मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २५२

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 252

शङ्करनाथमाहात्म्यवर्णनम्

ईश्वर उवाच. ॥

ततो गच्छेन्महादेवि लिंगं त्रैलोक्यविश्रुतम् ॥

तत्र शंकरनाथेति प्रसिद्धं पापनाशनम्

॥१॥

स्थापितं भानुना देवि कृत्वा तत्र महत्तपः ॥

तमर्चयित्वा देवेशं सोपवासो महेश्वरम्

॥२॥

ब्राह्मणान्भोजयेत्तत्र श्राद्धं कुर्याज्जितेन्द्रियः ॥

शक्त्या हिरण्यं वासांसि विप्रे दद्यात्समाहितः ॥

स याति परमं स्थानं नात्र कार्या विचारणा

॥३॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये शङ्करनाथमाहात्म्यवर्णनंनाम द्विपञ्चाशदुत्तरद्विशततमोऽध्यायः ॥ २५२ ॥