मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — प्रभासक्षेत्रमाहात्म्यम्, अध्याय २०६

3
प्रभासखण्डः · प्रभासक्षेत्रमाहात्म्यम् · 206

श्राद्धविधिवर्णनम्

ईश्वर उवाच

अथ श्राद्धविधिं वक्ष्ये पार्वणस्य विधानतः ॥

यथाक्रमं महादेवि शृणुष्वैकमनाः प्रिये

॥१॥

कृत्वापसव्यं पूर्वेद्युः पितृपूर्वं निमंत्रयेत् ॥

भवद्भिः पितृकार्यं नः संपाद्यं च प्रसीदथ

॥२॥

सवर्णान्प्रेषयेदाप्तान्द्विजानामुपमन्त्रणे

॥३॥

अभोज्यं ब्राह्मणस्यान्नं क्षत्रियाद्यैर्निमन्त्रितैः ॥

तथैव ब्राह्मणस्यान्नं ब्राह्मणेन निमन्त्रितौः

॥४॥

ब्राह्मणान्नं ददेच्छूद्रः शूद्रान्नं ब्राह्मणो ददेत् ॥

उभावेतावभोज्यान्नौ भुक्त्वा चान्द्रायणं चरेत्

॥५॥

उपनिक्षेपधर्मेण शूद्रान्नं यः पचेद्द्विजः ॥

अभोज्यं तद्भवेदन्नं स च विप्रः पतेदधः

॥६॥

शूद्रान्नं शूद्रसंपर्कः शूद्रेण च सहासनम् ॥

शूद्राज्ज्ञानागमश्चैव ज्वलंतमपि पातयेत्

॥७॥

शूद्रान्नोपहता विप्रा विह्वला रतिलालसाः ॥

कुपिताः किं करिष्यंति निर्विषा इव पन्नगाः

॥८॥

नग्नः स्यान्मलवद्वासा नग्नः कौपीनवस्त्रधृक् ॥

द्विकच्छोऽनुत्तरीयश्च विकच्छोऽवस्त्र एव च

॥९॥

नग्नः काषायवस्त्रः स्यान्नग्नश्चार्धपटः स्मृतः ॥

अच्छिन्नाग्रं तु यद्वस्त्रं मृदा प्रक्षालितं तु यत्

॥१०॥

अहतं धातुरक्तं वा तत्पवित्रमिति स्थितम् ॥

अग्रतो वसते मूर्खो दूरे चास्य गुणान्वितः

॥११॥

गुणान्विते च दातव्यं नास्ति मूर्खे व्यतिक्रमः ॥

यस्त्वासन्नमतिक्रम्य ब्राह्मणं पतितादृते ॥

दूरस्थं पूजयेन्मूढो गुणाढ्यं नरकं व्रजेत्

॥१२॥

वेदविद्याव्रतस्नाते श्रोत्रिये गृहमागते ॥

क्रीडन्त्योषधयः सर्वा यास्यामः परमां गतिम्

॥१३॥

संध्ययोरुभयोर्जाप्ये भोजने दंतधावने ॥

पितृकार्ये च दैवे च तथा मूत्रपुरीषयोः ॥

गुरूणां संनिधौ दाने योगे चैव विशेषतः ॥

एतेषु मौनमातिष्ठन्स्वर्गं प्राप्नोति मानवः

॥१५॥

यदि वाग्यमलोपः स्याज्जपादिषु कथंचन ॥

व्याहरेद्वैष्णवं मंत्रं स्मरेद्वा विष्णुमव्ययम्

॥१६॥

दाने स्नाने जपे होमे भोजने देवतार्चने ॥

देवानामृजवो दर्भाः पितॄणां द्विगुणास्तथा

॥१७॥

उदङ्मुखस्तु देवानां पितॄणां दक्षिणामुखः ॥

अग्निना भस्मना वापि यवेनाप्युदकेन वा ॥

द्वारसंक्रमणेनापि पंक्तिदोषो न विद्यते

