गन्धर्वसेनेश्वरमाहात्म्यवर्णनम्
ईश्वर उवाच
अथ तत्रैव देवेशि लिंगं गन्धर्वसेनया ॥
स्थापितं घनवाहस्य पुत्र्या गौरीसमीपतः
॥१॥धनुषां त्रितये तत्र स्थितं पूर्वविभागतः ॥
विमलेश्वरनामानं सर्वरोगविनाशनम्
॥२॥पूजयित्वा तृतीयायां दौर्भाग्यैर्मुच्यतेऽङ्गना ॥
सर्वान्कामानवाप्नोति पुत्रपौत्रप्रतिष्ठिता
॥३॥इति व्रतं महादेवि त्रेतासंध्यांशके गते ॥
गन्धर्वस्यैवमाख्यातं श्रुतं पातकनाशनम्
॥४॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये गन्धर्वसेनेश्वरमाहात्म्यवर्णनंनाम सप्तविंशोऽध्यायः ॥ २७ ॥