नदीमाहात्म्यवर्णनम्
ईश्वर उवाच
ततो गच्छेन्महादेवि पिंगलीं पापनाशिनीम् ॥
ऋषितीर्थात्पश्चिमतो नदीं सागरगामिनीम्
॥१॥तस्याः संदर्शनाद्देवि रूपवाञ्जायते नरः ॥
पुरा महर्षयः प्राप्ताः सोमेश्वरदिदृक्षया
॥२॥प्रभासं क्षेत्रमासाद्य नदीतीरे व्यवस्थिताः ॥
दाक्षिणात्या महादेवि कृष्णवर्णा विरूपकाः
॥३॥तत्राश्रमवरे स्नात्वा पश्यन्तो रूपमात्मनः ॥
कामेन सदृशं सर्वे विस्मयं परमं गताः
॥४॥ततस्ते सहिताः सर्वे विस्मयोत्फुल्ललोचनाः ॥
अत्र स्नाता वयं सर्वे यतः पिंगत्वमागताः ॥
अतः प्रभृति नामास्यास्ततः पिंगा भविष्यति
॥५॥येत्र स्नानं करिष्यन्ति भक्त्या परमया युताः ॥
न तेषामन्वये कश्चिद्भविष्यति कुरूपवान्
॥६॥दर्शनात्पितृमेधस्य लप्स्यते मानवः फलम् ॥
स्नानेन द्विगुणं पुण्यं तर्पणेन चतुर्गुणम्
॥७॥असंख्यातं फलं तस्य योऽत्र श्राद्धं करिष्यति ॥
एवमुक्त्वा ततः सर्व ऋषयो वरवर्णिनि
॥८॥व्यभजंस्तन्नदीतीरं सर्वे ते मुनिसत्तमाः ॥
यज्ञोपवीतमात्राणि चक्रुस्तीर्थानि सर्वतः
॥९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां सप्तमे प्रभासखण्डे प्रथमे प्रभासक्षेत्रमाहात्म्ये पिंगा नदीमाहात्म्यवर्णनंनाम षट्चत्वारिंशदुत्तरद्विशततमोऽध्यायः ॥ २४६ ॥