॥१८॥

इष्टश्राद्धे क्रतुर्दक्षो वृद्धौ सत्यवसू स्मृतौ ॥

नैमित्तिके कालकामौ काम्ये चाध्वविरोचनौ

॥१९॥

पुरूरवा आर्द्रवश्च पार्वणे समुदाहृतौ ॥

पुष्टिं प्रजां च न्यग्रोधे बुद्धिं प्रज्ञां धृतिं स्मृतिम्

॥२०॥

रक्षोघ्नं च यशस्यं च काश्मीर्यं पात्रमुच्यते ॥

सौभाग्यमुत्तमं लोके मधूके समुदाहृतम्

॥२१॥

फाल्गुनपात्रे तु कुर्वाणः सर्वकामानवाप्नुयात् ॥

परां द्युतिमथार्के तु प्राकाश्यं च विशेषतः

॥२२॥

बिल्वे लक्ष्मीं तपो मेधां नित्यमायुष्यमेव च ॥

क्षेत्रारामतडागेषु सर्वपात्रेषु चैव हि

॥२३॥

वर्षत्यजस्रं पर्जन्ये वेणुपात्रेषु कुर्वतः ॥

एतेषां लभ्यते पुण्यं सुवर्णै रजतैस्तथा

॥२४॥

पलाशफलन्यग्रोधप्लक्षाश्वत्थविकंकताः ॥

औदुम्बरस्तथा बिल्वं चंदनं यज्ञियाश्च ये

॥२५॥

सरलो देवदारुश्च शालाश्च खदिरास्तथा ॥

समिदर्थं प्रशस्ताः स्युरेते वृक्षा विशेषतः

॥२६॥

श्लेष्मातको नक्तमाल्यः कपित्थः शाल्मली तथा ॥

निंबो बिभीतकश्चैव श्राद्धकर्मणि गर्हिताः

॥२७॥

अनिष्टशब्दां संकीर्णा रूक्षां जन्तुमतीमपि ॥

प्रतिगंधां तु तां भूमिं श्राद्धकर्मणि गर्हयेत्

॥२८॥

त्रैशंकवं त्यजेद्देशंसर्वद्वादशयोजनम् ॥

उत्तरेण महानद्या दक्षिणेन च केवलम्

॥२९॥

देशस्त्रैशं कवोनाम वर्जितः श्राद्धकर्मणि ॥

कारस्काराः कलिंगाश्च सिंधोरुत्तरमेव च ॥

प्रणष्टाश्रमधर्माश्च वर्ज्या देशाः प्रयत्नतः

॥३०॥

ब्राह्मणं तु कृतं प्रोक्तं त्रेता तु क्षत्रियं स्मृतम् ॥

वैश्यं द्वापरमित्याहुः शूद्रं कलियुगं स्मृतम्

॥३१॥

कृते तु पितरः पूज्यास्त्रेतायां च सुरास्तथा ॥

मुनयो द्वापरे नित्यं पाखंडाश्च कलौ युगे

॥३२॥

शुक्लपक्षस्य पूर्वाह्णे श्राद्धं कुर्याद्विचक्षणः ॥

कृष्णपक्षेऽपराह्ने तु रौहिणं न विलंघयेत्

॥३३॥

रत्निमात्रप्रमाणं च पितृतीर्थं तु संस्कृतम् ॥

उपमूले तथा लूनाः प्रस्तरार्थे कुशोत्तमाः ॥

तथा श्यामाकनीवारा दूर्वाश्च समुदाहृताः ॥

स्व कीर्तिमतां श्रेष्ठो बहुकेशः प्रजापतिः

॥३५॥

तस्य केशा निपतिता भूमौ काशत्वमागताः ॥

तस्मान्मेध्याः सदा काशाः श्राद्धकर्मणि पूजिताः

॥३६॥

पिण्डनिर्वपणं तेषु कर्तव्यं भूतिमिच्छता ॥

उष्णमन्नं द्विजातिभ्यः श्रद्धया विनिवेशयेत्

॥३७॥

अन्यत्र फलपुष्पेभ्यः पानकेभ्यश्च पण्डितः ॥

