मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २९४

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 294

माहात्म्येऽजोगन्धेश्वरमाहात्म्यवर्णनम्

ईश्वर उवाच

ततो गच्छेन्महादेवि कौबेरात्पूर्वसंस्थितम् ॥

गव्यूतिपंचके देवि पुष्करंनाम नामतः ॥

यत्र सिद्धो महादेवि कैवर्तो मत्स्यघातकः

॥१॥

देव्युवाच

सविस्तरं मम ब्रूहि कथं स सिद्धिमाप वै ॥

कथयस्व प्रसादेन देवदेव महेश्वर

॥२॥

ईश्वर उवाच

शृणु त्वं यत्पुरावृत्तं देवि स्वारोचिषेंतरे ॥

आसीत्कश्चिद्दुराचारः कैवर्तो मत्स्यघातकः

॥३॥

स कदाचिच्चरन्पापः पुष्करे तु जगाम वै ॥

ददर्श शांकरं वेश्म लतापादपसंकुलम्

॥४॥

स माघमासे शीतार्त्तः क्लिन्नजालसमन्वितः ॥

प्रासादमारुरोहार्त्तः सूर्यतापजिघृक्षया

॥५॥

ततः स क्लिन्नजालं तच्छोषणाय रवेः करैः ॥

प्रासादध्वजदंडाग्रे संप्रसारितवांस्तदा

॥६॥

ततः प्रासादतो देवि जाड्यात्संपतितः क्रमात् ॥

स मृतः सहसा देवि तस्मिन्क्षेत्रे शिवस्य च

॥७॥

जालं तस्य प्रभूतेन जीर्णकालेन यत्तदा ॥

ध्वजा बद्धा यतो जालैः प्रासादे सा शुभेऽभवत्

॥८॥

ततोऽसौ ध्वजमाहात्म्याज्जातोऽवन्यां नराधिपः ॥

ऋतध्वजेति विख्यातः सौराष्ट्रविषये सुधीः ॥

स हि स्फूर्जद्ध्वजाग्रेण रथेन पर्यटन्महीम्

॥९॥

कामभोगाभिभूतात्मा राज्यं चक्रे प्रतापवान् ॥

ततोऽसौ भवने शंभोर्ददौ शोभासमन्विताम् ॥

ध्वजां शुभ्रां विचित्रां च नान्यत्किंचिदपि प्रभुः

॥१०॥

ततो जातिस्मरो राजा प्रभासक्षेत्रमागतः ॥

तत्रायतनं ध्वजाजालसमन्वितम्

॥११॥

अजोगन्धस्य देवस्य पूर्वमाराधितस्य च ॥

प्रासादं कारयामास शिवोपकरणानि च

॥१२॥

नित्यं पूजयते भक्त्या तल्लिंगं पापनाशनम् ॥

दशवर्षसहस्राणि राज्यं चक्रे महामनाः

॥१३॥

तल्लिंगस्य प्रभावेन ततः कालाद्दिवं गतः ॥

तस्मात्तत्र प्रयत्नेन गत्वा लिंगं प्रपूजयेत्

॥१४॥

स्नात्वा पश्चिमतः कुण्डे पुष्करे पापतस्करे ॥

यत्र ब्रह्माऽयजत्पूर्वं यज्ञैर्विपुलदक्षिणैः

॥१५॥

समाहूय च तीर्थानि पुष्करात्तत्र भामिनि ॥

तस्मिन्कुण्डे तु विन्यस्य अजोगन्ध समीपतः ॥

प्रतिष्ठाप्य महालिंगमजोगन्धेति नामतः

॥१६॥

त्रिपुष्करे महादेवि कुण्डे पातकनाशने ॥

सौवर्णं कमलं तत्र दद्याद्ब्राह्मणपुंगवे

॥१७॥

देवं संपूज्य विधिवद्गन्धपुष्पाक्षतादिभिः ॥

मुच्यते पातकैः सर्वैः सप्तजन्मार्जितैरपि

॥१८॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पुष्कर माहात्म्येऽजोगन्धेश्वरमाहात्म्यवर्णनंनाम चतुर्णवत्युत्तरद्विशततमोऽध्यायः ॥ २९४ ॥