प्रभासेश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेद्वरारोहे प्रभासेश्वरमुत्तमम् ॥
गौरीतपोवनाद्देवि पश्चिमे समुदाहृतम्
॥१॥धनुषां सप्तके देवि नातिदूरे व्यवस्थितम् ॥
स्थापितं तन्महालिंगं वसूनामष्टमेन हि
॥२॥प्रभास इति नाम्ना हि शिवपूजारतेन वै ॥
स पुत्रकामो देवेशि प्रभासक्षेत्रमागतः
॥३॥प्रतिष्ठाप्य महालिङ्गं चचार विपुलं तपः ॥
आग्नेयमिति विख्यातं दिव्याब्दानां शतं प्रिये
॥४॥ततस्तस्य महादेवि सम्यक्छ्रद्धान्वि तस्य वै ॥
तुतोष भगवान्रुद्रो ददौ यन्मनसीप्सितम्
॥५॥बृहस्पतेस्तु भगिनी भुवना ब्रह्मवादिनी ॥
प्रभासस्य तु सा भार्या वसूनामष्टमस्य च
॥६॥विश्वकर्मा सुतस्तस्याः सृष्टिकर्ता प्रजापतिः ॥
देवानां तक्षको विद्वान्मनोर्मातामहः स्मृतः
॥७॥तक्षकः सूर्यबिंबस्य तेजसः शातनो महान् ॥
एवं तस्याऽभवत्पुत्रो वसूनामष्टमस्य वै
॥८॥प्रभासनाम्नो देवेशि तल्लिंगाराधनोद्यतः ॥
इति ते कथितं देवि प्रभासेश्वरसूचकम्
॥९॥माहात्म्यं सर्वपापघ्नं सर्वकामप्रदं शुभम् ॥
यस्तं पूजयते भक्त्या सम्यक्छ्रद्धासमन्वितः
॥१०॥भूमिशायी निराहारो जपन्वै शतरुद्रियम् ॥
माघे मासि चतुर्दश्यां स्नात्वा सागरसंगमे
॥११॥पंचामृतेन संस्नाप्य पूजयित्वा विधानतः
॥१२॥य एवं कुरुते देवि सम्यग्यात्रामहोत्सवम् ॥
स मुक्तः पातकैः सर्वैः सर्वकामैः समृद्ध्यते ॥
वृषस्तत्रैव दातव्यः सम्यग्यात्राफलेप्सुभिः
॥१३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये प्रभासेश्वरमाहात्म्यवर्णनंनाम दशोत्तरशततमोऽध्यायः ॥ ११० ॥