हस्ते दत्त्वा तु वै स्नेहाल्लवणं व्यञ्जनानि च ॥

आयसेन च पात्रेण तद्वै रक्षांसि भुञ्जते ॥

द्विजपात्रेषु दत्त्वान्नं तूष्णीं संकल्पमाचरेत्

॥३९॥

दर्व्यादिस्थेन नो तेषां संबन्धो दृश्यते यतः ॥

यश्च शूकरवद्भुंक्ते यश्च पाणितले द्विजः ॥

न तदश्नंति पितरो यः सवाचं समश्नुते

॥४०॥

द्विहायनस्य वत्सस्य विशंत्यास्यं यथा सुखम् ॥

तथा कुर्यात्प्रमाणेन पिण्डान्व्यासेन भाषितम्

॥४१॥

न स्त्री प्रचालयेत्तानि ज्ञानहीनो न चाव्रतः ॥

स्वयं पुत्रोऽथवा यस्य वाञ्छेदभ्युदयं परम्

॥४२॥

भाजनेषु च तिष्ठत्सु स्वस्तिं कुर्वन्ति ये द्विजाः ॥

तदन्नमसुरैर्भुक्तं निराशाः पितरो गताः

॥४३॥

अप्स्वेकं प्लावयेत्पिण्डमेकं पत्न्यै निवेदयेत् ॥

एकं वै जुहुयादग्नावेषा तु त्रिविधा गतिः

॥४४॥

छन्दोगं भोजयेच्छ्राद्धे वैश्वदेवे च बह्वृचम् ॥

पुष्टिकर्मण्यथाध्वर्युं शान्तिकर्मण्यथर्वणम्

॥४५॥

द्वौ देवेऽथर्वणौ विप्रौ प्राङ्मुखौ च निवेशयेत् ॥

पित्र्ये ह्युदङ्मुखान्कुर्याद्बह्वृचाध्वर्युसामगान्

॥४६॥

जात्यश्च सर्वा दातव्या मल्लिका श्वेतयूथिका ॥

जलोद्भवानि सर्वाणि कुसुमानि च चम्पकम्

॥४७॥

मधूकं रामठं चैव कर्पूरं मरिचं गुडम् ॥

श्राद्धकर्मणि शस्तानि सैंधवं त्रपुसं तथा

॥४८॥

ब्राह्मणः कम्बलो गावः सूर्योग्निरतिथिश्च वै ॥

तिला दर्भाश्च कालश्च नवैते कुतपाः स्मृताः

॥४९॥

आपद्यनग्नौ तीर्थे च चंद्रसूर्यग्रहे तथा ॥

नाचरेत्संग्रहे चैव तथैवास्तमुपागते

॥५०॥

संशुद्धा स्याच्चतुर्थेऽह्नि स्नाता नारी रजस्वला ॥

दैवे कर्मणि पित्र्ये च पञ्चमेऽहनि शुद्ध्यति

॥५१॥

द्रव्याभावे द्विजाभावे प्रवासे पुत्रजन्मनि ॥

आमश्राद्धं प्रकुर्वीत यस्य भार्या रजस्वला

॥५२॥

सर्पविप्रहतानां च दंष्ट्रिशृंगिसरीसृपैः ॥

आत्मनस्त्यागिनां चैव श्राद्धमेषां न कारयेत्

॥५३॥

चण्डालादुदकात्सर्पाद्ब्राह्मणाद्वैद्युतादपि ॥

दंष्ट्रिभ्यश्च पशुभ्यश्च मरणं पापकर्मणाम्

॥५४॥

सर्वैरनुमतं कृत्वा ज्येष्ठेनैव च यत्कृतम् ॥

द्रव्येण च विभक्तेन सर्वैरेव कृतं भवेत्

॥५५॥

अमावास्यां पितृश्राद्धे मंथनं यस्तु कारयेत् ॥

तत्तक्रं मदिरातुल्यं घृतं गोमांसवत्स्मृतम्

॥५६॥

भुंजंति क्रमशः पूर्वे तथा पिंडाशिषो ऽपि च ॥

निमंत्रितो द्विजः श्राद्धे न शयीत स्त्रिया सह

॥५७॥

