शाण्डिल्येश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि शांडिल्येश्वरमुत्तमम् ॥
ब्रह्मणः पश्चिमे भागे धनुषां षोडशांतरे
॥१॥महाप्रभावं लिङ्गं तद्दर्शनात्पापनाशनम्
॥२॥शांडिल्योनाम ब्रह्मर्षिः सारथिर्ब्रह्मणः स्मृतः ॥
तपस्वी स महातेजा ज्ञाननिष्ठो जितेन्द्रियः
॥३॥स प्रभासं समासाद्य तपस्तेपे सुदारुणम् ॥
प्रतिष्ठाप्य महालिंगं सोमेशादुत्तरे स्थितम्
॥४॥स स्वयं पूजयामास दिव्याब्दानां शतं प्रिये ॥
ततोऽभिलषितं प्राप्य कृतकृत्यो बभूव ह
॥५॥नन्दीश्वरप्रसादेन अणिमादिगुणैर्युतः ॥
तं दृष्ट्वा तु नरः सद्यो विपापः संप्रजायते
॥६॥बाल्ये वयसि यत्पापं वार्धक्ये यौवनेऽपि वा ॥
अज्ञानाज्ज्ञानतो वाऽपि यः करोति नरः प्रिये ॥
तत्सर्वं नाशमायाति शांडिल्येश्वरदर्शनात्
॥७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभास क्षेत्रमाहात्म्ये शाण्डिल्येश्वरमाहात्म्यवर्णनंनाम षड्विंशत्युत्तरशततमोऽध्यायः ॥ १२६ ॥