्च भगवान्विष्णुः प्राहास्य रुचिरं वचः

॥८॥

वाच्यः स पौंड्रको राजा त्वया हंत वचो मम ॥

गृहीतचक्र एवाहं काशीमागम्य ते पुरीम्

॥९॥

संत्यक्ष्यामि ततश्चक्रं गदां चेमामसंशयम् ॥

तद्ग्राह्यं भवता चक्रमन्यद्वा यत्तवेप्सितम्

॥१०॥

इत्युक्तेऽथ गते दूते संस्मृत्याऽभ्या गतं हरिः ॥

गरुत्मन्तं समारुह्य त्वरितस्तत्पुरं ययौ

॥११॥

मित्रस्नेहात्ततस्तस्य काशिराजः सहानुगः ॥

सर्वसैन्यपरीवारस्ततः पौंड्रमुपाययौ

॥१२॥

ततो बलेन महता काशिराजबलेन च ॥

पौंड्रको वासुदेवोऽसौ केशवाभिमुखो ययौ

॥१३॥

तं ददर्श हरिर्दूराद्दुर्वारे स्यंदने स्थितम् ॥

चक्रहस्तं गदाशार्ङ्गसंयुतं गरुडध्वजम्

॥१४॥

तं दृष्ट्वा भावगंभीरं जहास गरुडध्वजः ॥

उवाच पौंड्रकं मूढमात्मचिह्नोपलक्षितम्

॥१५॥

पौंड्रकोक्तं त्वया यत्तु दूतवक्त्रेण मां प्रति ॥

समुत्सृजेति चिह्नानि तच्च सर्वं त्यजाम्यहम्

॥१६॥

चक्रमेतत्समुत्सृष्टं गदेयं च विस र्जिता ॥

गरुत्मानेष ते गत्वा समारोहतु वै ध्वजम्

॥१७॥

इत्युच्चार्य विमुक्तेन चक्रेणासौ निपातितः ॥

रथश्च गदया भग्नो गजाश्चा श्वाश्च चूर्णिताः

॥१८॥

ततो हाहाकृते लोके काशिनाथो महाबली ॥

युयुधे वासुदेवेन मित्रदुःखेन दुःखितः

॥१९॥

ततः शार्ङ्गविनिर्मुक्तैश्छित्त्वा तस्य शरैः शिरः ॥

काशीपुर्यां स चिक्षेप कुर्वँल्लोकस्य विस्मयम्

॥२०॥

हत्वा तु पौंड्रकं शौरिः काशिराजं च सानु गम् ॥

पुनर्द्वारवतीं प्राप्तो मृगयाया गतो यथा

॥२१॥

ततः काशिपतेः पुत्रः पितुर्दुःखेन दुःखितः ॥

शंकरं तोषयामास स च तस्मै वरं ददौ

॥२२॥

स वव्रे भगवन्कृत्या पितुर्हंतुर्वधाय मे ॥

समुत्तिष्ठतु कृष्णस्य त्वत्प्रसादात्सुरेश्वर

॥२३॥

एवं भविष्यतीत्युक्ते दक्षिणाग्नेस्तु मध्यतः ॥

महाकृत्या समुत्तस्थौ प्रस्थिता द्वारकां प्रति

॥२४॥

ज्वालामालाकरालां तां यादवा भयविह्वलाः ॥

दृष्ट्वा जनार्द्दनं सर्वे शरणार्थमुपागताः

॥२५॥

ततः सुदर्शनं तस्या मुमोच गरुडध्वजः ॥

वधाय सा ततो भग्ना चक्रतेजोऽभिपीडिता

॥२६॥

कृत्यामनुजगामाशु विष्णोश्चक्रं सुदर्शनम् ॥

कृत्या वाराणसीं प्राप्ता तस्याश्चक्रं तु पृष्ठतः

॥२७॥

ततः सा भयसंत्रस्ता शंकरं शरणं गता ॥

सोमनाथं जगन्नाथं नान्यः शक्तो हि रक्षितुम्

॥२८॥

ततश्चक्रं वरैर्बाणैस्ताडयामास शंकरः ॥

तच्च द्वारवतीं प्राप्तं शिवसायकमिश्रितम्

॥२९॥

तद्दृष्ट्वा शिवनामांकैस्ताडितं भगवान्हरिः ॥

चक्रं शरैस्ततः कुद्धो गृहीत्वा च करेण तत् ॥

जगाम तत्र यत्रास्ते सोमेशः कालभैरवः ॥

7.1.99.३० स गत्वा रोष ताम्राक्षश्चक्रोद्यतकरः स्थितः ॥

कृत्यां हंतुं मतिं चक्रे कालभैरवनिर्मिताम्

॥३१॥

दृष्टो देवैस्ततः सर्वैदंडपाणिगणेन च ॥

देवानां प्रेक्षतां तत्र दण्डपाणिर्महागणः ॥

चक्रोद्यतकरं दृष्ट्वा विष्णुं प्राहाब्जलोचनम्

॥३२॥

दंडपाणिरुवाच

मा क्रोधं कुरु देवेश कृत्यां प्रति जगत्प्रभो

॥३३॥

अमोघं युधि ते चक्रं कृत्या चापि च शांकरी ॥

एवं चक्र विनिर्मुक्ते भवेत्कोधो हरे यदि ॥

भविष्यति महद्दुःखं लोकानां संक्षयो हि वा

॥३४॥

न मोक्तव्यमतश्चक्र शृणु भूयो वचश्च नः ॥

अत्र स्थाने नियुक्तोऽहं शंकरेण पुरा हरे

॥३५॥

पापिनां रक्षणार्थं वै विघ्नार्थं दुष्टचेतसाम् ॥

तस्मात्त्वं मम सांनिध्ये तिष्ठ चक्रधरो हरे

॥३६॥

अत्र चक्रधरं देवं पूजयिष्यंति मानवाः ॥

धूपमाल्योपहारैश्च नैवेद्यैर्विवि धैरपि

॥३७॥

विष्णुरुवाच

एष एव निवृत्तोहं तव वाक्यांकुशेन वै ॥

अत्र चक्रोद्यतकरः स्थास्ये तव समीपतः

॥३८॥

एवं हि स्थितोदेवस्तत्र चक्रधरः प्रिये ॥

दंडपाणिश्च भगवान्मम रूपी गणेश्वरः

॥३९॥

यस्तौ पूजयते भक्त्या दंडपाणिहरी क्रमात् ॥

स पाप कंचुकैर्मुक्तो गच्छेच्छिवपुरं नरः

॥४०॥

माघे मासि चतुर्द्दश्यां कृष्णाष्टम्यां विशेषतः ॥

गंधधूपोपहारैर्यः पूजयेद्दण्डनायकम् ॥

तस्य क्षेत्रे निवसतो न विघ्नं जायते क्वचित्

॥४१॥

एकादश्यां जिताहारो योऽर्चयेच्चक्रपाणिनम् ॥

स मुक्तः पातकैः सर्वैर्याति विष्णोः सलोकताम्

॥४२॥

इति संक्षेपतः प्रोक्तं माहात्म्यं चक्रपाणिनः ॥

दण्डपाणिगणस्यापि श्रुतं पापौघनाशनम्

॥४३॥

इति श्रीस्कांदे महापुराण एकाशीति साहस्र्यां सहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये मध्ययात्रायां दण्डपाणिचक्रधरमाहात्म्यवर्णनंनामेकोनशततमोऽध्यायः ॥ ९९ ॥