श्रादभुक्प्रातरुत्थाय प्रकुर्याद्दन्तधावनम् ॥

श्राद्धकर्ता न कुर्वीत दन्तानां धावनं बुधः

॥५८॥

वर्षेवर्षे तु यच्छ्राद्धं मातापित्रोर्मृतेऽहनि ॥

मलमासे न कर्तव्यं व्यासस्य वचनं यथा

॥५९॥

गर्भे वार्धुषिके प्रेते भृत्ये मासानुमासिके ॥

आब्दिके च तथा श्राद्धे नाधिमासो विधीयते

॥६०॥

विवाहादौ स्मृतः सौरो यज्ञादौ सावनः स्मृतः ॥

आब्दिके पितृकार्ये तु चान्द्रो मासः प्रशस्यते

॥६१॥

यस्मिन्राशौ गते सूर्ये विपत्तिः स्याद्द्विजन्मनः ॥

तद्राशावेव कर्तव्यं पितृकार्यं मृतेऽहनि

॥६२॥

वषट्कारश्च होमश्च पर्व चाग्रायणं तथा ॥

मलमासेऽपि कर्तव्यं काम्या इष्टीर्विवर्जयेत्

॥६३॥

अग्न्याध्येयं प्रतिष्ठां च यज्ञदानव्रतानि च ॥

वेदव्रतवृषोत्सर्गचूडाकरणमेखलाः

॥६४॥

मांगल्यमभिषेकं च मलमासे विवर्जयेत् ॥

नित्यनैमित्तिके कुर्यात्प्रयतः सन्मलिम्लुचे ॥

तीर्थे स्नानं गज च्छायां प्रेतश्राद्धं तथैव च

॥६५॥

रसा यत्र प्रशस्यन्ते भोक्तारो बंधुगोत्रिणः ॥

राजवार्तादि संक्रंदो रक्षःश्राद्धस्य लक्षणम्

॥६६॥

श्राद्धं कृत्वा परश्राद्धे यस्तु भुंक्ते च विह्वलः ॥

पतंति पितरस्तस्य लुप्तपिण्डोदकक्रियाः

॥६७॥

तैलमुद्वर्तनं स्नानं दन्तधावनमेव च ॥

क्लृप्तरोमनखेभ्यश्च दद्याद्गत्वापरेऽहनि

॥६८॥

निमन्त्रिता यथान्यायं हव्ये कव्ये द्विजोत्तमाः ॥

कथंचिदप्यतिक्रामेत्पापः शूकरतां व्रजेत्

॥६९॥

दैवे च पितृ श्राद्धे चाप्याशौचं जायते यदा ॥

आशौचान्तेऽथवा तत्र तेभ्यः श्राद्धं प्रदीयते

॥७०॥

अथ श्राद्धावसाने तु आशिषस्तत्र दापयेत् ॥

दीर्घा नागास्तथा नद्यो विष्णोस्त्रीणि पदानि च ॥

एवमेषां प्रमाणेन दीर्घमायुरवाप्नुयाम्

॥७१॥

अपां मध्ये स्थिता देवाः सर्वमप्सु प्रतिष्ठितम् ॥

ब्राह्मणस्य करे न्यस्ताः शिवा आपो भवन्तु नः

॥७२॥

लक्ष्मीर्वसति पुष्पेषु लक्ष्मीर्वसति पुष्करे ॥

लक्ष्मीर्वसतु वासे मे सौमनस्यं ददातु मे

॥७३॥

अक्षतं चाऽस्तु मे पुण्यं शांतिः पुष्टिर्धृतिश्च मे ॥

यद्यच्छ्रेयस्करं लोके तत्तदस्तु सदा मम

॥७४॥

दक्षिणायां तु सर्वत्र बहुदेयं तथास्तु नः ॥

एवमस्त्विति तैर्वाच्यं मूर्ध्ना ग्राह्यं च तेन तत्

॥७५॥

पिंडमग्नौ सदा देयाद्भोगार्थी सततं नरः ॥

प्रजार्थं पत्न्यै वै दद्यान्मध्यमं मंत्रपूर्वकम्

॥७६॥

उत्तमां द्युतिमविच्छन्गोषु नित्यं प्रदापयेत् ॥

आज्ञामिच्छेद्यशः कीर्तिमप्सु नित्यं प्रवेशयेत्

॥७७॥

प्रार्थयन्दीर्घमायुश्च वायसेभ्यः प्रदापयेत् ॥

कुमारलोकमन्विच्छन्कुक्कुटेभ्यः प्रदापयेत्

॥७८॥

आकाशे प्रक्षिपेद्वापि स्थितो वा दक्षिणामुखः ॥

पितॄणां स्थानमाकाशं दक्षिणा चैव दिक्तथा

॥७९॥

नक्तं तु वर्जयेच्छ्राद्धं राहोरन्यत्र दर्शनात् ॥

सर्वस्वेनापि कर्तव्यं क्षिप्रं वै राहुदर्शनात्

॥८०॥

उपरागे न कुर्याद्यः पंके गौरिव सीदति ॥

कुर्वाणस्तु तरेत्पापं सा च नौरिव सागरे

॥८१॥

कृष्णमाषास्तिलाश्चैव श्रेष्ठाः स्युर्यवशालयः ॥

महायवा व्रीहियवास्तथैव च मसूरिकाः

॥८२॥

कृष्णाः श्वेताश्च वा ग्राह्याः श्राद्धकर्मणि सर्वदा ॥

बिल्वामलकमृद्वीकं पनसाम्रातदाडिमम्

॥८३॥

भव्यं पारापतं चैव खर्जूरं करमर्द्दकम् ॥

सकोरका बदर्यश्च तालकंदं तथा बिसम्

॥८४॥

तमालासनकंदं च मावेल्लं शतकंदली ॥

कालेयं कालशाकं च मुद्गान्नं च सुवर्चलम्

॥८५॥

मांसं क्षीरं दधि शाकं व्योषं वेत्रांकुरस्तथा ॥

कट्फलं वज्रकं द्राक्षां लकुचं मोचमेव च

॥८६॥

प्रियामलकदुर्ग्रीवं तिंडुकं मधुसाह्वयम् ॥

वैकंकतं नालिकेरं शृङ्गाटकपरूषकम्

॥८७॥

पिप्पलीमरिचं चैव पटोली बृहतीफलम् ॥

आरामस्य तु सीमाऽन्तः संभवं सर्वमेव तु

॥८८॥

एवमादीनि चान्यानि पुष्पाणि श्राद्धकर्मणि ॥

मसूराः शतपुष्प्याश्च कुसुमं श्रीनिकेतनम्

॥८९॥

वर्या स्वातियवा नित्यं तथा वृषयवासकौ ॥

वंशा करीरा सुरसा मार्जिता भूतृणानि च

॥९०॥

वर्जनीयानि वक्ष्यामि श्राद्धकर्मणि नित्यशः ॥

लशुनं गृंजनं चैव पलांडुं पिण्डमूलकम् ॥

मोगरं चात्र वैदेहं दीर्घमूलकमेव च

॥९१॥

दिवसस्याष्टमे भागे मन्दीभूते दिवाकरे ॥

आसुरं तद्भवेच्छ्राद्धं पितृणां नोपतिष्ठते

॥९२॥

चतुर्थे प्रहरे प्राप्ते यः श्राद्धं कुरुते नरः ॥

वृथा श्राद्धमवाप्नोति दाता च नरकं व्रजेत्

॥९३॥

लेखाप्रभृत्यथादित्ये मुहूर्तास्त्रय एव च ॥

प्रातस्तस्योत्तरं कालं भगमाहुर्विपश्चितः

॥९४॥

संगवस्त्रिमुहूर्तोऽयं मध्याह्नस्तु समन्ततः ॥

ततश्च त्रिमुहूर्ताश्च अपराह्णो विधीयते

॥९५॥

पञ्चमोऽथ दिनांशो यः स सायाह्न इति स्मृतः

॥९६॥

तथा च श्रुतिः ॥

यदैवादित्योऽथ वसन्तो यदा संगविकोऽथ ग्रीष्मो यदा वा माध्यंदिनोऽथ वर्षा यदपराह्णोऽथ शरत् ॥

घदेवास्तमेत्यथ हेमन्त इति

॥९७॥

प्रारभ्य कुतपे श्राद्धे कुर्यादारोहणं बुधः ॥

विधिज्ञो विधिमास्थाय रोहिणं न तु लंघयेत्

॥९८॥

अष्टमो यो मुहूर्तश्च कुतपः स निगद्यते ॥

नवमो रौहिणः प्रोक्त इति श्राद्धविदो विदुः

॥९९॥

एकोद्दिष्टं तु मध्याह्नं प्रातर्वै जातकर्मणि ॥

पित्र्यार्थं निर्वपेत्पाकं वैश्वदेवार्थमेव च

॥१००॥

वैश्वदेवे न पित्र्यार्थं न पित्र्यं वैश्वदेविके ॥

कृत्वा श्राद्धं महादेवि ब्राह्मणांश्च विसर्ज्य च

॥१०१॥

वैश्वदेवादिकं कर्म ततः कुर्याद्वरानने ॥

बहुहव्येन्धने चाग्नौ सुसमिद्धे विशेषतः

॥१०२॥

विधूमे लेलिहाने च कुर्यात्कर्म प्रसिद्धये ॥

अप्रबुद्धे सधूमे च जुहुयाद्यो हुताशने

॥१०३॥

यजमानो भवेदन्धः कुपुत्र इति निश्चितम् ॥

दुर्गन्धश्चैव कृष्णश्च नीलश्चैव विशेषतः

॥१०४॥

भूमिं विगाहते यत्र तत्र विद्यात्पराभवम् ॥

अर्चिष्मान्पिंगलशिखः सर्पिःकांचनसप्रभः

॥१०५॥

स्निग्धः प्रदक्षिणश्चैव वह्निः स्यात्कार्यसिद्धये ॥

अंजनाभ्यंजनं गंधान्मन्त्रप्रणयनं तथा

॥१०६॥

काशैः पुनर्भवेत्कार्यं हयमेधफलं लभेत् ॥

अष्टजातिकपुष्पं च अञ्जनं नित्यमेव हि

॥१०७॥

कृष्णेभ्यश्च तिलेभ्यश्च तैलं यत्नात्सुरक्षितम् ॥

चन्दनागरुणी चोभे तमालोशीरपद्मकम्

॥१०८॥

धूपश्च गौग्गुलः श्रेष्ठस्तौरुष्को धूप एव च ॥

शुक्लाः सुमनसः श्रेष्ठास्तथा पद्मोत्पलानि च

॥१०९॥

गन्धवन्त्युपपन्नानि यानि चान्यानि कृत्स्नशः ॥

निशिगंधा जपा भिण्डिरूपकः सकुरंटकः

॥११०॥

पुष्पाणि वर्जनीयानि श्राद्धकर्मणि नित्यशः ॥

सौवर्णं राजतं ताम्रं पितॄणां पात्रमुच्यते

॥१११॥

रजतस्य तथा किञ्चिद्दर्शनं पुण्यदायकम् ॥

कृष्णाजिनस्य सान्निध्यं दर्शनं दानमेव च

॥११२॥

रक्षोघ्नं चैव वर्चस्यं पशून्पुत्रांश्च तारयेत् ॥

अथ मन्त्रं प्रवक्ष्यामि अमृतं ब्रह्मनिर्मितम्

॥११३॥

देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ॥

नमः स्वाहायै स्वधायै नित्यमेव नमोनमः

॥११४॥

आद्यावसाने श्राद्धस्य त्रिरावर्तमिमं जपन् ॥

अश्वमेधफलं ह्येतद्विप्रैः संज्ञाय पूजितम्

॥११५॥

पिण्डनिर्वपणे वापि जपेदेनं समाहितः ॥

पितरः क्षिप्रमायान्ति राक्षसाः प्रद्रवन्ति च

॥११६॥

सप्तार्चिषं प्रवक्ष्यामि सर्वकामशुभप्रदम्

॥११७॥

अमूर्तानां च मूर्तानां पितॄणां दीप्ततेजसाम् ॥

नमस्यामि सदा तेषां ध्यायिनां दिव्यचक्षुषाम्

॥११८॥

इन्द्रादीनां च नेतारो दक्षमारीचयस्तया ॥

तान्नमस्यामि सर्वान्वै पितॄंश्चैवौषधीस्तथा

॥११९॥

नक्षत्राणां ग्रहाणां च वाय्वग्न्योश्च पितॄनपि ॥

द्यावापृथिव्योश्च सदा नमस्यामि कृताञ्जलिः

॥१२०॥

नमः पितृभ्यः सप्तभ्यो नमो लोकेषु सप्तसु ॥

स्वयंभुवे नमस्यामो ब्रह्मणे योगचक्षुषे

॥१२१॥

एतत्त्वदुक्तं सप्तर्षिब्रह्मर्षिगणसेवितम् ॥

पवित्रं परमं ह्येतच्छ्रीमद्रक्षोविनाशनम्

॥१२२॥

अनेन विधिना युक्तस्त्रीन्वारांस्तु जपेन्नरः ॥

भक्त्या परमया युक्तः श्रद्दधानो जितेन्द्रियः

॥१२३॥

सप्तार्चिषं जपेद्यस्तु नित्यमेव समाहितः ॥

स तु सप्तसमुद्रायाः पृथिव्या एकराड्भवेत्

॥१२४॥

श्राद्धकल्पं पठेद्यो वै स भवेत्पंक्तिपावनः ॥

अष्टादशानां विद्यानां स च वै पारगः स्मृतः

॥१२५॥

पूजां पुष्टिं स्मृतिं मेधां राज्यमारोग्यमेव च ॥

प्रीता नित्यं प्रयच्छन्ति मानुषाणां पितामहाः

॥१२६॥

एवं प्रभासक्षेत्रे स सरस्वत्यब्धिसंगमे ॥

कुर्याच्छ्राद्धं विधानेन प्रभासे चैव भामिनि

॥१२७॥

इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभास क्षेत्रमाहात्म्ये सरस्वत्यब्धिसंगमे श्राद्धकल्पे श्राद्धविधिवर्णनंनाम षडुत्तरद्विशततमोऽध्यायः ॥ २०६ ॥